॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|33
SK 490
4|1|33
पत्युर्नो यज्ञसंयोगे  
SK 490
सूत्रच्छेद:
पत्युः - षष्ठ्येकवचनम् , नः - प्रथमैकवचनम् , यज्ञसंयोगे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप् प्रत्ययस् तु नकारान्तत्वादेव सिद्धः यज्ञसंयोगे। यज्ञेन संयोगः यज्ञसंयोगः। तत्साधनत्वात् फलग्रहीतृत्वात् वा यजमानस्य पत्नी। पत्नी वाचं यच्छ। यज्ञसंयोगे इति किम्? ग्रामस्य पतिरियं ब्राह्मणी कथं वृषलस्य पत्नी? उपमानाद् भविष्यति।
`यज्ञसंयोगे` इति। यज्ञसम्बन्धे। कस्य पुनर्यज्ञेन संयोगः? पतिशब्दवाच्यार्थस्य। अथ पतिशब्दस्यैव कस्मान्न भवति? असम्भवात्। तयोर्हि वाच्यवाचकभावलक्षणः सम्बन्धः स्यात्, न केवलः पतिशब्दो यज्ञस्य वाचकः। कथं पुनर्यज्ञेन संयोग इत्याह-- `तत्साधनत्वात्` इति। तस्य यज्ञस्य साधनं तत्साधनम्, तद्भावो यज्ञसाधनत्वम्। तस्माद्यज्ञेन संयोगो भवति। यजमानस्य या भार्या तस्या यागं प्रति साधनभावोऽस्तीति; विना तया तदनिष्पत्तेः। न हि भार्याविरहितस्त्रैर्णिकः केवलो यज्ञेऽधिक्रियते। तस्मात् स तया करणभूतया यज्ञं निष्पादयतीत्यस्ति तस्या यज्ञेन सह क्रियाकारकलक्षणः सम्बन्धः। `तत्फलग्रहीतृत्वाद्वा` इति। यज्ञसंयोगे द्वितीयो हेतुः। अनेन तु स्वस्वामिभावलक्षमः सम्बन्धः प्रतिपाद्यते। यज्ञस्य यत्प्रधानं फलं स्वर्गाख्यं तद्यजमानस्य पत्नी परिगृह्णाति। अतो यद्यपि यज्ञं प्रति तस्याः साधनत्वं न विवक्ष्यते, तथापि तत्फलस्य ग्रहणात्, यथा यजमानस्य यज्ञेन हस स्वस्वामिभावसम्बन्धः, तथा तत्पत्न्या अपि। अथ फलग्रहीतृत्वादिति कथमत्र षष्ठीसमासः? कथञ्च न स्यात्? `कत्र्तरि च` 2|2|16 इति तृचा सह षष्ठीसमासप्रतिषेधात्? नैवायं तृजन्तेन षष्ठीसमासः, किं तर्हि? द्वितीयेति योगविभागात् तृन्नन्तेन द्वितीयासमासः। अथ वा-- याजकादिषु ग्रहीतृशब्दो द्रष्टव्यः, तेन षष्ठीसमासो भविष्यति। अथापि तत्र न पठते? एवमपि `याजकादिभिश्च` 2|2|9 इति चकारस्यानुक्तसमुचयार्थत्वाद्भविष्यति। `ऋन्नेभ्यो ङीप्` 4|1|5 इति ग्रहीतृशब्दादिह ङीप् न भवति, स्त्रीत्वस्याविवक्षितत्वात्। क्वचित् `फलगृह्णीतत्वात्` इति पाठः।तत्र फलगृहीतशब्दयोर्बहुव्रीहिः। फलशब्दस्य जातिवाचित्वान्निष्ठायाः पूर्वनिपाते प्राप्ते `जातिकालसुखादिभ्यः परवचनम्` (वा।116) इति गृहीतशब्दस्य परनिपातः।`कथम्` इत्यादि। एं मन्यते-- `शूद्रस्यैव तावद्यज्ञेऽनधिकृत्वाद्यज्ञेन संयोगो नास्ति, किं पुनस्तद्भार्यायाः? अतः `वृषलस्य पत्नी` इत्येष प्रयोगो नोपपद्यते` इति। `उपमानाद्भविष्यति` इति। पत्नीवद्धि पत्नी। यथैव हि यजमानस्य पत्न्यग्निसाक्षिपूर्वकेण तत्पत्युः सम्बन्धिनी तत्कार्येषु चाधिकृता तथा वृषलस्य भार्याऽपि। तस्मात् पत्नीसमाधम्र्यात् साऽपि पत्नीत्युच्यते॥
यद्यत्र यज्ञशब्देन पतिशब्दस्य सम्बन्धात् यज्ञसंयोग इत्यर्थः स्यात् ? यज्ञस्य पतिरियं ब्राह्मणीत्यत्रैव स्यात्, अस्ति ह्यत्रार्थद्वारकः सम्बन्धः, स्वरूपेण चानन्तर्यलक्षणः । अथ यज्ञवाचिना संयोगो यज्ञसंयोगः ? तथापि पत्नीसंयाज इत्यादावेव स्यात्, न त्वियमस्य पत्नीत्यादौ । तस्माद्यज्ञशब्दस्य योऽर्थस्तेन पतिशब्दार्थस्य सम्बन्धो यज्ञसंयोग इत्याह---यज्ञेन संयोग इति । अन्यथा ठ्यज्ञशब्देनऽ इत्यवक्ष्यत् । एवं च पतिशब्दार्थस्येत्यप्युक्तं भवति, न हि पतिशब्दस्य यज्ञेनार्थेन वाच्यवाचकभावः सम्बन्धान्तरं वा सम्भवति । तत्साधनत्वादिति । देवतोद्देशेन स्वद्रव्यत्यागः उयागः । मध्यकंचदम्पत्योर्धनम्, ठ्कुटुअम्बिनौ धनस्येशाते जायापत्योर्न विभागो विद्यतेऽ इति हि स्मर्यते, ततश्च त्यागे भार्याया अप्यनुमतिरपेक्ष्यत इति तत्रास्या अनुमत्या साधनत्वम् । मदर्थं कर्मेत्येवंरूपोऽधिकारलक्षणसम्बन्धोऽस्तीत्याह---फलग्रहीतृत्वादिति । कर्तृत्वमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न कृतः । ठ्कर्तरि चऽ इति समासप्रतिषेधः कर्मणि षष्ठ।ल एव, न शेषपष्ठ।ल इति तस्यानेनोपपन्नः समासः । फलगृहीतत्वादिति पाठे गृहीतं फलं ययेति बहुव्रीहौ फलशब्दस्य जातिवचनत्वाद् निष्ठायाः पूर्वनिपाते ठ्जातिकालसुखादिभ्यः परवचनम्ऽ इति गृहीतशब्दस्य परनिपातः । कथमित्यादि । शूद्रस्यैव यज्ञेऽनधिकृतत्वाद्यज्ञेनासंयोगात्कथं तद्भार्याया यज्ञसंयोग इति प्रश्नः । उपमानादिति । अग्निसाक्षिकं यत्पाणिग्रहणं तद् वृषलादीनामप्यस्ति, तदाश्रयमुपमानम् ॥
सिद्धान्तकौमुदी
पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् ॥
पत्युर्नो यज्ञसंयोगे - पत्युर्नो । पत्युरिति षष्ठी । "न" इत्यकार उच्चारणार्थः । स्त्रियामित्यधिकृतम् । तदाह — पतिशब्दस्येति । यज्ञेनेति । यज्ञसंबन्धः=यज्ञेन सह स्वामितया संबन्धः । यज्ञफलभोक्तृत्वमिति यावत् । तदाह — तत्कर्तृकस्येति । वसिष्ठकर्तृकस्येत्यर्थः । ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्तृत्युचितं, नतु तत्स्त्र्यपि, "स्वर्गकामः" इत्यादिपुंलिङ्गशब्दैः पुंस एवाधिकारावगमादित्यत आह — दम्पत्योः सहाधिकारादिति । एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम् । अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादेलिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः॑ इत्यधिकरणेस्ववतोस्तु वचनादैककम्र्यं स्यात् इत्यधिकरणे च दम्पत्योः सहाधिकारः सिद्धान्तितः । प्रपञ्चितं चैतदस्माबिरध्वरमीमांसाकुतूहलवृत्तौ ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पत्युर्नो यज्ञसंयोगे (1300) (नादेशाधिकरणम्) (आक्षेपभाष्यम्) यज्ञसंयोग इत्युच्यते, तत्रेदं न सिध्यति ‐ इयमस्य पत्नी।। क्व तर्हि स्यात्? पत्नीसंयाजाः इति यत्र यज्ञसंयोगः।। (समाधानभाष्यम्) नैष दोषः। पतिशब्दोऽयमैश्वर्यवाची। सर्वेण च गृहस्थेन पञ्ञ्च महायज्ञा निर्र्वत्याः, यच्चादः सायंप्रातर्होमचरुपुरोडाशान्निर्वपति तस्यासावीष्टे।। (अव्याप्तिवारकभाष्यम्) एवमपि तुषजकस्य पत्नी न सिध्यति। उपमानात्सिद्धम् ‐ पत्नीव पत्नीति।।