॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|56
SK 512
4|1|56
न क्रोडादिबह्वचः  
SK 512
सूत्रच्छेद:
न - अव्ययम् , क्रोडादिबह्वचः
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्वाङ्गातिति ङिष् प्राप्तः प्रतिषेध्यते। क्रोडाद्यन्तात् बह्वजन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। कल्याणक्रोडा। कल्याणाखुरा। कल्याणोखा। कल्याणबाला। कल्याणशफा। कल्याणगुदा। कल्याणघोणा। कल्याणनखा। कल्याणमुखा। क्रोडादिराकृतिगणः। सुभगा। सुगला। बह्वचः खल्वपि पृथुजघना। महाललाटा।
`कल्याणक्रीडा` इति। क्रोडाशब्दः स्त्रीलिङ्गः। `क्रोडाघाटाजिह्वाशिरोधरासङ्गकुलास्पृहामाया` इति लिङ्गकारिकायां पाठात्। कल्याणी क्रोडाऽस्या इति विग्रहः। `स्त्रियाः पुंवत्` 6|3|33 इति पुंवद्भावः। उत्तरपदस्य `गोस्त्रियोः` 1|2|48 इत्यादिना ह्यस्वः। ततः `स्वाङ्गाच्चोपसर्जनात्` 4|1|54 इत्यादिना प्राप्तस्य ङीपोऽनेन प्रतिषेधः ततष्टाप्। `महाललाटा`इति। `आमन्महत्` (6।346) इत्यादिनात्वम्॥
कल्याणक्रोडेति । अश्वानामुरः क्रोडा, स्त्रीलिङ्गोऽयम् । तत्र बहुव्रीहौ पूर्वपदस्य पुंवद्भावः, उतरपदस्योपसर्जनह्नस्वत्वम् । अल्याणनखेति । अग्रन्थोऽयम्; ठ्नखमुखात्संज्ञायाम्ऽ इति प्रतिषेधात्, असंज्ञायां ङीष इष्टत्वात्, तस्मात् कल्याणेखेति पाठः । उखेति हि पठ।ल्ते---ठ्क्रोडा बालसुरोखाः शफो गुदं भगगलौ चऽ इति ॥
सिद्धान्तकौमुदी
क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥
न क्रोडादिबह्वचः - न क्रोडादिबह्वचः । क्रोडा आदिर्यस्येति, बहवोऽचो यस्येति च विग्रहः । क्रोडादिश्च बह्वच्च इति समाहारद्वन्द्वः । क्रोडादेरिति । क्रोडादिर्गणः, बह्वच्च यत्स्वाङ्गं तदन्तान्ङीष् नेत्यर्थः । कल्याणक्रोडेति । कल्याणी क्रोडा यस्या इति विग्रहः । "स्त्रियाः पुंवत्" इति कल्याणशब्दस्य पुंवत्त्वम् । अआआनामिति । हरदत्तादिमते क्रोडाशब्दो नित्यस्त्रीलिङ्गः । उपसर्जनह्यस्वत्वेऽदन्ततयास्वाङ्गाच्चोपसर्जना॑दिति प्राप्तो ङीष् निषिध्यते । अमरस्तुन ना क्रोडं भुजान्तर॑मिति स्त्रीत्वं नपुंसकत्वं चाह । क्वचित् कोशे पुंस्त्वमपि दृश्यते । क्रोडादिगणे क्रोड इति प्रातिपदिकं पठते । एवं च लिङ्गत्रयेऽपि उदाहरणं निर्बाधम् । आकृतिणोऽयमिति ।क्रोडादि॑रिति शेषः । सुजघनेति — बह्वच उदाहरणम् । सुशोभनं जघनं यस्या इति विग्रहः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्। कल्याणक्रोडा। आकृतिगणोऽयम्। सुजघना॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!