Page loading... Please wait.
4|1|38 - मनोरौ वा
॥ तस्मै पाणिनये नमः ॥
4|1|38
SK 495
मनोरौ वा  
सूत्रच्छेदः
मनोः (षष्ठ्येकवचनम्) , औ लुप्तप्रथमान्तनिर्देशः वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऐ उदात्तः इति वर्तते। मनुशब्दात् स्त्रियां ङीप् प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्च उदात्तः। वाग्रहणेन द्वावपि विकल्प्येते। तेन त्रैरूप्यं भवति। मनोः स्त्री मनायी। मनावी। मनुः। मनुशब्दः आद्युदात्तः।
`वाग्रहणेन द्वावपि विकल्प्येते` इति। प्रत्येकं वाग्रहणेनाभिसम्बन्धात्। यदा चैकारौकारौ न भवतस्तदा ङीबपि न भवति ; तस्य सन्नियोगशिष्टत्वात्। `मनुशब्द आद्युदात्तः` इति। एतेनोदात्तग्रहणमनुवत्र्तयितव्यम्; अन्यथा शेषस्यानुदात्तत्वे स्थानिवद्भावेनादेशस्याप्यनुदात्तत्वं स्यादिति भावः। `मन ज्ञाने` (धातुपाठः-1176) `{भृमृशीतृचरित्सरितनिममस्ज्भ्य उः-- द।उ।}भृमृशीतृचरित्सरितनिधनिमिमस्ज्भ्य उः` (द।उ।1।92) इत्यनुवत्र्ताने `धान्ये नित्` (द।उ।1।94) इति च `शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमानिभ्यश्च` (द।उ।1।95) इत्युप्रत्ययः, नित्वात् `ञ्नित्यादिर्नित्यम्` 6|1|191 इत्याद्युदात्तत्वं भवति मनुशब्दस्य॥
ऐकारश्चोदात इति । औकारस्त्वनुदात एव । वाग्रहणेन द्वावपि विकल्प्येते इति । यदा च द्वावपि न भवतस्तदा ङीबपि न भवति; सन्नियोगशिष्टत्वात् । मनुशब्द आद्यौदात इति । ठ्मन ज्ञानेऽ, ठ्मृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उःऽ इति वर्तमाने ठ्धान्ये नित्ऽ इति च, ठ्शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्चऽ इति उप्रत्ययः, नित्वादाद्यौदातत्वम्, भरुः, मरुः, शयुः, तरुः, चरुः, त्सरुः, तनुः, धनुः, मयुः, मद्गुः, न्यङ्क्वादिपाठात् कुत्वम्---प्रथमस्योदाहरणानि । शरुः, स्वरूः, स्नेहुः, त्रपु, असुः, वसुः, हनुः, क्लेदुः, बन्धुः, मनुः---इति द्वितीयस्य ॥
सिद्धान्तकौमुदी
मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां सन्नियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥
मनोरौ वा - मनोरौ वा । ऐ चेति, उदात्त इति, ङीबिति चानुवर्तते । तदाह — मनुशब्दस्येति । उदात्तैकारश्च वेति । औकारः, उदात्त एकारश्च वा स्यादित्यर्थः । "उदात्तैकार" इति समासनिर्देशादुदात्त इत्यौकारेण न संबध्यत इति सूचितम्, एतच्च वृत्तिपदमञ्जर्योः स्पष्टम् । चकारान्ङीप् एकारौकाराभ्यां समुच्चीयते । तदाह — ताभ्यामिति । एकारौकाराभ्यां समुच्चयेनैव विहित इत्यर्थः । ततश्च तदुभयाऽभावपक्षे ङीबपि नेति लभ्यते,संनियोगशिष्टानां सह वा प्रवृत्तिः॑ सह वा निवृत्तिः॑ इति परिभाषावशादिति भावः । इयं तु परिभाषापूतक्रतोरै चे॑ति सूत्रभाष्ये स्थिता । मनायीति ।यद्वै किं च मनुरवद॑दित्यादौ मनुशब्दः "ञ्नित्यादिनित्यम्" इत्याद्युदात्तः । "धान्ये नित्" इत्यतो निदित्यनुवृत्तौशृस्वृस्निही॑त्यादिना मनेरुप्रत्ययविधेः । ततश्च सिष्टस्वरेण नकारादुकारोऽनुदात्तः । तस्य स्थाने उदात्त ऐकारः, तस्यायादेशो ङीप् चेति भावः । मनावीति । अत्रौकारोऽनुदात्त एव । मनुरिति । ऐकारस्य औकारस्य चाऽभावे तत्संनियोगशिष्टो ङीबपि नेत्युक्तमेव ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.