Page loading... Please wait.
4|1|69 - ऊरूत्तरपदादौपम्ये
॥ तस्मै पाणिनये नमः ॥
4|1|69
SK 524
ऊरूत्तरपदादौपम्ये  
सूत्रच्छेदः
ऊरू-उत्तरपदात् (पञ्चम्येकवचनम्) , औपम्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऊरूत्तरपदात् प्रातिपदिकातौपम्ये गम्यमाने स्त्रियाम् ऊङ् प्रत्ययो भवति। कदलीस्तम्भोरूः। नागनासोरूः। करभोरूः। औपम्ये इति किम्? वृत्तोरुः स्त्री।
`वृत्तोरुः` इति। वृत्तौ {परिमण्डला ऊरू इति मुद्रितः पाठ।} परिमण्डलाबूरू यस्याः सा वृत्तोरुः। लाघवार्थमूर्वन्तादिति वक्तव्य ऊरूत्तरपदादित्युक्तम्-- यत्र केवल ऊरुब्द उत्तरपदं तत्र यथा स्यादित्येवमर्थम्; अन्यथा हि यद्यर्वन्तादित्युच्येत,तदा स्वामिन ऊरू स्वाम्यूरू, हस्तिन इव स्वम्यूरू यस्याः सा हस्तिस्वम्यूरुरित्यत्रापि स्यात्, भवति ह्रेतदूर्वन्तं प्रातिपदिकम्। उत्तरपदग्रहणे तु न दोषः, न ह्रेतदूरूत्तरपदं प्रातिपदिकम्, किं तर्हि? स्वाम्यूरूत्तरपदम्॥
उपमीयतेऽनयेत्युपमा, तद्भाव औपम्यम् । कथं ठ्विचकरे च करेणुकरोरुभिःऽ इति ? निरङ्कुशाः कवयः; ठ्करेण वरोरुभिःऽ इति पाठः---करेण विचकरे वरोरुभिरिति ॥
सिद्धान्तकौमुदी
उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥
ऊरूत्तरपदादौपम्ये - ऊरुत्तर । ऊरुः-उत्तरपदं यस्येति बहुव्रीहिः । प्रातिपदिकादित्यनुवर्तते । उत्तरपदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति । उपमीयते अनयेत्युपमा=उपमानम्, उपमैव औपम्यं, स्वार्थे ष्यञ् । तदाह — उपमानवाचीति । करभोरूरिति । करभाविव ऊरू यस्या इति विग्रहः ।मणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ इत्यमरः । करभोरुत्वस्याऽजातित्वादप्राप्तौ वचनम्, ऊर्वाकृतेः करभसदृशपुरुषोरुसाधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्रत्वाऽभावात्, असर्वलिङ्गत्वाद्यभावाच्च । उपमानवचीति किम् । वृत्तोरुः । करभोपमोरुरित्यादौ नोङ्, करभशब्दस्य करभसदृशेऽवृत्त्या उपमानवाचित्वाऽभावात् ।
ऊरूत्तरपदादौपम्ये - ऊरूत्तपदात् । उपमीयतेऽनयेत्युपमा, तस्या भाव औपम्यम् । उत्तरपदेन पूर्वपदमिहाक्षिप्यते । तदेतत्फलितमाह — -उपमानवाचिपूर्वपदमिति । करभोरूरिति ।माणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ । तद्वदूरू यस्याः सा ।धात्री कराभ्यां करभोपमोरु॑रित्यत्र तूङ् न, करभशब्दस्योपमानवाचित्वेऽपि पूर्वपदत्वाऽभावात् । औपम्ये किम् । वृत्तोरुः ।ऊर्वन्ता॑दिति वक्तव्ये उत्तरपदग्रहणंहस्तितस्वाम्यूरु॑रित्यत्र माभूदित्येवमर्थम् । अत्र हि हस्तिन इव स्वाम्यूरु अस्या इति विग्रहः । तथा चोर्वन्तत्वेऽपि ऊरुत्तरपदत्वमिह नास्ति ।स्वाम्यूरु॑शब्दस्यैवोत्तरपदत्वात् ।
लघुसिद्धान्तकौमुदी
उपमानवाची पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात्। करभोरूः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.