Page loading... Please wait.
4|1|61 - वाहः
॥ तस्मै पाणिनये नमः ॥
4|1|61
SK 516
वाहः  
सूत्रच्छेदः
वाहः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ङीषेव स्वर्यते, न ङीप्। वहेरयं ण्विप्रत्ययान्तस्य निर्देशः। सामार्थ्यात् तदन्तनिधेर् विज्ञानम्। बहन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। दित्यौही। प्रष्ठौही।
Text Unavailable. Please use feedback link below to provide the text if you have.
सामर्थ्यादिति । कर्मण्युपपदे वहेर्ण्विधानात्केवलस्य वाहः सम्भवो नास्तीत्येतत्सामर्थ्यम् । दित्यौहीति । ठ्च्छन्दसिसहःऽ, ठ्वहश्चऽ इति ण्विः, उपधावृद्धिः, ङीषि ठ्वाह ऊठऽ, तत्र सम्प्रसारणमित्यनुवृतेः ठ्सम्प्रसारणाच्चऽ इति पूर्वरूपत्वम्, ठेत्येधत्यूठ्सुऽ इति वृद्धिः ॥
सिद्धान्तकौमुदी
वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च मे दित्यौही च मे ॥
वाहः - वाहः । "वाह" इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः । तदाह — वाहन्तादिति । ङीषेवानुवर्तत इति । "अन्यतो ङीष् इत्यत" इति शेषः । न ङीबिति । "दिक्पूर्वपदात्" इति पूर्वसूत्रे संनिहितमपि ङीब्ग्रहणमिह नानुवर्तते, अस्वरितत्वादित्यर्थः । स्वरे विशेषः । दित्यौहीति । गवां तावत् षण्मासात्मकमेकैकं वयः ।गर्भाश्च मे वत्साश्च मे॑ इत्यनुवाके अनुक्रान्तानि वयांसि । तत्र तृतीयं वयो दित्यशब्देनोच्यते, इति यजुर्वेदभाष्ये, भवस्वामिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च स्पष्टम् । दित्यं वहतीति विग्रहेच्छन्दसि सहः॑,वहश्चे॑ति ण्विः, उपधावृद्धिः, उपपदसमासः । दित्यवाह्शब्दात् ङीष् ।वाह ऊठ् । "एत्येधत्यूठ्सु " इति वृद्धिः, दित्यौहीति रूपम् । ण्विप्रत्ययस्य छन्दोमात्रविषयत्वाद्वेदवाक्यमुदाह्मतम् । सोके तु वाहयतेः क्विपि, वाह्शब्दात् ङीषि, दित्यौहीति रूपमस्ति । वैदिकप्रक्रियायामुपन्यसनीयमेप्येतत्सूत्रमेतदर्थमिहोपन्यस्तम् ।
वाहः - वाहः । ण्विप्रत्ययान्तस्य वहेरनुकरणमिदम् ।वहश्चे॑त्यनेन कर्मण्युपपद एव वहेर्ण्विप्रत्ययविधानात्केवलस्य संभवो नास्तीति सामथ्र्यात्तदन्तविधिरित्यभिप्रेत्याह — वाहन्तादिति । न ङीबिति । अस्वरितत्वादिति भावः । दित्यौहीति । ङीषि भसंज्ञायांवाह ऊठ्,संप्रसारणाच्च॑इति पूर्वरूपम् ।एत्येधत्यूठ्सु॑इहि वृद्धिः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.