॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|57
SK 513
4|1|57
सहनञ्विद्यमानपूर्वाच्च  
SK 513
सूत्रच्छेद:
सहनञ्‍विद्यमानपूर्वात् - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्वाङ्गाच् च उपसर्जनातिति, नासिकौदरओष्ठजङ्घादन्तकर्ण. शृग्गाच् च 4|1|55 इति च प्राप्तो ङीष् प्रतिषिध्यते। सह नञ् विद्यमान एवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। सकेशा। अकेशा। विद्यमानकेशा। सनासिका। अनासिका। विद्यमाननासिका।
`सकेशा` इति। सह केशैर्वर्तत इति। `तेन सहेति तुल्योगे` 2|2|28 इति समासः। `वोपसर्जनस्य` 6|3|81 इति सहस्य सभावः। `अकेशा`इति। अविद्यमानाः केशा अस्येति, `नञोऽस्त्यर्थानां बहुव्रीहिरुत्तरपदलोपश्च` (वा।102) इति विद्यमानशब्दलोपः। अथ पूर्वग्रहणं किम्, सहनञ्विद्यमानादित्येवोच्येत, एतया हि पञ्चम्या स्वाङ्गे विशेष्यमाणे सहादिपूर्वता लभ्यत एव? नैतदेवम्; पञ्चमी हि परत्वेन स्वाङ्गं विशेषयेत्-- सहादिभ्यः परं यत् स्वाङ्गमिति। ततश्च सहादिभ्यः परेण स्वाङ्गेनान्यस्यापि कल्याणं विद्यमानमुखमस्या इति विग्रहः। अथ वा-- विद्यमानं मुखं यस्य स विद्यमानमुखः, कल्याणो विद्यमानमुखो यस्या इति विग्रहः। पूर्वग्रहणे सति पूर्वशब्दस्यावयववाचित्वात् सहादिपूर्वत्वेन प्रातिपदिकं विशेष्यत इति सहाद्यवयवं यत् स्वाङ्गान्तं प्रातिपदिकं तस्मादिति विज्ञायमाने नात्र प्रतिषेधो भवति, न ह्रेतत् सहाद्यवयवमेव। किं तर्हि? कल्याणशब्दावयवमिति न भवत्यनिष्टप्रसङ्गः॥
पूर्वग्रहणमकृत्वा ठ्सहनञ्विद्यमानेभ्यःऽ इत्युच्यमाने सहादिभ्यः परं यत्स्वाङ्गं तदन्तान्ङीष् न भवतीत्यर्थो भवति, ततश्चेह प्रतिषेधः प्रसज्येत---विद्यमानं मुखमस्य विद्यमानमुखः, कल्याणो विद्यमानमुखोऽस्याः कल्याणविद्यमानमुखीति, भवति ह्यएतद् यथोक्तविशेषणम्; इह च न स्याद्---विद्यमानकल्याणमुखेति, न ह्यत्र यथोक्तं विशेषणमस्ति, तस्मात्पूर्वग्रहणम् ॥
सिद्धान्तकौमुदी
सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥
सहनञ्विद्यमानपूर्वाच्च - सहनञ् । त्रिकपूर्वादिति ।स्वाङ्गा॑दिति शेषः । सकेशेति । सह केशा यस्या इति बहुव्रीहिः । सहशब्दो विद्यमानवचनः ।वोपसर्जनस्ये॑ति सभावविकल्पः ।स्वाङ्गाच्चे॑ति प्राप्तस्य निषेधः । "नासिकोदर" इति ङीष्विकल्पोऽप्यनेन बाध्यत इत्युक्तं स्मारयितुमुदाहरति — विद्यमाननासिकेति । विद्यमाना नासिका यस्या इति बहुव्रीहिः ।
सहनञ्विद्यमानपूर्वाच्च - सकेशाष अविद्यमानाः केशा यस्याः सा — अकेशा ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!