॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|4
SK 454
4|1|4
अजाद्यतष्टाप्‌  
SK 454
सूत्रच्छेद:
अजादि-अत: - पञ्चम्येकवचनम् , टाप् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3]
सम्पूर्णसूत्रम्
अजादि-अत: प्रातिपदिकात् स्त्रियाम् टाप्-प्रत्यय:
सूत्रार्थ:
स्त्रीत्वम् द्योतयितुम् अजादिगणस्य शब्देभ्यः अकारान्तशब्देभ्यश्च टाप्-प्रत्ययः भवति ।
अनेन सूत्रेण टाप्-इति प्रथमः स्त्रीप्रत्ययः विधीयते । टाप्-इत्यत्र टकारपकारयोः इत्संंज्ञा, लोपश्च भवति, अतः "आ" इत्येव अवशिष्यते । अस्य प्रत्ययस्य प्रयोगः द्वयोः प्रकारयोः शब्देभ्यः भवति - "अजादि" , तथा "अतः" । क्रमेण पश्यामः -

1. "अजादि" - अजादिगणः इति कश्चन गणः । अस्मिन् गणे ये शब्दाः समाविष्टाः सन्ति, तेषां विषये अन्यानि सर्वाणि सूत्राणि बाधित्वा टाप्-प्रत्ययः एव भवति । अन्यसूत्रेण भिन्नप्रत्यये प्राप्ते तं बाधित्वा "टाप्" प्रत्ययविधानं कर्तुमेव एतेषां शब्दानां अस्मिन् गणे समावेशः कृतः अस्ति ।

अजादिगणे टाप्-प्रत्ययं प्रयुज्य एव रूपाणि दत्तानि सन्ति । परन्तु मूलशब्दाः तु सर्वे ह्रस्व-अकारान्ताः एव सन्ति । अजादिगणस्य आवली इयम् -
अजा, एडका, कोकिला, चटका, अश्वा, मूषका, बाला, होडा, पाका, वत्सा, मन्दा, विलाता, पूर्वापहाणा, अपरापहाणा, क्रुञ्चा, उष्णिहा, देवविशा, ज्येष्ठा, कनिष्ठा, दंष्ट्रा ।

अजादिगणस्य विषये कश्चन विशेषः स्मर्तव्यः । अस्मिन् गणे ये शब्दाः उपस्थिताः सन्ति, ते "स्वनिर्दिष्टस्य" पदार्थस्य विषये एव टाप्-प्रत्ययं कथयन्ति । कः अस्य अर्थः? एकम् उदाहरणम् पश्यामश्चेत् स्पष्टं भवेत् । "पञ्चाज" इति शब्दः "पञ्चानाम् अजानाम् समाहारः" इत्यस्मिन् अर्थे द्वन्द्वसमासे कृते सिद्ध्यति । अस्य शब्दस्य अन्ते "अज" इत्येव अजादिगणस्य शब्दः अस्तो = पञ्चाजः । अस्य "समूहस्य" स्त्रीत्वं दर्शयितुम् इच्छामश्चेत् यद्यपि अयं शब्दः "अज" इत्यन्तः अस्ति तथापि अत्र अजादिगणत्वात् टाप्-प्रत्ययविधानम् न भवति, यतः अत्र स्त्रीत्वम् "समूहस्य" निर्दिष्टम् अस्ति, "अज"स्य न ।

2. "अतः" - सर्वेभ्यः अकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् औत्सर्गिकरूपेण "टाप्" अयम् प्रत्ययः प्रयुज्यते । यथा - खट्व + टाप् = खट्वा । अत्र अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति । अत्र "अतः" इति तपरकरणम् कृतम् अस्ति, अतः केवलं ह्रस्व-अकारान्तशब्देभ्यः एव अयं प्रत्ययः भवति, आकारान्त-शब्देभ्यः न ।

एतत् ज्ञातव्यम् यत् अकारान्तशब्देभ्यः अयं टाप्-प्रत्ययः केवलं औत्सर्गिकरूपेणैव प्रोक्तः अस्ति । अतः कस्यापि अकारान्तशब्दस्य अन्यः आदेशः भवितुम् अर्हति चेत् वर्तमानसूत्रेण उक्तं टाप्-प्रत्ययं बाधित्वा सः आदेशः एव करणीयः ।

प्रश्नः - अजादिगणस्य सर्वे मूलशब्दाः अकारान्ताः एव सन्ति । तर्हि तेषां "अतः" इत्यनेनैव टाप्-प्रत्ययः भवितुम् अर्हति । तदर्थम् अजादिगणस्य निर्माणं किमर्थं कृतम्?
उत्तरम् - अजादिगणे ते एव शब्दाः समाविश्यन्ते, येषां विषये अनेनैव सूत्रेण "अतः" इति विधानात् उक्तम् टाप्-प्रत्ययं बाधित्वा कश्चन अन्यः प्रत्ययः विधीयते । तस्यापि बाधं कृत्वा पुनः (तस्यापि अपवादरूपेण) "टाप्" प्रत्ययविधानं कर्तुमेव एतेषां शब्दानाम् अस्मिन् गणे समावेशः कृतः अस्ति । यथा, "बाल" शब्दस्य विषये -
- अकारान्तत्वात् अजाद्यतष्टाप् 4|1|4 इत्यनेन टाप्-प्रत्यये प्राप्ते ; अपवादत्वेन -
- वयसि प्रथमे 4|1|20 इत्यनेन ङीप्-प्रत्ययविधानं भवति । तस्यापि अपवादत्वेन -
- अजादिगणस्य सदस्यत्वात् पुनः अजाद्यतष्टाप् 4|1|4 इत्यनेन टाप्-प्रत्ययः विधीयते -
- अतः "बाल" शब्दस्य स्त्रीवाचकं प्रातिपदिकम् "बाला" इति भवति ।

अत्र एकं वार्तिकम् ज्ञातव्यम् - शूद्रा च अमहत्पूर्वा जातिः । इत्युक्ते, जातिवाचकस्य "शूद्र" शब्दस्य जातेरस्त्रीविषयादयोपधात्‌ 4|1|63 इत्यनेन ङीष्-प्रत्यये प्राप्ते अनेन वार्तिकेन टाप्-प्रत्ययः भवति । शूद्र + टाप् → शूद्रा । परन्तु महत्-शब्दात् परस्य शूद्र-शब्दस्य तु ङीष्-एव भवति । महाशूद्र + ङीष् → महाशूद्री ।
अस्य वार्तिकस्य विषये अन्यदपि एकम् ज्ञातव्यम् । या स्त्री स्वयं शूद्रकुलोत्पन्ना अस्ति, तस्याः निर्देशं कर्तुमेव अनेन वार्तिकेन टाप्-प्रत्ययः भवति । "शूद्रस्य पत्नी" (या स्वयम् कस्यापि जातेः भवितुम् अर्हति) अस्मिन् अर्थे अनेन वार्तिकेन टाप्-प्रत्ययः न विधीयते, अतः अस्मिन् अर्थे तु पुंयोगादाख्यायाम् 4|1|48 इत्यनेन "ङीष्" प्रत्यये कृते "शूद्री" इत्येव रूपं जायते ।

अस्य सूत्रस्य विषये अन्यानि अपि त्रीणि वार्तिकानि कौमुद्याम् दीक्षितः पाठयति । वस्तुतः एतानि सर्वाणि वार्तिकानि पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4|1|64 इत्यस्मिन् सूत्रे पाठितानि सन्ति, परन्तु एतानि सर्वाणि तस्मिन् सूत्रे प्रोक्तम् ङीष्-प्रत्ययं बाधित्वा टाप्-प्रत्ययविधानं कुर्वन्ति । अतः एतानि दीक्षितः अत्र एव उपादत्ते -
1. सम्भस्त्राजिनशणपिण्डेभ्यः फलात् - अनेन वात्तिकेन सम्फल, भस्त्रफल, अजिनफल, शणफल, पिण्डफल - एतेभ्यः टाप्-प्रत्ययः भवति ।
2. सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् - अनेन वात्तिकेन सत्पुष्प, प्राक्पुष्प, काण्डपुष्प, प्रान्तपुष्प, शतपुष्प, एकपुष्प - एतेभ्यः टाप्-प्रत्ययः भवति ।
3. मूलान्नञः - अनेन वार्तिकेन "अमूल" शब्दात् टाप्-प्रत्ययः भवति । (न मूलम् यस्य सः = अमूलः) । अमूल + टाप् → अमूला ।
One-line meaning in English
To indicate the feminine property, the अकारान्त words and the words belonging to the अजादिगण get the प्रत्यय टाप्.
काशिकावृत्तिः
अजा। देवदत्ता। स्त्रियाम् इति किम्? अजः। देवदत्तः। अजाद्यतष् टाप् 4|1|4। अजादिभ्यः प्रातिपदिकेभ्यः अकारान्ताच् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। पकारः सामान्यग्रहणार्थः। टकारः सामान्यग्रहणाविघातार्थः। अजा एडका। कोकिला। चटका। अश्वा। खट्वा। देवदत्ता। तपरकरणं तत्कालार्थम्। शुभंयाः। कीलालपाः ब्राह्मणी। हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुलोपः स्यात्। अजादिग्रहणं तु क्वचिज् जातिलक्षणे ङीषि प्राप्ते, क्वचित् तु पुंयोगलक्षणे, क्वचित् तु पुष्पफलौत्तरलक्षणे, क्वचित् तु वयोलक्षणे ङीपि, क्वचिट् टिल्लक्षणे। हलन्तानां तवप्राप्त एव कस्मिंश्चिदाब् विधीयते। शूद्रा च अमहत्पूर्वा जातिः इति पठ्यते। तस्य अयम् अर्थः। शूद्रशब्दष् टापम् उत्पादयति जातिश्चेद् भवति। शूद्रा। पुंयोगे ङीषैव भवितव्यम्। शूद्रस्य भार्या शूद्री। महत्पूर्वस्य प्रतिषेधः। महाशूद्री। महाशूद्रशब्दो ह्राभीरजातिवचनः, तत्र तदन्तविधिना टाप् प्राप्तः प्रतिषिध्यते। ग्रहणवता प्रातिपदिकेन तदन्तविधिर् न इति कथं तदन्तविधिः? एतदेव ज्ञापकं भवति अस्मिन् प्रकरणे तदन्तविधिः इति। तेन अतिधीवरी, अतिपीवरी, अतिभवती, अतिमहती इति भवति। अजा, एडका, चटका, अश्वा, मूसिका इति जातिः। बाला, होढा, पाका, वत्सा, मन्दा, विलाता इति वयः। पूर्वापहाणा, अपरापहाणा। टित्, निपतनाण् णत्वम्। संभस्त्राजीनशणपिण्डेभ्यः फलात्। सम्फला। भस्त्रफला। अजिनफला। शणफला। पिण्डफला। त्रिफला द्विगौ। बहुव्रीहौ त्रिफली संहतिः। सदच्प्राक्काण्डप्रान्तश्तैकेभ्यः पुष्पात्। सत्पुष्पा। प्राक्पुष्पा। कान्डपुष्पा। प्रान्तपुष्पा। शतपुष्पा। एकपुष्पा। पाककर्ण इति ङीषो ऽपवादः। शूद्रा च अमहत्पूर्वा जातिः। क्रुञ्चा, उष्णिहा, देवविशा हलन्ताः। ज्येष्टा, कनिष्ता, मध्यमा पुंयोगः। कोकिला जातिः। मूलान्नञः। अमूला।
`अजाद्यतदन्ताच्च`इति। अकारान्तादित्यर्थः। अथ स्वरूपग्रहणं कस्मान्न विज्ञायते? अच्छब्दान्ताच् शरद्दरदित्येवमादेरिति? लिङ्गात्। किं लिङ्गम्? `तदाद्याचिख्यासायाम्` 2|4|21 `यकपूर्वायाः` 7|3|46 इत्येवमादिनिर्देशात्। स्वरूपग्रहणे हि ते नोपपद्येरन्। `पकारः सामान्यग्रहणार्थः` इति। `ङ्याप्प्रातिपदिकात्` 4|1|1 इत्यत्रासति हि पकारेऽस्य ग्रहणं न स्यात्। `टकारः सामान्यग्रहणाविघातार्थः` (इति)। असति हि टकारे `एकानुबन्धकग्रहणे न द्वय्नुबन्धकस्य` (व्या।प।52) इतिटापकस्यैव ग्रहणं स्यात्, न डाप्चापोः; द्वयनुबन्धकत्वात्। `शुभंयाः कीलालपाः` इति। `अन्येभ्योथऽपि दृश्यन्ते` 3|2|75 इतिविच्। किं पुनः स्यात्, यद्यत्रापि टाप्स्यात्? इत्याह-- `हल्ङ्याभ्यः` इत्यादि।`जातिलक्षणे` इति। `जातेरस्त्रीविषयादयोपधात्` 4|1|63 इति। `पुंयोगलक्षणे` इति। `पुंयोगादाख्यायाम्` 4|1|48 इति। `पुष्पफलोत्तरपदलक्षणे` इति। `पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च` 4|1|64 इति। `वयोलक्षणे` इति। `वयसि प्रथमे` 4|1|20 इति। `टिल्लक्षणे` इति। `टिड्ढाणञ्` 4|1|42 इति।`शूद्रा चामहत्वपूर्वा` इत्यादि। ननु च `आमन्महतः` 6|3|46 इत्यादिनात्त्वेनात्र भवितव्यम्, अत एवं वक्तव्यम्-- अमहापूर्वेति? नैतदस्ति; अर्थप्रधानस्य हि तदात्त्वमुच्यते, शब्दप्रधानश्चायम्। महच्छब्दः पूर्वो यस्याः सा महत्पूर्वेति। `महत्पूर्वस्य प्रतिषेधः` इति।अहमत्पूर्वेत्यस्यार्थमाचष्टे। अत्रापि जातिरिति सम्बध्यते, जातिवचनस्य प्रतिषेधो यथा स्यात्। इह मा भूत्-- महती शूद्रा महाशूद्रेति। अत् ह्रुत्तरपदं शूद्रशब्दो जातौ वत्र्तते, न समुदायो महतीशूद्रारूपः। कथं पुनर्जातिरित्युच्यमाने मह्त्पूर्वस्य प्राप्तिः,यतः प्रतिषेध उच्यत इत्याह-- `महाशूद्रशब्दो ह्राभीरजातिवचनः` इति। महाशूद्रशब्दल एव हि समुदायो जातौ वत्र्तते। अत एव महाशूद्रीति `जातेरस्त्री` 4|1|63 इत्यादिना ङीब्भवति। नन्वेवमपि नास्त्येव टापः प्राप्तिः,शूद्रशब्दाद्धि प्रत्यय उत्पद्यमानः कथं महाशूद्रात् प्राप्नोतीत्यत आह--`तत्र तदन्तविधिर्न` इत्यादि। `कथं तदन्तविधिः` इति। न कथञ्चित्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादिति (व्या।प।89) मन्यते। `अतिधीवरी ` इति। `अतिपीवरी` इति। दधातेः पिबतेश्च `आतो मनिन्ववनिष्वनिपश्च` 3|2|74 इति क्वन#इप्, ईत्वं घुमास्थादिसूत्रेण 6|4|66 । धीवानमतिक्रान्ता, पीवानमतिक्रान्तेति `कुगतिप्रादयः` 2|2|18 इति समासः। अत्र तदन्तविधौ ज्ञापिते सति `वनोरच्` 4|1|7 इति ङीब्राऔ न भवतः। यदि पुनस्तदन्तविधिर्न ज्ञाप्येत तदा `वनः` इति प्रत्ययग्रहणमेतत्, ततश्च प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवति` (पु।प।वृ।44) इति वचनादिहैव स्याताम्-- `धीवरी, पीवरीति; अतिधीवरी, अतिपीवरीत्यत्र तु न स्याताम्। `अतिभवती`। अतिमहती` इति। भवतुशब्दः केवल उगित् सर्वादिषु पठते, महदिति गौरादौ, तत्रासत्यस्मिञ्ज्ञापके केवलाभ्यामेव भवन्महच्छब्दाभ्यामुगिद्गौरादिलक्षणौ ङीब्ङीषौ स्याताम्। अतिभवती, अतिमहतीत्यत्र तु न स्याताम्, ज्ञापके तु सति भवतः। यद्येवम्, पञ्चानामजानां समाहारः पञ्चाजीति द्विगोरपि तदन्तविधिना टाप् प्राप्नोति? नैष दोषः; अजादिभिः स्त्रियामिति विशेषयिष्यामः,`अजाद्यतः` 4|1|4 इति हि षष्ठी,तत्रैवमभिसम्बन्धः कत्र्तव्यः-- अजादीनां या स्त्री, अजादिशब्दानां वाच्येऽर्थे यत् स्त्रीत्वं समवायसम्बन्धेन वत्र्तमानम्, तत्र टाबिति। न च पञ्चाजीत्यत्राजाशब्दस्यार्थे वाच्ये स्त्रीत्वं समवेतम्, किं तर्हि? समाहारे वाच्ये।`पूर्वापहाणा। अपरापहाणा। टित्` इति। ल्युडन्तत्वात्।कक`प्राक्पुष्पा` इति। प्राञ्चन्तीति प्राञ्चि, `ऋत्विग्दधृक् 3|2|59 इत्यादिना क्विन्। प्राञ्चि पुष्पानि यस्याः सा प्राक्पुष्पा॥
अदन्ताच्चेति । अकारान्तादित्यर्थः । स्वरूपग्रहणं तु न भवति; अच्छब्दान्तात् नीतत् परीतत् कलिङ्गगदित्यादेः स्त्रीलिङ्गादिति, ठ्तदाद्याचिख्यासायाम्ऽ इत्यादेर्निर्देशात् । पकारः सामान्यग्रहणार्थ इति । ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यादौ । पकारानुरोधस्तु टाब्डापोः स्वर्थः । टकारः सामान्यग्रहणाविघातार्थ इति । अन्यथैकानुबन्धकत्वादस्यैव ग्रहणं स्यात्, न तु डाप्चापोः । खट्वेति । कथं पुनरत्राकारान्ता प्रकृतिरवधार्यते, यावता नित्यमेवायमाबन्तः स्त्रियां वर्तते ? शास्त्रात्प्रयोगाच्च । शाकटायनदर्शने हि सर्वेषामेव व्युत्पत्तिः । पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व इत्यादौ स्त्रीप्रत्यये लुप्ते प्रयोग एवाकारान्तत्वं दृश्यते । शुभंयाः, कीलालपा इति । ठन्येभ्योऽपि दृश्यन्तेऽ इति विच् । कः पुनरत्र टापि सति दोष इत्याह---हल्ड।लब्भ्य इति सुलोपः स्यादिति । क्वचिज्जातिलक्षण इति । गणपाठावसरे विभागं दर्शयिष्यति । हलन्तानां त्वित्यादि । अजादिग्रहणमिति । प्रकृतस्य प्रथमान्तस्यान्वयासम्भवातदर्थमजादिग्रहणमिति शेषः । अमहत्पूर्वेति । महच्छब्दस्यानुकरणत्वाल्लौकिकार्थाभिधायित्वाभावात् ठान्महतःऽ इत्यात्वं न भवति । पुंयोगे तुङीषैवेति । जातिग्रहणस्य प्रयोजनमाह । ननु पुंयोगे सोऽयमित्यभिसम्बन्धात्परशब्दः परत्र वर्तत इति गौणत्वादेव न भविष्यति ? तस्मात्सुखप्रतिपत्यर्थं जातिग्रहणम् । अमहत्पूर्वेत्यस्याथेमाह---महत्पूर्वस्वेति । अत्रापि जातिरिति सम्बध्यते, इह प्रतिषेधो मा भूत्---महती शूद्रा महाशूद्रेति, न ह्यत्र महत्पूर्वः समुदायो जातिवचनः । क्व तर्हि प्रतिषेधः ? यत्र समुदायो जातौ वर्तते । तदिदं दर्शितम्---महाशूद्रशब्दो ह्याभीरजातिवचन इति । यद्येवम्, समुदाये जातिवचने गौरखरादिवदवयवार्था भावाद्व्युत्पत्तिमात्रं क्रियते, तत्रावयवार्थस्य स्त्रीत्वस्याविवक्षितत्वात् पुंसि समासे कृते टापः प्रसङ्ग इति ? तत्रामहत्पूर्वेति प्रतिषेधः सार्थकः । ततः किम् ? अमहत्पूर्वेत्यत्र जातिरिति न सम्बन्धनीयम् । कथं महती शूद्रा महाशूद्रेत्यत्रान्तरङ्गत्वाट्टापि कृते पश्चात्सुप्, सुबन्तस्य समासः, ततश्चाभिनिर्वृतत्वाट्टापः प्रतिषेधस्याप्रसङ्गः ? सत्यम्, विस्पष्टार्थमेवात्रापि जातिरिति सम्बध्यते । ननु च शूद्रशब्दः पठ।ल्ते, कः प्रसङ्गो यन्महाशूद्रशब्दात्स्यात् ? अत आह---तदन्तविधिर्नेति । अतिधीवरी, अतिपीवरीति । दधातेः पिबतेश्च ठातो मनिन्क्वनिब्वनिपश्चऽ इति क्वनिपि कृते घुमास्थादिसूत्रेणेत्वम्, धीवानमतिक्रान्ता पीवानमतिक्रान्तेति प्रादिसमासः, अत्र ठ्वनो र चऽ इति ङीब्रौ भवतः । असति तु ज्ञापने वन इति प्रत्ययग्रहणम् । अथापि कृद्ग्रहणम् ? सर्वथातिक्रान्तप्रधाने समासे न स्यात् । अतिभवती, अतिमहतीति । ठुगितश्चऽ इत्यत्रोगिदित्युगित्प्रातिपदिकस्यैवं ग्रहणमित्यङ्गीकृत्येदं प्रयोजनं दर्शितम् । तत्र तु वक्ष्यति---ठुगिदिति प्रातिपदिकाप्रातिपदिकग्रहणम्, तेन ग्रहणवता प्रातिपदिकेनेति निषेधाभावातदन्तविधिःऽ इति । यदाह---ठुगिद्यस्य सम्भवति यथाकथ्चिदिति तदन्तात्प्रातिपदिंकात्ऽ इति च ॥ अतिमहतीत्यत्र शतृवद्भावादौणादिकादुगिल्लक्षणो ङीप् । केचिद्गौरादिपाठाद् ङीषं वर्णयन्ति, तदयुक्तम् ; अनुपसर्जनाधिकारात् । किञ्च, गौरादिपाठस्य प्रयोजनमपि न पश्यामः । ननु च महतीशब्दोऽन्तोदात इष्यते, सत्यम्; ठ्शतुरनुमःऽ इत्यत्र नद्यजाद्यौदातत्वे ठ्बृहन्महतोरुपसंख्यानम्ऽ इत्यनेनैव सिद्धम् । विभवत्युदातार्थं तदिति चेत् ? तदेव ङीबुदातार्थमपि भविष्यति । अतिमहतीत्यादौ च ङीषभावस्योक्तत्वान् ङीबुदातार्थमप्युपसंख्यानमेष्टव्यम्, युदि तदन्तविधिर्ज्ञाप्यते, पञ्चानामजानां समाहारः पञ्चाजी---द्विगोरपि टाप् प्राप्नोति ? अत्राहुः---ठजाद्यतःऽ इति षष्ठी अजादीनामजन्तानां च या स्त्री तद्वाच्येऽर्थे यत् स्त्रीत्वं समवेतं तत्र टाबिति, प्रत्यासत्या च स्त्रीत्वविशेषोपलक्षणानामेव प्रकृतित्वं विज्ञायते इति मत्वा वृत्तिकारेणोक्तम्---ठजादिभ्यः प्रातिपदिकेभ्योऽदन्ताच्चऽ इति । न च पञ्चाजीत्यत्राजार्थे समवेतं स्त्रीत्वम्, किं तर्हि ? समाहारे । एवं चामहत्पूर्वेति प्रतिषेधः शक्योऽकर्तुम्, न हि महाशूद्रीत्यत्र शूद्रार्थगतं स्त्रीत्वम् । तदन्तविधिस्तु ठ् अनुपसर्जनात्ऽ इत्यत्र ज्ञापयिष्यते । सत्प्राक्काण्डेति । पाककर्णेत्यत्र वार्तिकम्---ठ्सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधःऽ इति, तत्रैव भाष्यम्---ठ्प्राक्पुष्पा च प्रत्यक्पुष्पा चऽ इति । तस्मादत्रापि प्राक्शब्दो न पठनीयः, सदच्काण्डेत्येव पठनीयम् ॥
सिद्धान्तकौमुदी
अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजाद्युक्तिर्ङीषो ङीपश्च बाधनार्था । अजा । अतः - खट्वा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । द्विगोः (कौमुदी-479) इति ङीप् । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता ।एषु वयसि प्रथमे (कौमुदी-478) इति ङीप् प्राप्तः ॥सम्भस्त्राजिनशणपिण्डेभ्यः फलात् (वार्तिकम्) ॥ संफला । भस्त्रफला । ङ्यापोः (कौमुदी-1001) इति ह्रस्वः ॥ ।सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् (वार्तिकम्) ॥ सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा ॥शूद्रा चामहत्पूर्वा जातिः (वार्तिकम्) ॥ पुंयोगे तु शूद्री । अमहत्पूर्वा किम् ? महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा । कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥मूलान्नञः (वार्तिकम्) ॥ अमूला । ऋन्नेभ्यो ङीप् (कौमुदी-306) ॥ कर्त्री । दण्डिनी ॥
अजाद्यतष्टाप् - अजाद्यतष्टाप् । अजः=अजशब्दः-आदिर्येषां ते अजादयः, ते च अच्चेति समाहारद्वन्द्वात्षष्ठी ।ङ्यात्प्रातिपदिका॑दित्यतः प्रातिपदिकादित्यनुवृत्तं षष्ठआ विपरिणतम् अजादिभिरता च विशेष्यते । तदन्तविधिः । तत्राऽद्विषयेसमासप्रत्ययविधौ तदन्तविधे प्रतिषेधो वक्तव्यः॑ इति निषेधो न,उगिद्वर्णग्रहणवर्ज॑मित्युक्ते । ङ्याब्ग्रहणं तु नानुवर्तते,स्त्रिया॑मित्यधिकारे तयोर्विधेयत्वात् । नच अजादिभिः प्रातिपदिकस्य विशेषणेऽपि तदन्तविधिर्नास्ति, "समासप्रत्ययविधौ" इति निषेधात्,ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति च निषेधादिति वाच्यं, "शूद्रा" चामहत्पूर्वा जाति॑रित्यत्र अमहत्पूर्वेति वचनेना.ञत्र तदन्तविधिज्ञापनात् । किंच "स्त्रियां व्यक्तौ" गम्यमानाया॑मिति नार्थः । तर्हि अजा खट्वेत्यादौ अजत्वाद्याकरेण वस्तुतः स्त्रीव्यक्तौ गम्यमानायां टाबादिप्रत्ययाः स्युः । ततश्च टाबादिप्रत्ययेषु प्रयुज्यमानेषु स्त्रीत्वस्य भानं न नियतं स्यात् । अतः स्त्रियामिति भावप्रधानो निर्देशः । स्त्रीत्वे इति यावत् । तदाह — अजादीनामित्यादिना । अजाद्यन्तानामित्यर्थः । द्योत्ये इति । उक्तरीत्या स्त्रीत्वस्य प्रातिपदिकार्थत्व#आदिति भावः । उक्तं च भाष्ये-॒स्त्रियां यत्प्रातिपदिकं वत्र्तते, तस्माट्टाबादयो भवन्ति स्वार्थे॑ इति । टाप्स्यादिति ।प्रत्ययः॑,परश्चे॑त्यधिकृतम् । कस्मात्परो भवतीत्याकाङ्क्षायां संनिधानादजादिभ्योऽदन्ताच्चेति बोध्यम् । नन्वजादिगणेअज॑, "अआ" इत्याद्यदन्तपाठो व्यर्थः, अदन्तत्वादेव सिद्धेरित्यत आह — अजाद्युक्तिरिति । "वयसि प्रथमे"जातेरस्त्रीविषया॑दित्यादिवक्ष्यमाणस्य ङीपो ङीषश्च अदन्तटाबपवादस्य बाधनार्थमजादिग्रहणमित्यर्थः । एवंच अदन्तटाबपवादौ ङीप्ङीषौ, तयोरप्यजादिटाबपवाद इति फलति । अजशब्दश्छागजातौ वर्तते । अजा छागी तुभच्छागबस्तच्छगलका अजे॑ इत्यमरः । अजशब्दाट्टाप्, टपावितौ । सवर्णदीर्घः । व्यपदेशिवत्त्वादजान्तत्वम् । अत इति । "उदाहरणं वक्षयते" इति शेषः । खट्वेति । खट काङ्क्षायाम्अशू प्रुषिलटिकणिखटिविशिब्यः क्वन् । खट्वशब्दोऽदन्तः । तस्माट्टापि सवर्णदीर्घः ।शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः॑ इत्यमरः । ननुप्रत्ययः॑,परश्चे॑त्यनुवृत्तौ दिग्योगपञ्चम्या युक्तत्वादजादिभ्योऽतश्च टाप्स्यात्स्त्रीत्वे द्योत्ये इत्यर्थ एव युक्तः, तथाच "अजाद्यतः" इति षष्ठआश्रयणमयुक्तमित्यत आह — अजादिभिरिति । "अजाद्यत" इति षष्ठीमाश्रित्य अजादीनामदन्तस्य च वाच्ये स्त्रीत्वे टाबित्येवमजादिभिः स्त्रीत्वस्य विशेषणादित्यर्थः । पञ्चाजीति । पञ्चानामजानां समाहार इति विग्रहे "तद्धितार्थ" इत्यादिना द्विगुः । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीत्वम् । "द्विगोः" इति ङीप् ।यस्येति चे॑त्यकारलोपः । नन्वत्र समासेऽजशब्दसत्त्वात्तद्वाच्यमेव स्त्रीत्वमित्यत आह-अत्रेति । हि=यतोऽच्र =पञ्चाजशब्दे समासार्थभूतो यः समाहारस्तन्निष्ठं स्त्रीत्वं पञ्चाजेति समुदायस्य वाच्यं नत्वजशब्दस्य, अतोऽत्र न टाबित्यर्थः । नचोक्तरीत्या तदन्तविधिसत्त्वादजशब्दान्तस्य पञ्चाजेति समासस्य ग्रहणात्तद्वाच्यत्वं स्त्रीत्वस्येति वाच्यं, सत्यपि तदन्तविधावजादीनां श्रुतत्वेन स्त्रीत्वस्य तद्विशेषणताया एव न्याय्यत्वात् ।अजादिभ्यष्टापस्त्रीत्वेद्योत्ये॑ इति व्याख्याने तु स्त्रीत्वस्य अजादिशब्दवाच्यत्वाऽलाभात्समाहारनिष्ठमपि स्त्रीत्वमादाय टाप्स्यादिति भावः । अथाजादीनुदाहरति — अजेत्यादिना । एडकेति ।मेढ्रोरभ्रोरणोर्णायुमेषवृष्णाय एडके॑ इत्यमरः । अस्य स्त्रीत्वे कोसान्तरं मृग्यम् । अओति । "वाम्यआआ वडव#आ" इत्यमरः । चटकेति । चटकः पक्षिजातिविशेषः । अस्य जातिशब्दस्य स्त्रीत्वं मृग्यम् । अमरस्तुचटकः कलविङ्कः स्यात्तस्य स्त्री चटका॑ इत्याह । मूषिकेति ।चुचुन्दरी गन्धमूषी दीर्घेदेही तु मूषिका॑ इत्यमरः । एषु जातीति । अजादिपञ्चसुजातेरस्त्री॑ति ङीष् प्राप्तः स अजादिटापा बाध्यत इत्यर्थः । बालादयः प्रथमवयोवचनाः, तत्र होढादित्रयस्य प्रथमवयोवाचित्वे कोशो मृग्यः । एष्विति । बादिपञ्चसु "वयसि प्रथमे" इति ङीप् प्राप्तः सोऽजादिटापा बाध्यत इत्यर्थः ।सम्भस्त्रेति ।पाककर्णे॑ति सूत्रभाष्ये पठितमिदं वार्तिकमर्थतः संगृहीतम् । "सम्" "भस्त्र" "अजिन" "शण" "पिण्ड" एतेभ्य परो यः फलशब्दस्तस्मादपिपाककर्णे॑ति ङीष् न भवति, किंतु टाबेवेत्यर्थः । सम्फलेति । समृद्धानि फलानि यस्या इति विग्रहः । भस्त्रफलेति । भस्त्रेव फलानि यस्या इति विग्रहः ।भस्त्रा चर्मप्रसेविका॑ इत्यमरः । ननु भस्त्राशब्दस्य नित्यस्त्रीत्वाद्भाषितपुंस्कत्वाऽभावात्स्त्रियाः पुंव॑दिति पुंवत्त्वस्याऽप्रसक्तेः कथं ह्यस्व इत्यत आह — ङ्यापोरिति ।ङ्यापोः संज्ञाच्छन्दसोर्बहुल॑मिति ह्यस्व इत्यर्थः । अजिनफला, शणफसा, पिण्डफला-ओषधिविशेषसंज्ञाः । सदच्काण्ड । अयमपि पाककर्णे॑ति सूत्रपठितवार्तिकार्थसङ्ग्रहः । "सत्"अच्॒काण्ड॒॑प्रान्त॒॑शत॒॑एक॑ — एतेभ्यः परो यः पुष्पशब्दस्तस्तमादपिपाककर्णे॑ति ङीष् न भवति, किन्तु टाबेवेत्यर्थः । सत्पुष्पेति । सन्ति पुष्पाणि यस्या इति विग्रहः । अच इति लुप्तनकारोऽञ्चुधातुर्गृह्रत इत्यभिप्रेत्य उदाहरति — प्रक्पुष्पेति । प्राञ्चिपुष्पाणि यस्या इति विग्रहः । प्रत्यक्पुष्पेति । प्रत्यञ्चि पुष्पाणि यस्या इति विग्रहः । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एक पुष्पा ।शूद्रा च । "अजाद्यतः" इति प्रकृतसूत्रे पठितं वार्तिकमेतत् । शूद्रजातिर्वाच्या चेदमहत्पूर्वाः शूद्रशब्दः स्त्रियां टापं लभते । जातिलक्षणङीषोऽपवादः । शूद्रात् स्वभार्यायां विधिनोढायामुत्पन्ना स्त्री शूद्रा ।जाति॑रित्यस्य प्रयोजनमाह-पुंयोगे त्विति । शूद्रस्य स्त्रीत्येव पुंयोगात्स्त्रियां वृत्तौ जातिवाचित्वाऽभावान्न टाप् किन्तुपुंयोगादास्त्र्याया ङीषेवेत्यर्थः । महाशूद्रीति । महती च सा शूद्रा चेति विग्रहः । कर्मधारयःपुंवत् कर्मधारये॑ति पुंवत्त्वम् । अत्र महत्पूर्वत्वान्न टाप् । किन्तु जातिलक्षणङीषेव ।आभीरी तु महाशूद्री जातिपुंयोगयोः समा॑इत्यमरः । नृपाच्छूद्रायामुत्पन्ना उग्रा, तस्या ब्राआहृणादुत्पन्नः आभीरः । स्त्री चेदाबीरी । अत्र जातीग्रहणस्य, अमहत्पूर्वग्रहणस्य च प्रयोजनविचारः शब्देन्दुशेखरे भाष्यप्रदीपोद्द्योते च स्फुटः । क्रुञ्चेति । क्रुञ्चशब्दः चकारान्ताःऋत्विक॑इत्यादिना क्विबन्तः पक्षिजातिविशेषे वर्तते ।यत्क्रोञ्चमिथुनादेकमवधीः काकममोहित॑मिति रामायणे । उष्णिह्शब्दो हकारान्तश्छन्दोविशेषेऋत्विक्इत्यादिना क्विन्नन्त एव । देवविश्शब्दः शकारान्तः गणविशेषात्मकमरुत्सु वर्ततेमरुतो वै देवानां विशः॑इति श्रुतेः । एतेषामदन्तत्वाऽभावादप्राप्ते टापि तद्विधानार्थमजादिषु पाठः ।॒ङ्याप्प्रातिपदिकात् इति सूत्रभाष्ये त्वेषां त्रयाणामदन्तत्वमास्थितमिति ॒॑वष्टि भागुरिरल्लोप॑मिति श्लोकव्याख्यावसरे प्रपञ्चितमनुपदमेव । ज्येष्ठेति । यदा ज्येष्टादिशब्दाः प्रथमोत्पन्नादौ वर्तन्ते तदाऽदन्तत्वादेव टाप् सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्यादिविवक्षा तदापि पुंयोगलक्षणं ङीषं बाधित्वा टाबर्थमिह पाठ इत्यर्थः । कोकिलेति । कोकिलशब्दस्य जातावपि जातिलक्षणङीषं बादित्वा टाबर्थमिह पाठ इत्यर्थः । मूलान्नञ इति ।पाककर्णे॑ति सूत्रे पठितं वार्तिकमेतत् । नञः परो यो मूलशब्दस्तस्मात्पाककर्णेति॑ङीष् न भवति, किन्तु टाबेवेत्यर्थः । अमूलेति । अविद्यमानं मूलं यस्या इति विग्रहेनञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः॑इति बहुव्रीहिः । अत्रसम्भस्त्रेति,सदच्काण्डेति, मूलान्नञ इति च वार्तिकत्रयं॒॑पाककर्णे॑ति सूत्रभाष्यपठितमपि फले विशेषाऽभावादजादिगणे मूवे प्रपञ्चितम् । न चैतान्यजाद्यन्तर्गणसूत्राणीति भ्रमितव्यम् । अजादिराकृतिगणः । तेन "न मु ने" इति सूत्रभाष्ये "टायामादेश" इति भाष्यप्रयोगः सिद्धः । अत एव च पूर्वमीमांसायां द्वितीयस्य प्रथमपादेस्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वा॑दिति स्तुतशस्त्रीधिकरणेवशावद्वा गुणार्थं स्या॑दिति गुणसूत्रव्याख्यावसरे शाबरभाष्यभट्टवार्तिकयोःछागाय वपाया॑इत्यूहानुक्रमणं सङ्गच्छते । अत एव च ब्राहृमीमासायां प्रथमस्य चतुर्थपादेचमसवदविशेषा॑दित्यधिकरणे शाङ्करभाष्यवाचस्पत्ययोरजायां छागेति टाबन्तः प्रयोग उपपन्नः । अन्यथा जातिलक्षणङीष्प्रसङ्गादित्यास्तां तावत् । "ऋन्नेभ्यः" इति सूत्रमजन्तस्त्रीलिङ्गाधिकारे प्रसङ्गाद्व्याख्यातम्, इह तु सूत्रक्रमात्पुनस्तदुपन्यासः ।
अजाद्यतष्टाप् - अजाद्यतः । अजशब्द आदिर्यस्येति बहुव्रीहिः । अच् आदिर्यस्येति तु नाऽर्थः,ऋची॒ति निर्देशात् गणपाठसामथ्र्याच्च ।अ॑दिति न स्वरूपग्रहणम्,सङ्ख्यायं॑इति लिङ्गात्, अजादिभ्यः पृथक्पाठसामथ्र्याच्च । इहङ्याप्प्रातिपदिका॑दित्यधिकारेऽपि ङ्यापौ न संबध्येते, इहैव तयोर्विधेयत्वात्, अपि तु प्रातिपदिकमेव । तच्चाऽकारणे विशेष्यते॥ विशेषेण च तदन्तत्वालाक्भः, तदाह — -अजादीनामकारान्तस्य चेति । सूत्रेअतः॑इति षष्ठी । तदर्थश्च वाच्यवाचकभावः ।स्त्रिया॑मिति तु धरमप्रधाने निर्देश इत्याशयेनाह — -वाच्यं यत्स्त्रीत्वमिति । एतच्चलिङ्गं प्रातिपदिकार्थ॑इति पक्षाभिप्रायेणोक्तम् ।कस्यमाद्भवती॑त्याकाङ्क्षायां संनिधानादजादिभ्योऽकारान्ताच्चेति बोध्यम् ।इको यणची॑त्यत्र कस्मादचि पर इत्याकाङ्क्षायामिक इति यथा । टापः पकारः स्वरार्थः,औङ आपः॑,आङि चापः॑,याडापः॑, इत्यादौ सामान्यग्रहणार्थश्च । तदविधातार्थष्टकारः ।आ॑बित्युक्ते हि तदनुबन्धपरिभाषयाऔङ् आपः॑इत्यादावयमेव गृह्रते, डाप्चापोस्तु ग्रहणं न स्यात् । नन्वत इत्येव सिद्धे अजादिग्रहणं व्यर्थम्, नचक्रुञ्चा॒॑उष्णिहा॑देवविशे॑त्यादिषु हलन्तत्वादप्राप्ते विध्यर्थं तदिति वाच्यं, तथा सतिक्रुञ्चे॑त्यादिरेव गृह्रत, न त्वजादिः । अतो व्याचष्टे — अजाद्युक्तिर्ङीशषो ङीपश्चेति । खट्वेति ।खट काङ्क्षायाम्अशूप्रुषिलटिखटिकणिविशिभ्यः क्वन् । नन्वचेतनानां खट्वादिशब्दानां कथं लिङ्गव्यवस्थेति चेत् । उच्यते — लोकप्रसिद्धं स्तनाद्यवयवसंस्थानविशेषात्मकं लिङ्गं न व्याकरणे आश्रीयते, दारा॑ नित्यादौ नत्वाऽभावपर्सङ्गाक्, तटस्तटी तटमित्यादौ यथायथं लिङ्गत्रितयनिबन्धनकार्यांणामसिद्धिप्रसङ्गाच्च, किन्तु पारिभाषिकमेव लिङ्गत्रयम् । तच्च केवलान्वयि ।अयमर्थः॒॑इयं व्यक्तिः॒॑इदं वस्त्वि॑ति शब्दानां सर्वत्राऽप्रतिबग्धप्रसरत्वात् ।तत्र कश्चिच्छब्द एकस्मल्लिङ्गे शक्तः कश्चिद्द्वयोः वकश्चिश्रिष्विति लिङ्गानुशासनादिभ्यो निर्णेयम् । कुमारब्राआहृणादिशब्दास्तु लौकिकपुंस्त्वविशिष्टे शास्त्रीये पुंस्त्वे शक्ताः, लौकिकस्त्रीत्वविशिष्टे च शास्त्रीयस्त्रीत्वे । कथमन्यथा कुमी कुमार इत्यादयः प्रयोगा व्यवतिष्ठेरन् ।करेणुरिभ्यां स्त्री नेभे॑इत्यमरस्याप् ।यमेवार्थः । नन्वेवंपशुने॑ति पुंस्त्वं विवक्षितमिति मीमांसकोद्धोषः कथं योज्यः । पारिभाषिकस्याऽव्यावर्तकतया तद्विवक्षाया अकिञ्चित्करत्वात् । ल#औकिकस्य तु लिङ्गस्य पशिशब्दादप्रतीतेरिति चेत् । अत्राहुः — ॒छागो वा मन्त्रवर्णा॑दिति षष्ठान्त्याधिकरणन्यायेन पुंस्त्वस्य नियमो बोध्यः, छागशब्दस्य लौकिकपुंस्त्वविंशिष्टपारिभाषिके शक्तत्वादिति । तच्च जातित्रयमित्येक । उक्तं च हरिणा — -॒तिरुआओ जातय एवाताः केषांचित्समवस्थिताः ।अविरुद्धा विरुद्धाभिर्गोमनुष्यादिजातिभिः॑ । भाष्ये तु प्राकारान्तरमुक्तम् — -॒संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः । संस्त्याने स्त्यायतेर्ड्रट् स्त्री, सूतेः सप् प्रसवे पुमान्॥ उभयोरन्तरं यच्च तदङावे नपुंसकम्॥॑इति । अस्यायमर्थः — संस्त्यानं स्त्री, सत्त्वरजस्तमोलक्षणानां गुणानामपचयः । प्रसवो गुणानामुपचयः । स च पुमान् । सूतेर्धातोः सप् — सकारस्य पकारादेश इत्यर्थः । औणादिकोम्सुन्प्रत्ययो ह्यस्वश्च बाहुलकादिति तैयटः ।पूञो डुम्सुन्इति माधवः । तयोरुपचयापचययोरभावे सति यदुभयोरन्तरं=सदृशं तन्नपुंसकं ।नम्राण्नपा॑दिति निपातनादिति भावः । तथाऽवस्थितिमात्रं नपुंसकसम् । अत एवाविशब्दाश्च शुक्लादिशब्दवद्धर्मे धर्मिण च वर्तन्ते । स्वकृतान्तत इति । वैयाकरणसिद्धान्तत इत्यर्थः ।कृतान्तौ यमसिद्धान्तौ॑इत्यमरः । पञ्चाजीति । पञ्चानामजानां समाहार इत#इतद्धितार्थे॑त्यादिना द्विगुः ।अकारान्तोत्तरपद॑इति स्त्रीत्वेद्विगो॑रिति ङीप् । न चात्र प्रत्ययविधौ तदन्तविधिविरहादेव टापोऽप्रवृत्तौ ङीबेव स्यादिति वाच्यम्, अमहत्पूर्वग्रहणेनानुपसर्जनाधिकरेण च स्त्रीप्रत्ययेषु तदन्तविधिज्ञापनाट्टाप्प्राप्तेः सत्त्वात् । समासार्थसमहारनिष्ठमिति । नन्वजहत्स्वार्थायां वृत्तौ समाहारोऽप्यजाद्यर्थ एवेति चेन्मैवम् । तथापि तस्य पदान्तर समाभिव्याहारपेक्षया बहिरङ्गत्वात् । टाब्विधेस्त्वन्तरङ्गे चरितार्थत्वात् । कथं तर्हि परमाजेति चेत्, प्रागुत्पन्नस्यैव टापस्तत्र श्रवणात् ।अत्यजा॑निरजे त्यत्र त्वदन्तत्वप्रयुक्तष्टाबित्यवेहि । नचपञ्चाजी॑त्यत्रापि तथास्त्विति वाच्यं,द्विगो॑रिति ङीपै बाधितत्वात्ष । चटकेति । न चाऽत्रप्रत्ययस्था॑दितीकारः शङ्क्यः,चटकाया ऐर॑गिति लिङ्गादिहैव निपातनाद्वा तदपर्वृत्तेः । एवं च क्षिपकादिषुचटके॑ति पठनं नाऽतीवावश्यकमिति नव्याः । मूषिकेति ।वृश्चिकृषोः किकन्नि॑त्यधिकारेमुषेर्दीर्घश्चे॑ति किकनि इकारमध्यो मूषिकाशब्दः । यस्तुमूष स्तेये॑इति दीर्घोपधात्संज्ञायां क्वुनि मूषकशब्दो माधवेनोक्तस्ततोऽप्ययं टाप् । प्रत्ययस्थादितीत्वं तु विशेषः । केचित्तु क्वुन्नन्तोऽसावजादिगणे पाठं न प्रयुङ्केः,गणे तत्पाठस्य जातिलक्षणङीष्वाधनार्थत्वात्संज्ञायाश्चषऽजादिकत्वात् । तथा चादन्तत्वादेव क्वुन्नन्ताट्टप्सिध्यतीत्याहुः । तच्चिन्त्यम् ।व्याघ्री॑त्यादिवत्संज्ञातवेऽपि जातित्वानपायात् ।सम्भस्त्राजिनशणपिण्डभ्यः फलात् । भस्त्रेव फलानि यस्या इति विग्रहः । ङ्यापोरिति । एतच्चफल निष्पत्ता॑विती धातौ माधवग्रन्थे स्थितम् ।पाककर्णे॑त्यत्र भाष्ये तु दीर्घ एव दृश्यते ।सगच्काण्डप्रान्तशतैकेभ्यः पुष्पात् । सदच्काण्डेति ।सत्प्राक्काण्डे॑ति पाठो नादर्तव्य इति ध्वनयुन्नदाहरति — -प्रत्यक्पुष्पेति । अत्र नव्याः — ॒संभस्त्रे॑त्यादि वचनद्वयं,मूलान्नञः॑इति वक्ष्यमाणं चपाककर्णे॑त्यनेनपब्राआप्तस्य ङीपो निषेधार्थ तत्रैव सूत्रे भाष्ये पठितमपि फले विशेषाऽभावादिहैव ग्रन्थकारैः पठितम् ।न चैतावताऽजाद्यन्तर्गणसूत्राणीति भ्रमः कार्यः, तथात्वे मानाऽभावात् । किन्तु वार्तिकान्येवेमानीत्याहुः ।शूद्रा चाऽमहत्पूर्वा जातिः॥ शूद्रा चेति । शूद्रशब्दष्टापमुपादयति जातिश्चेत् । महत्पूर्वस्तु न । जातिश्चेदितीहपि संबध्यते । तेन महती शूद्रामहाशूद्रे॑ति भवत्येव । पुंयोगेत्विति । पुंयोगश्च दाम्पत्यरूप एवेति न नियमः, किन्तु जन्यजनकभावोऽपि गृह्रते । तथा च स्मृतिः — ॒वैश्याशूद्योस्तु राजन्यान्माहिष्योग्रौ सुतौ॑इति । महीशूद्रीति ।आभीरी तु महाशूद्री जातिपुंयोगयोः सने॑त्यमरः । इहअमहत्पूर्वे॑ति व्यर्थं, महाशूद्रशब्दो हि समुदित एवाऽ‌ऽभीरत्वजातौ वर्तते । तत्राऽवयवस्यानर्थकतया शूद्रशब्दार्थसमवेतस्त्रीत्वाऽभावने टापः पर्सक्त्यभावात् । न, तदन्तविधिज्ञापनाय तदिति वाच्यम्, अनुपसर्जनाधिकारेणैव तदन्तविधिज्ञापनादिति दिक् । अत्र नव्याः — ॒शूद्रा चे॑त्यादिवचनम्अजाद्यत॑इसि सूत्रस्थं वार्तिकमेव, नत्विदं गणसूत्रमित्याहुः । क्रुञ्चेत्यादि । त्रयोऽमी हलन्ता इत्येके । भाष्ये तुक्रुञ्चानालभेत॒॑उष्णिहककुभौ॑इत्यादिप्रयोगमुदाह्मत्याऽन्ता अपि स्वीकृताः । पचाद्यचा इगुपधलक्षणेन कप्रत्ययेन च यथासंभमदन्तत्वात् । पुंयोगेऽपीति । यदा ज्येष्ठादयः पर्थमजातादौ वर्तन्ते तदाऽदन्तत्वादेव टाप्सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्वादिविवक्षा तदा पुंयोगलक्षणो ङीष्प्राप्तः — सोऽप्यनेन बाध्यते इति सूचयितुमपिशब्दः ।मूलान्नञः ।मूलान्नञः । नञः किम्, शतमूली । अमूलेति । ओषधिजातिरियम् ।
लघुसिद्धान्तकौमुदी
अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात्। अजा। एडका। अश्वा। चटका। मूषिका। बाला। वत्सा। होडा। मन्दा। विलाता। इत्यादि॥ मेधा। गङ्गा। सर्वा॥
महाभाष्यम्
अजाद्यतष्टाप् (1278) (5125 विधिवार्तिकम्।। 1 ।।) - शूद्रा चामहत्पूर्वा - (भाष्यम्) शूद्रा चामहत्पूर्वेति वक्तव्यम् ‐ शूद्रा।। अमहत्पूर्वेति किमर्थम्? महाशूद्री।। (5126 विध्यंशपूरकवार्तिकम्।। 2 ।।) - जातिः - (भाष्यम्) जातिरिति वक्तव्यम्। या हि महती शूद्रा महाशूद्रा सा भवति।। (वार्तिकप्रत्याख्यानभाष्यम्) शूद्रशब्दोऽजादिषु पठ्यते। तत्र कः प्रसङ्गो यन्महत्पूर्वात्स्यात्? नैव प्राप्नोति नार्थः प्रतिषेधेन।। तदन्तविधिना प्राप्नोति।। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।। (समाधानभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः ‐ भवतीह तदन्तविधिरिति। किमेतस्य ज्ञापने प्रयोजनम्? भवती, अतिभवती, महती, अतिमहती, अत्र तदन्तविधिः सिद्धो भवति।। जातिरिति च वक्ष्यामीति।। (समाधानाक्षेपभाष्यम्) यद्येतज्ज्ञाप्यते ‐ पञ्ञ्चाजी, दशाजी, अत्रापि प्राप्नोति।। (आक्षेपखण्डनभाष्यम्) नैष दोषः।। अजादिभिरत्र स्त्रियं विशेषयिष्यामः ‐ अजादीनां या स्त्रीति।।