॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|39
SK 496
4|1|39
वर्णादनुदात्तात्तोपधात्तो नः  
SK 496
सूत्रच्छेद:
वर्णात् - पञ्चम्येकवचनम् , अनुदात्तात् - पञ्चम्येकवचनम् , तोपधात् - पञ्चम्येकवचनम् , तः - षष्ठ्येकवचनम् , नः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वा इति वर्तते। वर्णवाचिनः प्रातिपदिकातनुदात्तान्तात् तकारोपधाद् वा ङीप् प्रत्ययो भवति, तकारस्य नकारादेशो भवति। एता, एनीं। श्येता, श्येनी। हरिता, हरिणी। सर्वे एते आद्युदात्ताः, वर्णानां तणतिनितान्तानाम् इति वचनात्। वर्णातिति किम्? प्रकृता। प्ररुता। गतिस्वरेणाद्युदात्तः। अनुदात्तातिति किम्? श्वेता। घृतादित्वादन्तोदात्तः। तोपधातिति किम्? अन्यतो ङीषं वक्ष्यति। अतः इत्येव, शितिर् ब्रह्मणी। पिशङ्गादुपसङ्ख्यानम्। पिशङ्गी। असितपलितयोः प्रतिषेधः। असिता। पलिता। छन्दसि क्नम् इत्येके। असिक्नी। पलिक्नी। भाषायाम् अपि इष्यते। गतो गणस्तूर्णमसिक्निकानाम्।
`वर्णानां तणितनितान्तानाम्` (फि।सू।2।23) इत्यस्यायमर्थः-- वर्णवाचिनां तशब्दान्तानां णकारान्तानां तिशब्दान्तानां निशब्दान्तानां चादिरुदात्तो भवतीति, आदिग्रहणमुदात्तग्रहणं च प्रकृतं तत्रानुवत्र्तते।`प्रकृता` इति। प्रकर्षेण कृतेति, `कुगतिप्रादयः` 2|2|12 इति समासः। प्रशब्दोऽयं निपातः, `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्युदात्तः। समासेऽपि कृते `गितरनन्तरः` 6|2|49 इति पूर्वपदप्रकृतिस्वरेणाद्युदात्त एव भवतीति। सेषमनुदात्तम्। `घृतादित्वादन्तोदात्तः` इति। `घृतादीनाञ्च` (फि। सू।1।21।) इत्यन्तोदात्तत्वविधानात्। एतच्च फिट्सूत्रे पठते। `शिति` इति `वर्णानाम्` (फि।सू।2।33) इत्यादिना शितिशब्द आद्युदात्तः। `पिशङ्गात्` इत्यादि। पिशङ्गशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः, ततः `अन्यतो ङीष्` (41।36) इत्यतश्चकारोऽनुक्तसमुच्चयार्थोऽनुवत्र्तते। तेन पिशङ्गादपि ङीब्भवतीति। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `मनोरौ वा` 4|1|39 इत्यतो वेत्यनुवर्तते,सा च व्यवस्थितविभाषा। तेनासितपलितशब्दाभ्यां ङीष्न भविष्यत्येवेति। `वर्णानां तणतिनितान्तानाम्` (फि।सू।2।33) इयाद्युदात्तौ असितपलितशब्दौ।`तयोश्छन्दसि` इत्यादि। असितपलितशब्दयोस्तकारस्य क्नमेक आचार्या इच्छन्ति। स तु `व्यत्ययो बहुलम्` 3|1|85 इत्येव सिद्धः। `भाषायामपीष्यते` इति। एतेन प्रत्याचष्टे। `असिक्निकानाम्` इति। अज्ञातार्थे `प्रागिवात्कः` 5|3|70 इतिकः, `केऽणः` 7|4|13 इति ह्यस्वः॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानाम् (फि (कौमुदी-33)) इति फिट्सूत्रेणाद्युदात्तः । त्र्येण्या च शलल्येति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ? श्वेता । घृतादीनां च (फि (कौमुदी-21)) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री ॥पिशङ्गादुपसङ्ख्यानम् (वार्तिकम्) ॥ पिशङ्गी । पिशङ्गा ॥असितपलितयोर्न (वार्तिकम्) ॥ असिता । पलिता ॥छन्दसि क्नमेके (वार्तिकम्) ॥ असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥
वर्णादनुदात्तात्तोपधात्तो नः - वर्णादनु । वेति ङीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणं, तदन्तविधिः तोपदादित्यपि वर्णादित्यत्रान्वेति, तकार उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः ।वर्णा॑दित्यस्यस्वं रूपं शब्दस्ये॑ति वर्णशब्दादिति नार्थः, तोपधत्वाऽसंभवात् । किं तु वर्णवाचिनः शब्दादित्यर्थो विवक्षितः । वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेषणम्, तदन्तविधिः । "त" इति षष्ठी, तकारस्येत्यर्थः । "न" इत्यत्र नकारादकार उच्चारणार्थः । नकार इत्यर्थः । तदाह — वर्णवाचीत्यादिना । तदन्तादनुपसर्जनादिति । अनुपसर्जनादित्यनुवृत्तं वर्णान्तेऽन्वेति, नतु वर्णादित्यत्रेति भावः । एनी एतेति । ओतेत्यर्थः । एतशब्दान्ङीप्, तकारस्य नकारश्च । ङीबभावे टाबेव । नत्वं तु न भवति, ङीपा संनियोगशिष्टत्वात् । एतशब्दः ओतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरूद्रदत्तभृतयो याज्ञिकाः । रोहिणी रोहितेति । रोहितशब्दो रक्तवर्णपर्यायः । ङीपि णत्वे-रोहिणीति । तदभावे टाप् । अनुदात्तान्तत्वं गमयितुमाह — वर्णानामिति । तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, त् इत्यन्तानां आदिरुदात्त इत्यर्थः । एतः, शोण, श#इतिः , पृश्निः, पृषत् इति क्मेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य, रोहितशब्दे ओकारस्य चोदात्तत्वेअनुदात्तं पदमेकवर्जम् इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्वादन्तानुदात्तत्वमित्यर्थः । ननुअनुपसर्जना॑दित्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तं, नतु तदन्तविधिलभ्यवर्णान्तविशेषणत्वमित्यत आह — त्र्येण्येति । त्रीणि एतानि ओतानि अवयवसंस्थानानि यस्या इति बहुव्रीहौ त्र्येतशब्दः । तत्र एतशब्दस्य वर्णवाचिन उपसर्जनत्वान्ङीब्नत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्र्येतशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । शलल्येति । शल्यकाख्यामृगविशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्रमिति । गृह्रन्ते संगृह्रन्ते औपासनाग्निसाध्यकर्णाण्यत्रेति व्युत्पत्त्या आपस्तम्बाआलायनादिप्रणीतकल्पसूत्रविशेष उच्यते । त्र्येण्येति णत्वनमार्षम् । यजुर्वेदे तुत्रि एण्या शलल्या निवर्तयेते॑ति पठितम् । तत्र त्रीणि एतानि ओतानि यस्या इति विग्रहः । यणभावो णत्वं च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु "वर्णानां तणति" इति ओतशब्दस्याद्युदात्तत्वाच्छिष्टस्वरेणानुदात्तान्तत्वमेवेत्यत आह — घृतादीनाभिति । अत इत्येवेति ।अजाद्यतष्टा॑वित्यस्मादत इत्यनुवर्तते एवेत्यर्थः । शितिः स्त्रीति । "शिती धवलमेचक्तौ" इत्यमरः । पिशङ्गीति । "लघावन्ते" इति पिशङ्गशब्दस्य मध्योदात्ततया शिष्टस्वरेणानुदात्तान्तत्वेऽपि तोपधत्वाभावादप्राप्तो ङीबुपसङ्ख्यायते ।अन्यतो ङी॑षिति वक्ष्यमाणङीषोऽपवादः । स्वरे विशेषः ।असितेति । वार्तिकमेतत् । असितशब्दस्य कृष्णवाचकतया पलितशब्दस्य स्वेतवाचकतया चवर्णादनुदात्ता॑दिति प्राप्ते ङीब्नत्वे निषिध्येते । छन्दसि क्नमेके इति । इदमपि वार्तिकम् । असितपलितयोस्तकारस्य ङीप्संनियोगेन क्नादेशमन्ये आचार्या इच्छन्तीत्यर्थः । असिक्नीति । असितशब्दान्ङीप्, तकारस्य क्नादेशे पररूपेयस्येति चे॑त्यकारलोपः । क्न् इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्नीत्यपि ।पलितं जरसा शौक्ल्य॑मित्यमरः । ननु "अवदातः सितो गौरः" इति कोशादवदातशब्दस्य वर्णवाचित्वा॒ल्लघावन्ते॑ इति मध्योदात्ततयाऽनुदात्तान्तत्वात्तोपधत्वाच्चवर्णादनुदात्ता॑दिति ङीब्नत्वे स्यातामित्यत आह — अवदातशब्दस्त्विति ।अवदातः सिते पीते शुद्धे॑ इति कोशात् "दैप् शोधने" इत्यस्मात्तप्रत्ययेऽवदातशब्दस्य व्युत्पत्तेश्चेति भावः । एतच्चपुंयोगादाख्याया॑मिति सूत्रे भाष्ये स्पष्टम् । "अवदातः सितो गौरः" इति कोशस्तु शुद्धत्वसाधम्र्याद्बोध्यः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च। एनी, एता। रोहिणी, रोहिता॥
महाभाष्यम्
वर्णादनुदात्तात्तोपधात्तो नः (1303) (ङीप्सन्नियोगशिष्टनकारादेशाधिकरणम्) (5163 अतिव्याप्तिवारकवार्तिकम्।। 1 ।।) - असितपलितयोः प्रतिषेधः - (भाष्यम्) असितपलितयोः प्रतिषेधो वक्तव्यः। असिता, पलिता।। (5164 विधिवार्तिकम्।। 2 ।।) - छन्दसि क्नमेके - (भाष्यम्) छन्दसि क्नमेक इच्छन्ति। असिक्न्यस्योषधे, पलिक्नीरिद्युवतयो भवन्ति। (5165 अव्याप्तिवारकवार्तिकम्।। 3 ।।) - वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानम् - (भाष्यम्) वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानं कर्तव्यम् ‐ पिशङ्गी।।