॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|35
SK 492
4|1|35
नित्यं सपत्न्यादिषु  
SK 492
सूत्रच्छेद:
नित्यम् - प्रथमैकवचनम् , सपत्नी-आदिषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सप्त्न्यादिषु नित्यं पत्युर्नकारादेशो भवति, ङीप् तु लभ्यते एव। पूर्वेण विकल्पे प्राप्ते वचनम्। नित्यग्रहणं वस्पष्टार्थम्। समानः पतिरस्याः सप्त्नी। एकप्त्नी। समानादिष्विति वक्तव्ये समानस्य सभावार्थं वचनम्। समान। एक। वीर। पिण्ड। भ्रातृ। पुत्र। दासाच् छन्दसि।
`सपत्न्यादिषु` इति। के पुनः सप्त्नत्यादयः? ये पठन्ते। तेषु प्रातिपदिकेषु येषां समानादीनि पूर्वपदानि ते सपत्न्यादयः। कुत एतत्? समानादीनां गणे पाठात्, सपत्न्यादीनां चापाठात्। लाघवार्थं समानार्थं समानादिष्विति प्रवक्तव्ये कृते नकारदेशस्य सप्रत्ययस्य च सपत्न्यादिष्विति समुदायस्योच्चारणम्-- नियोगत एव समुदाय ईकारन्त एव यथा स्यादित्येवमर्थम्। तेन सपत्नी भार्या यस्य स सपत्नीभार्य इति `स्त्रियां पुंवत्` 6|3|33 इति पुंवद्भावो न भवति। `सपत्न्यादिषु नित्यम्` इत्यादि। समानादिषु पूर्वेष्वयवयवेषु सत्सु नित्यं पतिशब्दस्य नकारादेशो भयतीत्यर्थः। यदि पूर्वेण विकल्पे प्राप्त इदं वचनम्, एवं हि नित्यग्राहणयनर्थकम्, आरम्भसामथ्र्यादेव हि नित्यं विधिर्भविष्यतीत्यत आह-- `नित्यग्रहणं विस्पष्टार्थम्` इति।`दासाच्छन्दसि` इति। दासशब्दात् परो यः पतिशब्दस्तदन्तस्य प्रातिपदिकस्य चछन्दसि विषये नित्यं नकारादेशो भवति। दासः पतिर्यस्याः सा दासपत्नी। भाषायां तु पूर्वेण विकल्पः-- दासपतिः, दासपत्नीति॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
पूर्वविकल्पापवादः । समानस्य सभावोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥
नित्यं सपत्न्यादिषु - नित्यं सपत्न्यादिषु । विषयसप्तम्येषा । सपत्न्यादिविषये तत्सिद्ध्यर्थं नित्यं नत्वमित्यर्थः । पूर्वविकल्पेति ।विभाषा सपूर्वस्ये॑ति विकल्पस्यापवाद इत्यर्थः । आरम्भसामथ्र्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम् । ननु समानः पतिर्यस्याः सा सपत्नीति वक्षयति । तत्र समानशब्दस्य सभावोऽनुपपन्नः, अतः सदृशपर्यायेण सहशब्देनैव बहुव्रीहिराश्रयणीयः । एवं चवोपसर्जनस्ये॑ति वैकल्पिकः सभाव इत्यत आह — समानस्येति । इह गणे समान,एक, वीर, भ्रातृ, पुत्र इति समानादयः पठिताः । अतः समानशब्देनैन बहुव्रीहिकुचितः । तस्य च निपातनादेव नित्यं सभाव इति भावः । समानः पतिरिति । अत्र समानशब्द एकपर्यायः, पतिशब्दस्तु विवाहनिबन्धनभर्तृशब्दपर्यायः । वीरपत्नीति । वीरः पतिर्यस्या इति विग्रहः । सपत्न्यादित्वान्नत्वम् ।
नित्यं सपत्न्यादिषु - नित्यं सपत्न्यादिषु । आरम्भसामथ्र्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम् । निपात्यत इत । इह गणे समान एक वीर भ्रातृ पुत्रेति समानादय एव पठन्ते, ततश्चसमानादिषु॑इति वक्तव्येसपत्न्यादि॑ष्वित्युक्तिः सभावनिपातनार्थेति भावः । सपत्न्यादिषु बहुव्रीहिराश्रीयत इत्याशयेनाह — -समानः पतिर्यस्याः सेति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!