Page loading... Please wait.
4|1|43 - शोणात्‌ प्राचाम्
॥ तस्मै पाणिनये नमः ॥
4|1|43
SK 501
शोणात्‌ प्राचाम्  
सूत्रच्छेदः
शोणात् (पञ्चम्येकवचनम्) , प्राचाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शोणशब्दात् प्राचाम् आचार्याणां मतेन स्त्रियां ङीष् प्रत्ययो भवति। शोणी, शोणा वडवा।
शोणशब्दोऽयं वर्णवचनः। `वर्णानां तणतिनितान्तानाम्` (फि।सू।2।33) इतिवचनादाद्युदात्तः। तत्र `अन्यतो ङीष्` 4|1|40 इति सिद्धे वचनं नियमार्थम्-- प्रचामेद यथा स्यात्, अन्येषां मा भूदिति॥
शोणशब्दोऽयं वर्णवाची ठ्वर्णानां तणतिनितन्तानाम्ऽ इत्याद्यौदातः, तत्र ठन्यतो ङीष्ऽ इत्येव सिद्धे नियमार्थं वचनम्---प्राचामेव नान्येषामिति ॥
सिद्धान्तकौमुदी
शोणी । शोणा ॥
शोणात् प्राचाम् - शोणात्प्राचाम् ।रोहितो लोहितो रक्तः शोणः कोकनदच्छविः॑ इत्यमरः ।वर्णानां तणतिनितान्ताना॑मिति शोणशब्द आद्युदात्तोऽनुदात्तान्तः ।अन्यतो ङी॑षिति नित्यं ङीषि प्राप्ते विकल्पार्थमिदम् ।
शोणात् प्राचाम् - शोणात् ।शोणः कोकनदच्छवि॑रिति कोशाच्छोणशब्दस्य वर्णवाचित्वात्वर्णानां तणे॑त्याद्युदात्ततयाअन्यतो ङी॑षिति सिद्धेऽपि प्राचामेव ङीष् नान्येषामिति नियमार्थमिदम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.