॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|70
SK 525
4|1|70
संहितशफलक्षणवामादेश्च  
SK 525
सूत्रच्छेद:
संहितशफलक्षणवामादेः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
संहित शफ लक्षण वाम इत्येवम् आदेः प्रातिपदिकादूरूत्तरपदात् स्त्रियाम् ऊङ् प्रत्ययो भवति। अनौपम्यार्थ आरम्भः। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः। सहितसहाभ्यां च इति वक्तव्यम्। सहितोरूः। सहोरूः।
`संहितोरूः` इति। संहितशब्दः संश्लिष्टवचनः, संश्लिष्टोरुरित्यर्थः।`सहितसहाभ्याञ्चेति वक्तव्यम्` इति। सहित, सह -- इत्येताभ्यां परो य उरुशब्दस्तदन्ताच्च प्रातिपदिकादूङ् भवीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- घकारोऽत्र क्रियते, स चायुक्तसमुच्चयार्थः, तेन सहितसहाभ्यामपि भविष्यति। सूत्र आदिग्रहणमूरूत्तरपदमित्यस्यानुवृत्तेर्लिङ्गम्। अन्यथा संहितादिप्रातिपदिकेभ्य एव प्रत्ययो भवतीत्येषोऽर्थो विज्ञायेत। सत्यां हि स्वरितत्वादेवानुवृत्तावेभ्यो यत्परमूरूत्तरपदं सत्यप्यस्मिन् मध्यपदे तत्रैव प्रत्ययः प्रसज्यते;संहितस्वाम्यूरुशब्दात्, न संहितोरुशब्दात्। गुणभावादूरुशब्दस्य न स्यादेवेह विशेषणम्॥
संहितशब्दः सहितपर्यायः, लक्षणशब्दोऽर्शाअद्यच्प्रत्ययान्तः, वामशब्दः शोभनपर्यायः । सहितसहाभ्यां चेति । ठ्समो वा हितततयोःऽ इति मलोपे सति यः सहितशब्दस्तस्य संहितग्रहणेनैव सिद्धम्, एकदेशविकृतस्यानन्यत्वात् । यस्तु सह हितेन वर्तते इति व्युत्पन्नः सहितशब्दस्तस्येदं ग्रहणमित्याहुः । सहोरूरिति । सहेते इति सहौ, तादृशावूरू यस्या इत्यर्थः । विद्यमानस्य वा सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥
सिद्धान्तकौमुदी
अनौपम्यार्थं सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः ॥ ।सहितसहाभ्यां चेति वक्तव्यम् (वार्तिकम्) ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥
संहितशफलक्षणवामादेश्च - संहितशफ । संहित शफ लक्षण वाम एतत्पूर्वपदादप्यूरूत्तरपदादूङ् ऊरू यस्या इति विग्रहः । सैव शफोरूरिति । संहितोरूरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृणोतिशपौ खुराविति । यद्यपिशफं क्लीबे खुरः पुमा॑नित्यमरस्तथापिशफः खुरे गवादीना॑मिति [हेम] चन्द्रकोशात्पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह — ताविवेति । यतः शफाविव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह — संश्लिष्टत्वादिति । तर्ह्रुपमानवाचिपूर्वपदत्वादेव सिद्धमित्यत आह — उपचारादिति । शफवद्वास्तवं संश्लिष्टत्वमवलम्ब्या शफत्वस्य आरोपादित्यर्थः । एवं च शफशब्दात्तत्सादृश्याऽप्रतीतेर्नोक्तदोष इति भावः । लक्षणोरूरिति । लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह — लक्षणशब्दादिति । लक्षणमनयोरस्तीति विग्रहे लक्षणशब्दादर्शाअदिभ्योऽजित्यच्प्रत्यय इत्यर्थः । तथाच लक्षणयुर्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ=सुन्दरौ ऊरू यस्या इति विग्रहः ।वामौ वल्गुप्रतीपौ द्वौ॑ इत्यमरः ।सहितेति । "सहित" "सह" आब्यां परो य ऊरुशब्दस्तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृतन्यायेन सिद्धे पुनः सहितग्रहणं व्यर्थमित्यत आह — हितेनेति । हितेन सहेति विग्रहेतेन सहे॑ति बहुव्रीहौवोपसर्जनस्ये॑ति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमानवचनत्वे सहोरूरित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह — सहेते इति ।रतिकालिकमर्दन॑मिति शेषः । विद्यमानवचनत्वेऽपि सहशब्दस्य न वैयथ्र्यामित्याह-यद्वेति । अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयथ्र्यमिति भावः ।
संहितशफलक्षणवामादेश्च - संहित । संहितादिपूर्वपदमूरूत्तरपदं यत् प्रातिपदिकं तस्मादूङ् स्यात् । शफाविति । यद्यप्यमरेणशफं क्लीबे खुरः पुमान्इति नपुंसकतोक्ता, तथापि शफशब्दस्य पुंस्त्वमपि प्रामाणिकमेव ।शफाविव जर्भुराणे॑ति श्रुतेः ।शफः खुरे गवादीनां मूले विटपिनामपि॑इति हेमचन्द्रकोशाच्च । वामोरूरिति । वामौ सुन्दरौ ऊरू यस्या इतचि विग्रहः । कथं तर्हिपीवरोरु । पिबतीव बर्हिणः॑इति कुमारः । ऊङभावे हिपीवरोरो॑इति स्यात् । ऊङ्श्चेह विधायकं नास्ति । अत्राहुः — -संज्ञापूर्वकविधेरनित्यतया संबुद्धिगुणाऽभावादिति स्थितस्य गतिरुन्नेयेति ।सहितसहाभ्यां चेति वक्तव्यम् । हितेन सहेति । अत्राहुः — समो वा हितततयोः॑इति व्युत्पादितःसहित॑शब्दस्तु नेह गृह्रते, एकदेशविकृततया संहितग्रहणादेव तत्सिद्धेरिति भावः ।
लघुसिद्धान्तकौमुदी
अनौपम्यार्थं सूत्रम्। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥
महाभाष्यम्
संहितशफलक्षणवामादेश्च (1320) (ःढ़द्य;ङोऽधिकरणम्) (पूरकभाष्यम्) सहितसहाभ्यां चेति वक्तव्यम्। सहितोरूः, सहोरूः।।