Page loading... Please wait.
4|1|58 - नखमुखात्‌ संज्ञायाम्
॥ तस्मै पाणिनये नमः ॥
4|1|58
SK 514
नखमुखात्‌ संज्ञायाम्  
सूत्रच्छेदः
नख-मुखात् (पञ्चम्येकवचनम्) , संज्ञायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नखमुखान्तात् प्रातिपदिकात् संज्ञायाम् विषये स्त्रियां ङीष् प्रत्ययो न भवति। शूर्पणखा। वज्रनखा। गौरमुखा। कालमुखा। संज्ञायाम् इति किम्? ताम्रनखी कन्या। चन्द्रमुखी।
`सूर्पणखा` इति। `पूर्वपदात्संज्ञायामगः` 8|4|3 इति णत्वम्। अथ कथं शूर्पनखी राक्षसीति? असंज्ञात्वात्। संज्ञायामित्युच्यते, न चेयं संज्ञा। तथा हि-- `पूर्वपदात्` 8|4|3 इत्यादिना णत्वं न भवति। यौगिकस्त्वेष तस्या व्यपदेशः; शूर्पाकारनखयोगात्-- शूर्पमिव नखो यस्याः शूर्पनखीति॥
शूर्पणखेति । ठ्पूर्वपदात्संज्ञायायामगःऽ इति णत्वम् । एवं च शूर्पणखा वा राक्षसी शूर्पनखी वा । यदि योगमात्रं न संज्ञा---शूर्पनखी, संज्ञायाम्---शूर्पणखा; न पुनः शूर्पणखीति णत्वङीषो समावेशः साधुः ॥
सिद्धान्तकौमुदी
ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥
नखमुखात् संज्ञायाम् - नखमुखात् । नखमुखादिति । समाहारद्वन्द्वः । शेषपूरणेन सूत्रे व्याचष्टे — ङीष् नेति ।स्वाङ्गाच्चे॑ति प्राप्तस्य निषेधोऽयम् । शूर्पणखेति । राक्षसीविशेषस्य नाम । शूर्पाणीव कररूहा यस्या इत्यस्वपदविग्रहः, संज्ञात्वेन नित्यसमासत्वात् ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । केवलयौगिकत्वे तु ङीष् भवत्येव । णत्वं तु न । गौरमुखेति — कस्याश्चिन्नाम । ओतं मुखं यस्या इत्यस्वपदविग्रहः ताम्रमुखीति । यौगिकोऽयम् । ताम्रं मुखं यस्या इति विग्रहः ।
नखमुखात् संज्ञायाम् - शर्पणखेति ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । यदा तु शूर्पवन्नखानि यस्या इति योगमात्रं विवक्ष्यते न तु संज्ञा, ततोऽसंज्ञात्वान्न ङीष्निषेधो, न वा णत्वं, तेन राक्षस्यपि योगवृत्त्याशर्पनखी॑ति भवतीत्याहुः ।
लघुसिद्धान्तकौमुदी
न ङीष्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.