॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|60
SK 515
4|1|60
दिक्पूर्वपदान्ङीप्‌  
SK 515
सूत्रच्छेद:
दिक्पूर्वपदात् - पञ्चम्येकवचनम् , ङीप् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्वाङ्गाच् च उपसर्जनातित्येवम् आदिविधिप्रतिषेधविषयः सर्वो ऽप्यपेक्ष्यते। यत्र ङीष् विहितस् तत्र तदपवादः। दिक्पूर्वपदात् प्रातिपदिकात् ङीप् प्रत्ययो भवति। स्वरे विशेषः। प्राङ्मुखी, प्राङ्मुखा। प्राङ्नासिकी, प्राङ्नासिका। इह न भवति, प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघना इति।
`विधिप्रतिषेध` इत्यादि। विधिविषयः-- स्वाङ्गमुपसर्जनसंयोगोपधत्वम्, नासिकादि च प्रातिपदिकम्। प्रतिषेधविषयः- संयोगोपधञ्च प्रातिपदिकम्, `न क्रोडादिबह्वचः` 4|1|56 `सहनञ्विद्यमानपूर्वाच्च` 4|1|57 इति। एतेनैतत् सूचयति-- `स्वाङ्गाच्चोपस्र्जनासंयोगोपधात्` 4|1|54 इत्यादि विधिशास्त्रमिहानुवत्र्तते, `न क्रोडादिबह्वचः` 4|1|56 इत्यादि प्रतिषेधशास्त्रम्, तेन यत्र विषये ङीष् विहितस्तत्रैव ङीब्विधेयः। यत्र तु विषये ङीष् प्रतिषिद्धस्तत्र ङीबपि प्रतिषिध्यत इति। `यत्र ङीष् विहितः` इत्यादिना विधि विषयापेक्षयाः फलं दर्शयति। कः पुनर्ङीपो वा विशेषः, यावतोभयत्र तदेव रूपम्? इत्याह-- `स्वरे विशेषः` इति। ङीपो हि पित्त्वादनुदात्तत्वं भवतीति, ङीषस्तु प्रत्ययस्वरेणाद्युदात्तत्वम्। `प्राङमुखी` इति। ऋत्विगादि 3|2|59 सूत्रेणाञ्चतेः क्विन्, `अनिदिताम्` 6|4|24 इत्यनुनासिकलोपः, `उगितश्च` 4|1|6 इति ङीप्--प्राची। प्राच्यां दिशि मुखमिति `दिक्शब्देभ्यः सप्तमीपञ्चमी` 5|3|27 इत्यादिनास्तातिः, `अञ्चेर्लुक्` 5|3|30 इति तस्य लुक्, `लुक् तद्धितलुकि` 1|2|49 इति स्त्रीप्रत्ययस्यापि लुक्, `तद्धितश्चासर्वविभक्तिः` 1|1|37 इत्यव्ययत्वम्, `अव्ययादाप्सुपः` 2|4|82 इति सुपो लुक्--- प्राग् मुखं यस्याः सा प्राङमुखी, `यरोऽनुनासिकेऽनुनासिको वा` 8|4|44 इति ङकारः। `प्राङ्मुखा` इति। टाप्। ननु च ङीपा मुक्ते `स्वाङ्गाच्चोपसर्जनात्` 4|1|54 इति ङीषा भवितव्यम्? नैतदस्ति; आचार्यप्रवृत्तिज्र्ञापयति--यत्रोत्सर्गापवादयोर्विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवत्र्तत इति, यदयं `पीलाया वा` 4|1|118 इति वाग्रहणं करोति। यद्यत्राणा विकल्पितेन मुक्ते `स्त्रीभ्यो ढक्` 4|1|120 (इति) ढकारेण भवितव्यं किं वाग्रहणेन? तस्मादस्माद्वाग्रहणादिदं ज्ञाप्यते-- यत्रोत्सर्गोऽपि विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति। कथं पुनरुत्सर्गो विभाषा? महाविभाषया। `प्राग्दीव्यतोऽण्` 4|1|83 इत्यणुत्सर्गः, `स्त्रीभ्यो ढक्` 4|1|120 इति ढगपवादः; तेन मुक्ते यद्यपि स्यादण्, किं वाग्रहणेन? नेत्येवं ब्राऊयात्, तत्रौत्सर्गिकाणो निवृत्त्यर्थम्। `इह न भवति` इत्यादिना प्रतिषेधापेक्षायाः फलं दर्शयति। `प्राक्क्रोडा, प्राग्जघना` इति। अत्र हि `न क्रोडादिबह्वचः` 4|1|56 इत्यस्याप्यनुवृत्तेर्ङीष् न भवति। `प्राग्गुल्फा` इति। अत्राप्यसंयोगोपधा 4|1|63 , `वहश्च` 3|2|64 इति ण्विः, ण्वेः सर्वापहारी लोपः, प्रत्ययलक्षणेन `अत उपधायाः` 7|2|116 इति वृद्धिः, ङीष्, `वाह ऊठ्` 6|4|132 इति संप्रासरणसंज्ञको वकारस्योठ् भवति; `वसोः सम्प्रसारणम्` 6|4|131 इत्यतः सम्प्रसारणानुवृत्तेः। ठकारः `एत्येधत्यूठसु` 6|1|86 इति विशेषणार्थः। `सम्प्रसारणाच्च` 6|1|104 इति पररूपत्वम्, `एत्येधत्यूठ्सु` 6|1|86 इति पूर्वपदाकारेण सैहकादेशो वृद्धिः॥
दिक्पूर्वपदान्ङीषोऽनुदातत्वम्, ठ्स्वाङ्गाच्चऽ इत्यादिना विहितस्य ङीष एवास्मिन्विषयेऽनुदातत्वं वक्तव्यम्, ङीब्विधाने ह्यन्यत्रापिङीष्विषयान्ङीप्प्रसङ्गः । अपूर्वे हि ङीपि विधीयमाने प्राग्गुल्फा, प्राग्जघनेति ङीष्विषयादन्यत्रापि ङीप्प्राप्नोति; ङीषः प्रतिषेधाभावात् ? इत्यस्मिन्पूर्वपक्षे इदमाह---विधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते इति । तत्र विधिविषयापेक्षायाः फलं दर्शयति---यत्र ङीष्विहित इति । स्वरे बिशेष इति । ङीपः पित्वादनुदातत्वं भवति, ङीषस्तु प्रत्ययाद्यौदातत्वप्रसङ्गः । प्राङ्मुखेति । ङीपा मुक्ते ठ्स्वाङ्गाच्चो पसर्जनात्ऽ इति ङीषपि न भवति, कथम् ? उक्तमेतत्---ठ्यत्रोत्सर्गापवादौ द्वावपि विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्ततेऽ इति । प्रतिषेधापेक्षायाः फलं दर्शयति---इह न भवतीति । एवं च कृत्वा वाक्यभेदः कर्तव्यः---दिक्पूर्वपदादसंयोगोपधस्वाङ्गान्तान्नासिकाद्यन्तान्ङीष् भवति; क्रोडादिबह्वजन्तातु नेति अपरः कल्पः, अत्र ङीषनुवर्तते, तस्य दिक्पूर्वपदादिति पञ्चम्या षष्ठी प्रकल्प्यते, दिक्पूर्वपदादुतरस्य ङीषो ङीबादेशो भवतीत्यर्थः । तेन यत्र ङीष् तत्रैव ङीबिति सिद्धम् । एवं चोतरत्र ङीषेव स्वर्यत इत्युपपन्नं भवति ॥
सिद्धान्तकौमुदी
दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥
दिक्पूर्वपदान्ङीप् - दिक्पूर्वपदान्ङीप् । दिक्पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनुवर्तते । प्रातिपदिकादिति च ।॒अन्यतो ङीषि॑त्यतो ङीषित्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — दिक्पूर्वेत्यादिना । प्राङ्मुखीति । प्राक् मुखं यस्या इति विग्रहः । ङीषो ङीब्विधेः फलमाह — आद्युदात्तं पदमिति । ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्तत्वम् । ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो ङीबेव विधीयतामिति वाच्यं, तथा सति प्राग्गुल्फेत्यादावपिअसंयोगोपधा॑दिति निषेधं बाधित्वा ङीप्प्रसङ्गात् । ङीषो ङीबादेशविधौ तुस्वाङ्गाच्चोपसर्जनादसंयोगोपधा॑दिति विहितङीषो ङीब्विधानान्न दोषः ।असंयोगोपधा॑दित्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः ।
दिक्पूर्वपदान्ङीप् - ङीषो ङीबादेश इति ।अन्यतो ङी॑षित्यतो ङीषित्यनुवर्तते ।दिक्पूर्वपदा॑दिति पञ्चम्याङी॑षिति प्रथमायाः षष्ठी कल्प्यत इति भावः । यदि तु स्वतत्त्रो ङीप्स्यात्तर्हिप्राग्गुल्फा॑प्राक्रोडे॑त्यत्रापि प्रसज्येत, पूर्वोक्ताऽसंयोगोपधादित्यस्य निषेधानां चानुवृत्तौ प्रतिपत्तिगौरवमिति भावः । [प्राङिति.॒निपाता आद्युदात्ताः॑इति पूर्वपदे उदात्ते सतिबहुव्रीहौ प्रकृत्या पूर्वपद॑मिति पूर्वपदप्रकृतिस्वरे सिद्धे ङीष् प्रत्ययस्वरेणोदात्त इति सेषनिघातः स्यात्, तन्माभूदिति ङीषो ङीबनुदात्तो विधीयत इति प्राङ्गुखीति पदमाद्युदात्तमिति भावः]
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
दिक्पूर्वपदान्ङीप् (1313) (ङीबादेशाधिकरणम्) (5202 आक्षेपवार्तिकम्।। 1 ।।) - दिक्पूर्वपदान्ङीषोऽनुदात्तत्वम् - (भाष्यम्) दिक्पूर्वपदान्ङीषोऽनुदात्तत्वं वक्तव्यम्। प्राङ्मुखी, प्रत्यङ्मुखी। (5203 द्वितीयाक्षेपवार्तिकम्।। 2 ।।) - ङीब्विधाने ह्यन्यत्रापि ङीष्विषयान्ङीप्प्रसङ्गः - (भाष्यम्) ङीब्विधाने हि सति अन्यत्रापि ङीष्विषयान्ङीप् प्राप्नोति। प्राग्गुल्फा, प्रत्यग्ललाटा। ननु चैते विशेषा अनुवर्तन्ते ‐ असंयोगोपधात् बह्वचो न इति। यद्यप्येते विशेषा अनुवर्तेरन् ‐ संयोगोपधाद्बह्वचो नेति। एवमपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत। नैष दोषः। उक्तमेतत् ‐ यत्रोत्सर्गापवादं विभाषा तत्रापवादेन मुक्ते उत्सर्गो न भवतीति।। (सिद्धान्तभाष्यम्) अथ वा ङीष आदेशो ङीप् करिष्यते।। तत्तर्हि ङीषोऽत्र ग्रहणं कर्तव्यम्? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? अन्यतो ङीषिति। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः। दिक्पूर्वपदादित्येषा पञ्ञ्चमी ङीषिति प्रथमायाः षष्ठीमिह प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1।1।67) इति।। प्रत्ययविधिरयम्, न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः, विहितः प्रत्ययः प्रकृतश्चानुवर्तते।।