॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|5
SK 306
4|1|5
ऋन्नेभ्यो ङीप्‌  
SK 306
सूत्रच्छेद:
ऋत्-नेभ्य: - पञ्चमीबहुवचनम् , ङीप् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3]
सम्पूर्णसूत्रम्
ऋत्-नेभ्य: प्रातिपदिकात स्त्रियाम् ङीप् प्रत्यय:
सूत्रार्थ:
ऋकारान्तप्रातिपदिकात् नकारान्तप्रातिपदिकात् च स्त्रीत्वम् द्योतयितुम् ङीप्-प्रत्ययः भवति ।
स्त्र्यधिकारे उक्तः द्वितीयः स्त्री-प्रत्ययः अस्ति "ङीप्" । वर्तमानसूत्रेण सर्वेभ्यः ऋकारान्तशब्देभ्यः नकारान्तशब्देभ्यश्च अयं प्रत्ययः स्त्रीत्वम् द्योतयितुम् विधीयते । यथा -

1. कर्तृ + ङीप् → कर्त्री [इको यणचि 6|1|77]
2. दण्डिन् + ङीप् → दण्डिनी ।
3. राजन् + ङीप्
→ राज् न् ई [अल्लोपोऽनः 6|4|134 इति अकारलोपः]
→ राज्ञी ।

ज्ञातव्यम् -
1. यस्य प्रातिपदिकस्य स्त्रीत्वस्य गुणाः न सन्ति, तस्य अयं प्रत्ययः न भवति । यथा - पितृ-शब्दस्य केवलं पुँल्लिङ्गत्वं वर्तते, तत्र स्त्रीत्वस्य गुणः नास्ति । अतः अस्य शब्दस्य स्त्री-प्रत्ययाः न भवन्ति ।
2. तथैव, यस्य प्रातिपदिकस्य स्त्रीत्वस्य गुणाः प्रातिपदिकेनैव उच्यन्ते, तत्र तेषाम् पुनः द्योतनम् न आवश्यकम्, अतः एतेषां शब्दानां विषये अपि अस्य प्रत्ययस्य प्रयोगः न भवति । यथा, मातृ-शब्दः स्वयमेव स्त्रीत्वम् द्योतयति, अतः तस्य विषये कश्चन स्त्री-प्रत्ययः न आवश्यकः ।
One-line meaning in English
To indicate the feminine property, the ऋकारान्त and the नकारान्त words get the ङीप्-प्रत्यय.
काशिकावृत्तिः
ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति ङकारः सामान्यग्रहणार्थः। कर्त्री। हर्त्री। दण्डिनी। छत्रिणी।
`ङकारः सामान्यग्रहणार्थः` इति। असति हि तस्मिन् `ङ्याप्प्रातिपदिकात्` 4|1|1 इत्यत्र ङीति ङीग्ङीषोरेव ग्रहणं स्यात्। न ङीपः॥
ङ्कारः सामान्यग्रहणार्थ इति । ठ्ङ्याप्प्रतिपदिकात्ऽ इत्यादौ । ठ्पकारः सामान्यग्रहणाविघातार्थःऽ इति तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम्, अत्रापि पकारानुरोधोऽनुदातार्थः ॥
सिद्धान्तकौमुदी
ऋदन्तेभ्यो नान्तेभ्यस्च स्त्रियां ङीप्स्यात् । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रयः । वधूर्गौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि हा पितः क्वासि हे सुभ्रु इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । दृन्करेति यणा उवङो बाधनात् नेयङुवङ (कौमुदी-303) इति निषेधो न । हे पुनर्भु । पुनर्भ्वम् । पुनर्भ्वौ । पुनर्भ्वः ॥
ऋन्नेभ्यो ङीप् - ऋन्नेभ्यो ङीप् । ऋतस्च नाश्चेति द्वन्द्वः ।स्त्रिया॑मित्यधिकृतम् ।ङ्याप्प्रातिपदिकात् इत्यतः प्रातिपदिकग्रहणमनुवृत्तमृन्नकारैर्विशेष्यते । अतस्तदन्तविधिस्तदाह — ऋदन्तेभ्य इत्यादिना । ङपावितौ । क्रोष्टृ ई इति स्थिते यणि क्रोष्ट्रीशब्दात्सुबुत्पत्तिः । गौरीवद्रूपाणीत्याह — क्रोष्टीत्यादि । इत्युदन्ताः । अथ ऊदन्ताः । वधूर्गौरीवदिति ।वहो धश्चे॑त्यूप्रत्ययः, हस्य धश्च । धात्ववयवोवर्णाऽभावान्नोवङ । ऊकारस्य यण्वकार इत्यादिविशेषस्तु सुगम इति भावः । भ्रूः श्रीवदिति । "भ्रमेश्च डूः" इति डूप्रत्ययान्तोऽयम् ।अचि श्नुधातुभ्रुवा॑मित्युवङित्यादिविशेषस्तु सुगम इति भावः । सु=शोभना भ्रूर्यस्याः सा सुभ्रूः । अस्त्रीप्रत्ययान्तत्वात्गोस्त्रियो॑रिति ह्यस्वो न भवति । नेयङुवङ्स्थानावस्त्री ति भ्रूशब्दस्य तदन्तस्य च निषेधान्नदीत्वं न । ततश्चअम्वार्थे॑त्यादि नदीकार्यं नेत्यभिप्रेत्याह — हे सुभ्रूरिति॥ कथं तर्हीति । यदि सुभ्रूशब्दे नदीकार्यं न स्यात्तदाहा पितः क्वासि हे सुभ्रु॑ इति कथं भट्टिराहेत्यर्थः । रावणेन सीतापहारोत्तरं रामविलापोऽयम् । हे सुभ्रु त्वयाऽहं हापितोऽस्मि विधिनेत्यर्थः । "हापित" इत्यस्य त्याजित इत्यर्थः । प्रमाद इति ।अम्बार्थे॑ति ह्यस्वस्य करणादिति भावः । बहव इति कतिपये सामान्ये नपुंसकत्वमाश्रित्य कथं॑चित्समादधुः । खलपूः पुंवदिति । खलपवनस्य उत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियां वर्तमानत्वाऽभावेन नित्यस्त्रीत्वाऽभावान्नदीत्वं नेति भावः । पुनर्भूरिति ।पुनर्भूर्दिधिषूरूढाद्विः॑ इत्यमरः । तस्यनेयङुवङि॑ति नेषेधमाशङ्क्याह-दृन्करेतीति ।अम्शसोःपूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वादृन्करे॑ति यणिति मत्वाह — पुनर्भ्वं पुनर्भ्वाविति । पुनर्भ्वाः । नद्यन्तत्वान्नुटि दीर्घे पुनर्भूनामिति स्थिते रेफान्नकारस्य भिन्नपदस्थत्वात्अट्कुप्वा॑ङित्यप्राप्ते- ।
ऋन्नेभ्यो ङीप् - ऋन्नेभ्यो । ऋत्-ऋकारः, नो — नकारः । प्रयोगापेक्षं बहुत्वम् । प्रातिपदिकविश्षणात्तदन्तविधि- ।स्त्रिया॑मिति चाधिक्रियते, तदाह-ऋदन्तेभ्ये इत्यादि । क्रोष्ट्रीति ।स्त्रियां चे॑त्येतस्ताङ्गत्वादङ्गेन प्रत्ययस्याक्षेपाद्विभक्तौ परत एवेह तृज्वद्भावस्ततो खीबिति बोध्यम् । भ्रूरिति । भ्रमतीति भ्रूः ।भ्रमस्चे डूः॑इति भ्रमतेर्ङूप्रत्ययः । डित्त्वाट्टिलोपः । हे सुभ्रूरिति । डूप्रत्ययस्याऽस्त्रीप्रत्ययत्वाद्गोस्त्रियोरिति ह्यस्वो न भवति ।नेयङुवङ्स्थाना॑विति नदीसंज्ञानिषेधात्संबुद्धिह्यस्वोऽपि नेति भावः । ह्यस्वोऽत्रानुपपन्न इत्याक्षिपति — — कथं तर्हीति ।विमानना सुभ्रु पितुर्गृहे कुतः॑इति कालिदासप्रयोदोऽप्यनुपपन्न इति बोध्यम् । बहव इति । केचुत्तु — ॒नेयहुवं॑ङिति सूत्रे॒वामी॑त्यतो वाग्रहणमपकृष्य व्यवस्थितविभाषां चाश्चित्यसमादधिरे । तदसत् । तथा सतीहन॑ञ्ग्रहणंवामी॑त्युत्तरसूत्रं च व्यर्थं स्यात्,वेयङुवङ्स्थानौ॑इत्येव वक्तुं शक्यत्वात् । अन्ये तु — ॒सामान्ये नपुंसक॑मिति कथञ्चित्समादधुः ।
लघुसिद्धान्तकौमुदी
ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप्। क्रोष्ट्री गौरीवत्॥ भ्रूः श्रीवत्॥ स्वयम्भूः पुंवत्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!