॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|41
SK 498
4|1|41
षिद्गौरादिभ्यश्च  
SK 498
सूत्रच्छेद:
षित्-गौरादिभ्यः - पञ्चमीबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
ङीष्  [4|1|40] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
अनुपसर्जनात् षित्-गौरादिभ्यः स्त्रियाम् ङीष् प्रत्ययः परश्च
सूत्रार्थ:
उपसर्जनभिन्नेभ्यः षित्-प्रत्ययान्तशब्देभ्यः तथा गौरादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितयम् ङीष्-प्रत्ययः भवति ।
ये शब्दाः षित्-प्रत्ययान्ताः सन्ति, तथा च ये शब्दाः गौरादिगणे निर्दिष्टाः सन्ति, तेषाम् विषये स्त्रीत्वं द्योतयितुम् "ङीष्" प्रत्ययः विधीयते । यथा -

(अ) षित्-प्रत्ययस्य उदाहरणद्वयम् -
1. "पथिक" अयं शब्दः "पथिन्" शब्दात् "ष्कन्" प्रत्यये कृते सिद्ध्यति । अयम् प्रत्ययः षित्-प्रत्ययः अस्ति, अतः "पथिक" अयं शब्दः षित्-प्रत्ययान्तः शब्दः अस्ति । अतः अस्य शब्दस्य स्त्रीत्वस्य विवक्षायाम् अजाद्यतष्टाप् 4|1|4 इत्यनेन टाप्-प्रत्यये प्राप्ते; तं बाधित्वा वर्तमानसूत्रेण ङीष्-प्रत्ययः विधीयते । पथिक + ङीष् → पथिकी ।
2. "नर्तक" अयं शब्दः "नृत्" धातोः "ष्वुन्" प्रत्यये कृते सिद्ध्यति । अतम् प्रत्ययः षित्-प्रत्ययः अस्ति, अतः "नर्तक" अयं शब्दः षित्-प्रत्ययान्त-शब्दः अस्ति । अतः अस्य शब्दस्य स्त्रीत्वस्य विवक्षायाम् अजाद्यतष्टाप् 4|1|4 इत्यनेन टाप्-प्रत्यये प्राप्ते; तं बाधित्वा वर्तमानसूत्रेण ङीष्-प्रत्ययः विधीयते । नर्तक + ङीष् → नर्तकी ।

(आ) गौरादिगणः एतादृशः अस्ति -

गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बिम्ब । तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे (गणसूत्रम्) । देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। पावन । सवन। आस्तरन। अधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम् (गणसूत्रम्) । सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे (गणसूत्रम्) । विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने (गणसूत्रम्) । पिप्पल्यादयश्च (गणसूत्रम्) । पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। आकृतिगणोऽयम् ।

अस्य गणस्य कानिचन उदाहरणानि -
गौर + ङीष् → गौरी । हरिण + ङीष् → हरिणी । नट + ङीष् → नटी ।
अयम् गणः आकृतिगणः अस्ति, अतः ये शब्दाः अत्र दत्ताः न सन्ति ते अपि शिष्टप्रयोगेन अत्र भवितुम् अर्हन्ति ।

ज्ञातव्यम् -
1. अस्मिन् गणे "मातामह" तथा "पितामह" एतौ द्वौ शब्दौ निर्दिष्टौ स्तः । परन्तु, पितृव्यमातुलमातामहपितामहाः 4|2|36 अस्मिन् सूत्रे दत्तेन मातरि षिच्च अनेन वार्त्तिकेन पितृ-मातृ-शब्दाभ्याम् विहितः "डामहच्" प्रत्ययः षिद् भवत्येव । अतः मातामह तथा पितामह - एतयोः वस्तुतः अस्मिन् गणे समावेशः न भवेत् । परन्तु अत्र तयोरपि समावेशः अत्र कृतः अस्ति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - "अनित्यः षित्-लक्षणः ङीष्" । इत्युक्ते, "षित्"-प्रत्ययान्तशब्दात् विहितं ङीष्-प्रत्ययविधानम् "अनित्यम्" अस्ति - केषुचन षित्-प्रत्ययान्तशब्देभ्यः एव ङीष्-प्रत्ययः विधीयते, सर्वेभ्यः न - इति । अतएव "दंश् + ष्ट्रन् = दंष्ट्र" इत्यनेन जातः दंष्ट्र-शब्दः यद्यपि षित्-अस्ति, तथापि अस्य ङीष्-प्रत्ययः न भवति अपितु टाप्-प्रत्ययं कृत्वा "दंष्ट्रा" इति स्त्रीवाची प्रातिपदिकं सिद्ध्यति ।

2. अस्मिन् सूत्रे "अनुपसर्जनात्" इत्यस्य अनुवृत्तिः अस्ति । अतः यत्र निर्दिष्टः षित्-प्रत्ययान्तशब्दः / गौरादिगणस्य शब्दः उपसर्जनसंज्ञां प्राप्नोति, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - बहवः सुन्दराः यस्मिन् सः = बहुसुन्दरः । अस्य शब्दस्य स्त्रीत्वस्य विवक्षायाम् अत्र टाप्-प्रत्ययं कृत्वा बहुसुन्दरा" इति प्रातिपदिकं सिद्ध्यति । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
One-line meaning in English
उपसर्जनभिन्नेभ्यः षित्-प्रत्ययान्तशब्देभ्यः तथा गौरादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितयम् ङीष्-प्रत्ययः भवति । To indicate the feminine property, the, words which are not उपसर्जनसंज्ञक and which (a) belonging to the गौरादिगण, or (b) end in a षित् प्रत्यय get the स्त्रीप्रत्यय ङीष्.
काशिकावृत्तिः
ङीषनुवर्तते। षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियाम् ङीष् प्रत्ययो भवति। शिल्पिनि ष्वुन् 3|1|145 नर्तकी। खनकी। रजकी। गौरादिभ्यः गौरी। मत्सी। गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बम्ब। तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे। देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। सवन। आस्तरन। आधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम्। सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे। रेवती नक्षत्रे। विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने। पिप्पल्यादयश्च। पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। मातामहपितामहयोः मातरि षिच् च 4|2|36 इति षित्त्वादेव सिद्धे ज्ञापनार्थं वचनम्, अनित्यः षिल्लक्षणो ङीषिति, तेन दंष्ट्रा इत्युपपन्नं भवति।
`षिद्भ्यः प्रातिपदिकेभ्यः` इति। षकार इद्येषां तानि। कथं पुनः प्रातिपदिकानि षिन्ति भवन्ति, यावता ध्वुनादेः प्रत्ययस्य षकार इत्संज्ञकः,न तु तेषाम्? नैष दोषः; अवयवगतं हि षित्त्वं समुदायस्य विशेषणं भविष्यति, यथा-- अक्षिगतं काणत्वं पुरुषस्य --काणः पुरुष इति। यद्येवम्, धातुगतमपि षित्त्वं समुदायस्य विशेषणं प्राप्नोति, `त्रपूष् लज्जायाम्` (धातुपाठः-347), अङ, अपत्रपेति? नैतदस्ति; यो ह्रनुबन्धोऽवयवे निष्प्रयोजनः स समुदायार्थो विज्ञायते। धातोस्तु विद्यत एव षित्करणस्य नान्यत् प्रयोजनमस्ति, अतः समुदयार्थमेव तद्विज्ञायते। `रजकी` इति। अत्र `रञ्जेश्च` 6|4|26 इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वादनुनासिकलोपः।गौरादिषु गौरशब्दस्य सत्यपि वर्णवाचित्वे प्रातिपदिकस्वरेणान्तोदात्तत्वात् पूर्वेण प्राप्नोतीतीह पाठः। मत्स्यादीनां यकारोपधानाम् `अयोपधात्` 4|1|63 इति जातिलक्षणस्य ङीषः प्रतिषेधे प्राप्ते। शृङ्गशब्दस्य प्राक् आञ्शब्दात् पुटादीनाञ्चानन्दवर्ज्जितानां स्त्रीविषयत्वात् शृङ्गशब्दस्य प्राप्ते पुटादीनां चास्त्रीविषया 4|1|63 दिति प्रतिषेधे प्राप्ते। आनन्दशब्दस्याजातिवाचित्वान्ङीष्यप्राप्ते। आंस्तक्षन्नित्येतयोः `ऋन्नेभ्यो ङीप्` 4|1|5 इतिङीपि प्राप्ते। अनुडुह्रनड्वाहीत्यनयोरनकारान्तत्वान्ङीप्यप्राप्ते। इकारान्तयोः सप्रत्ययोर्गणे पाठः पुंवद्भावप्रति,#एधार्थः-- अनडुहीभार्यः, अनड्वाहीभार्य इति। एतदेव वचनं ज्ञापकम्-- अनडुहः स्त्रियां विकल्पेनाम्भवतीति। तेन यदुक्तम्-- `अनडुहः {स्त्रियां वेति -- वा।पाठ।} स्त्रियाञ्चेति वक्तव्यम्` (वा।829) इति, तन्न वक्तव्यमिति भवति। `{एषणः का।वृ।}एषणं करणे` इति। एषणशब्दः करणे कारके ङीषमुत्पादयतीति। इष्यतेऽनयेत्येषणी। करण इति किम्? इष्यतेऽस्यामित्यधिकरणे ङीपि। मेध इत्यस्याजातित्वान्ङीष्यप्राप्ते। गौतमस्य शार्ङ्रगरवादित्वान्ङीनि प्राप्ते। पक्षे च वचनात्सोऽप#इ भवत्येव। आयस्थूणादीनामालिपिशब्दपर्यन्तानां `अणिञोरनार्षयोः` 4|1|78 इति ष्यङि प्राप्ते। आयस्थूणशब्दः शिवाद्यणन्तः। `{भौरि,भौलिकि-गणपाठः} भौरिक्यादयः `अत इञ्` 4|1|95 इतीञन्ताः। आपिच्छिकस्य ङीषि प्राप्ते। आपिच्छिकानां राजानः, तेषामपत्यं स्त्री। `जनपदशब्दात् क्षत्रियादञ्` 4|1|166 इत्यञ्, तस्य `अतश्च` 4|1|175 इति लुकि कृतेप्रत्ययलक्षणेन ङीप्प्राप्नोति। आरटादीनां प्राक् शातनशब्दात् स्त्रीविषयत्वान्ङीष्यप्राप्ते। शातनादीनां ल्युडन्तत्वान्ङीपि प्राप्ते। अधिकरणान्ङीपि। अग्रे हायनमस्य इत्याग्रहायणी। स्वार्थिकोऽण्, णत्वं निपातनात्। अणन्तत्वान्ङीपि प्राप्ते। ईकारान्तस्य पाठः पुंवद्भावप्रतिषेधार्थः-- आग्रहायणीभार्य इति। प्रत्यवरोहणसेवनयोर्ल्युडन्तयोष्टित्वान्ङीपि। केचित्तु पुंद्भावप्रतिषेधार्थं प्रत्यवरोहिणीति पठन्ति--प्रत्यवरोहिणीभार्य इति। `सुमङ्गलात्संज्ञायाम्` (इति)। `नित्यं संज्ञाच्छन्दसोः` 4|1|29 इति वत्र्तमाने `केवलमामक` 4|1|30 इत्यादिना ङीपि प्राप्ते। पक्षे वचनात् सोऽपि भवति। संज्ञायामिति किम्? सुमङ्गला। सुन्दरादीनां प्राक् तरुणशब्दात् स्त्रीविषयत्वात् ङीष्यप्राप्ते। तरुणतलुनशब्दयोर्वयोलक्षणे ङीपि प्राप्ते। `नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्` (वा।338) इत्यत्र तु वयोग्रहणम्। बृहन्महच्छब्दयोरुगित्वान्ङीपि प्राप्ते। `रोहिणी नक्षणे` इति। नक्षत्र इति किमर्थम्? रोहिता। `रेवती नक्षत्रे` इति किम्? येषां रेवतशब्दोऽत्राकारान्त इति दर्शनं तेषां प्रत्युदाहरणं टाप्-- रेवतेति। येषां त्विदं वचनम्-- राविद्यतेऽस्या इति रेशब्दान्मतुप्, निपातनाद्वत्वमिति, तेषां प्रत्युदाहरणम् `उगितश्च` 4|1|6 इति ङीप्-- रेवतीति। स्वरे विशेषः। विकलादीनां टापि प्राप्ते। कटशब्दाच्छोण्यभिधाने ङीष्। कटी श्रोणिरित्यर्थः। श्रोणिरिति किम्? कटा। `पिप्पल्यादयश्च` इति। एतावद्गणे पठते। तांस्तु पिप्पस्यादीन् दर्शयितुं पिप्पली हरीतकीत्यादिकं वृत्तिकावचनम्।`पृथिवी` इति। ईकारान्तनिपातनं पुंवद्भावनिवृत्त्यर्थम्-- पृथिवीभार्य इति। क्रोष्टुशब्दस्य `स्त्रियां च` 7|1|96 इतितृज्वद्भावः।`मातरि षिच्च` इति। `पितृष्यमातुलमातामहपितामहाः` 4|2|35 इत्यत्र पितृमातृभ्यां पितरि वाच्ये डामहज्निपातयिष्यते। मातरि डामहजेव। तस्यापि षित्त्वम्। `दंष्ट्रा` इति। `{दन्श धातुपाठः-} दंश दशने` (धातुपाठः-989), `दाम्नीशस्` 3|2|182 इत्यादिनाष्ट्रन्। षिल्लक्षणस्यानित्यत्वान् ङीषष्टाब्भवति॥
षिद्भ्यः प्रातिपदिकेभ्य इति । ष्वुनादेः प्रत्ययस्य षित्वमवयवेऽचरितार्थं समुदायस्य विशेषकं भवतीति प्रातिपदिकानां षित्वम्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति न तेन प्रातिपदिकं षिद्भवति । रजकीति । ठ्शिल्पिनि ष्वुन्ऽ इत्यत्र व्युत्पादितम् । गौरादिषु गौरशब्दस्य वर्णवाचिनोऽप्यन्तोदातत्वात्पाठः । मत्स्यादानां योपधानाम् ठयोपधात्ऽ इति जातिलक्षणस्य ङीषः प्रतिषेधात्पाठः । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन्नक्षन्निति एतयोर्डापि प्राप्ते । अनडुही, अनड्वाहीति । अनकारान्तत्वादप्राप्ते ङीषि सप्रत्यययोः पाठः, ङीषि परतो विकल्पेनान्यथा स्यात् । एषणः करण इति । करणसाधन एषणशब्दो ङीषमुत्पादयति---इष्यतेऽनयेत्येषणी । अधिकरणे ल्युडिति टित्वान् ङीबेव भवति । अन्येषामपि ल्युङ्न्तानां ङीपि प्राप्ते पाठः । मेधशब्दस्याजातिवाचित्वाद्, गौतमस्य शार्ङ्गरवादित्वान् ङीनि प्राप्ते वचनात्पक्षे सोऽपि भवति । आयस्थूणशब्दः शिवाद्यणन्तः । भौरिक्यादय इञन्ताः, तेषाम् ठणिञोःऽ इति ष्यङ्प्राप्तौ । आपिच्छिका नाम राजानः, ठ्जनपदशब्दात्क्षत्रियादञ्ऽ, ठ्तस्य आतश्चऽ इति लुकि कृते प्रत्ययलक्षणेन ङीप्प्राप्नोति । अग्रे हायनमस्य आग्रहायणः, प्रज्ञादित्वात्स्वार्थिकोऽण्, अस्मादेव निपातनाण्णत्वम्---आग्रहायणः, ङीपि प्राप्ते पाठः । केचिदाग्रहायणीति इकारान्तं पठन्ति, तस्य प्रयोजनम्---आग्रहायणीभार्य इत्यादौ पुंवद्भावो मा भूदित्याहुः । एतेन प्रत्यवरोहणीति व्याख्यातम् । सुमङ्गलात्संज्ञायामिति । ठ्केवलमामकऽ इति ङीपि प्राप्ते पक्षे सोऽपि भवति । स्वरे विशेषः, सुमङ्गलशब्दो बहुव्रीहिः, तत्र ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वान्ङीप्यपि सत्युदातनिवृतस्वरेण भाव्यमिति नास्ति विशेषः । तथा च च्छन्दसि । सुमङ्गलीरियं वधूरित्यन्तोदातत्वं दृश्यते । तस्माज्जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दः ठ्लघावन्तेऽ इति मध्योदातो द्रष्टव्यः । तरुणतलुनयोः ठ्नञ्स्नञीकक्तरुणऽ इति ङीपि प्राप्ते पक्षे सोऽपि भवति । बृहन्महच्छब्दयोरनर्थकः पाठ इति प्रागेवोक्तम् । ऋष्यणन्तः सौधर्मशब्दः । रोहिणी नक्षत्रे इति । नक्षत्रादन्यत्र रोहिणी । रेवती नक्षत्र इति । रयिरिति धननाम, रयिर्विद्यतेऽस्या इति मतुपि ठ्रयेर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, निपातनाद्वत्वम् । नक्षत्रादन्यत्र ङीब् भवति । विकलादीनां टापि प्राप्ते । कटाच्छ्राएणिवचने । कटी श्रोणिः, अन्यत्र कटा । पिप्ल्यादयश्चेति । गणसूत्रम्, पिप्पलि, हरीतकीत्यादिकं तु तस्योदाहरणप्रदर्सनम् । पृथिवीति । ठ्प्रथेः षिवन्सम्प्रसारणं चऽ इति षित्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्यर्थः---पृथिवीभार्य इति । स्त्रीवषियस्यास्य पुंवद्भावप्राप्तिश्चिन्त्या । क्रोष्टुअशब्दस्य ठ्स्त्रियां चऽ इति तृज्वद्भावः । क्रोष्ट्रीत्यत्र निरूपणीयमस्ति ठ्स्त्रियां चऽ इत्यत्र निरूपयिष्यामः । षित्वादेव सिद्ध इति । ठ्मातरि षिच्चऽ इति वार्तिककारवचनात्षित्वम्, निपातनसामर्थ्याद्वा । उक्तं हि--- धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणाअं रूढ।ल्र्थं च निपातनम् ॥ इति । दंष्ट्रेति । येषामजादिषु दंष्ट्रेति पाटो नास्ति तेषामिदं प्रयोजनम् ॥
सिद्धान्तकौमुदी
षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी ॥आमनडुहः स्त्रियां वा (वार्तिकम्) ॥ अनडुही ॥ अनड्वाही । (गणसूत्रम् -) पिप्पल्यादयश्च ॥ आकृतिगणोऽयम् ॥
षिद्गौरादिभ्यश्च - षिद्गौरादिभ्यश्च । ष् इत् येषां ते षितः, गौर आदिर्येषां ते गौराभ्यः, षितश्च गौरादयश्चेति द्वन्द्वः । नर्तकीति ।नृती गात्रविक्षेपे॑ "शिल्पिनि ष्वुन्" "षः प्रत्ययस्य" इति षकार इत्,हलन्त्य॑मिति नकारश्च इत्, "युवोरनाकौ" इति अकादेशः, लघूपधगुणः, रपरत्वम् । नर्तकशब्दात्ङीष्, टापोऽपवादः,यस्येति चे॑त्यकारलोप इति भावः । गौरीति । ओतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् । "अन्यतो ङीष्" इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वाऽयम् ।उमा कात्ययनी गौरी॑त्यमरः ।दशवर्षा भवेद्गौरी॑ति स्मृतिः ।अनडुही अनड्वाहीति । अनडुहः स्त्रीत्यर्थः । अनो वहतीति यौगिको वा । गौरादिगणे निपातनादेव ङीपि आम्बिकल्पः । एवं चअनुडुहः स्त्रियामाम् वेचि वक्तव्य॑मिति न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र-गौर मत्स्य म मनुष्य, श्रृङ्ग, गवयं, हय, मुकय, गौतम, अनड्वाही, अनडुही, तरुण, तलुन आन्-इति पठित्वापिप्पल्यादयश्चे॑त्युक्त्वा-पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम् । पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वान्ङीषोऽप्राप्तेरिह पाठः । आन्शब्दस्य तु॒ऋन्नेभ्यः॑ इति ङीपि प्राप्ते ङीषर्थ इह पाठः । स्वरे विशेषः । आकृतिगणोऽयमिति । गौरादिरित्यर्थः । पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् ।
षिद्गौरादिभ्यश्च - षिद्गौरादि । नर्तकीति । नृतुधातोःशिल्पिनि ष्वुन् । ष्वुनः षित्त्वमवयवेऽचरितार्थत्वात्तदन्तस्य प्रातिपदिकस्य विशेषणम् । त्रपूषः षित्त्वस्याऽङ्विधौ चरितार्थत्वत्त्रपेत्यत्र तु न ङीष् । मृजेः षित्त्वमनार्षं, भिदादौ भृजेति पाठादित्याहुः । मृजेः षित्त्वादेवाह्, भिदादौ मृजेति पाठस्त्वनार्ष इत्यन्ये । गौरीति । गौरशब्दस्य वर्णवाचित्वेऽपि प्रातिपदिकस्वरेणान्तोदात्तत्वात्अन्यतो ङीष्इति ङीष् न प्राप्नोतीतिहि गणे पाठः ।आमनडुहःस्त्रियां वा । अनङ्वाही । अनडुहीति । अनकारान्तत्वाज्जातिलक्षणस्य पुंयोगलक्षणस्य वा ङीषोऽप्राप्ततया गणेऽस्मिन्पठते । प्रत्ययसहितपाठस्तु ङीषि परे आम्विकल्पार्थः । गौर मत्स्य मनुष्य श्रृङ्ग गवय हय मुकय[गौतम]अनङ्वाही अनडुही तरुण तलुन आन् ।पिप्पल्यादयश्च । पिप्पल्यादयश्च । पिप्पली ।हरीतकी । कोशातकी । पृथिवी । मातामहीत्यादि । यत्तु प्राचाऋन्नेभ्यो ङीप्इत्यत्रशुनी॑त्युदाह्मतं तत्तु गौरादिगणे आन्शब्दपाठाऽदर्शनप्रयुक्तमित्याहुः । अत्र केचित् — नित्यस्त्रीत्वात्जातेरस्त्रीविषया॑दित्यप्राप्ते ङीषि पिप्पल्यादयो गौरादिषु पठन्ते, ङीषन्तपाठस्तु चिन्त्यप्रयोजनः । नच पिप्पली भार्या यस्य स पिप्पलीभार्य इत्यादौ पुंवद्भावं बाधित्वा ङीषः श्रवणं यथा स्यादित्येतदर्थः स इति वाच्यम्, भाषितपुंस्कत्वाऽभावादेव पुंवद्भावनिषेधसिद्धेः । किं चाऽवान्तरगणत्वाभ्युपगमोऽपि पिप्पल्यादेव्यर्थ एव । न चैवं जाताधिकारेचित्रारेवतीरोहिणीभ्यः स्त्रियामुपसङ्ख्यान॑मित्यत्र पिप्ल्यादेराकृतिगणत्वात्पुनर्ङिषिति वक्ष्यमाणग्रन्थो विरुध्यत इति वाच्यं, गौरादेराकृतिगणत्वादित्यपि वक्तुं शक्यत्वादित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!