॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|32
SK 489
4|1|32
अन्तर्वत्पतिवतोर्नुक्  
SK 489
सूत्रच्छेद:
अन्तर्वत्पतिवतोः - षष्ठीद्विवचनम् , नुक् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
प्रकृतिर् निपात्यते, नुगागम् अस्तु विधीयते। अन्तर्वत्पतिवतोर् नुक् भवति ङीप् च प्रत्ययः, स तु नकारान्तत्वादेव सिद्धः। निपातनसामर्थ्याच् च विशेषे वृत्तिर् भवति। अन्तर्वत् पतिवतिति गर्भभर्तृसंयोगे। इह न भवति, अन्तरस्यां शालायां विद्यते। पतिमती पृ̄थीवी। अन्तर्वतिति मतुब् निपात्यते, वत्वं सिद्धम्। पतिवतिति वत्वं निपात्यते, मतुप् सिद्धः। अन्तर्वत्नी गर्भिणी। पतिवत्नी जीवपतिः। अन्तर्वत्पतिवतोस् तु मतुब्वत्वे निपातनात्। गर्भिण्यां जीवपत्यां च वा छन्दसि तु नुग्विधिः। सान्तर्वत्नी देवानुपैत्। सान्तर्वती देवानुपैत। पतिवत्नी तरुणवत्सा। पतिवती तरुणवत्सा।
`स तु नकारान्तत्वादेव सिद्धः` इति। `ऋन्नेभ्यो ङीप्` 4.1.5) इत्यनेन। `निपातनसामथ्र्यात्` इत्यादि। यथैव हि निपातनसामथ्र्यादन्यत् किञ्चिदलाक्षणिकं कार्यं भवति, तथार्थविशेषेऽपि वृत्तिः। कस्मिन्पुनरर्थविशेषे वृत्तिर्भवति? इत्यत आह-- `अन्तर्वत्पतिवत्` इत्यादि। यथाक्रममन्तर्वदित्यस्य गर्भसंयोगे वृत्तिः, पतिपदित्यस्य भर्तृसंयोगे। गर्भेण संयोगो गर्भसंयोगः, स कस्या भवति? यस्याः कुक्षौ गर्भो व्यज्यते। भत्र्रा संयोगो भर्तुसंयोगः, स च कस्या भवति? यस्याः पतिर्जीवति। भत्र्ता चेह योऽग्निसाक्षिपूर्वकेण पाणिग्रहणनेन सम्बन्धी स एवाभिमतः, नतु यः पृथिवीस्वामी। `{राशतिभ्यां द।उ।} इह तु न भवति इति-- अन्तरस्यां शालायां विद्यते` (इति) शालायां कुक्षिगतेन गर्भेण सम्बन्धाभावात्। `पतिमती` इति। परिरस्या अस्तीति मतुप्, `उगितश्च` 4|1|6 इति ङीप्। अत्र पतिशब्द ईआरे स्वमिनि वत्र्तते। तेन संयोगे च न पतिवदिति निपात्यते। येन तु संयोगो निपात्यते स चाख्यात एव।`मतुब्निपात्यते` इति। अन्तःशब्दस्याधिकरणप्रधानत्वात् प्रथमासमर्थता नास्ति। प्रथमासमर्थाच्चास्तिसमानाधिकरणेन मतुब्विधीयते, न चास्तिनान्तशब्दस्य सामानाधिकरण्यम्, तस्मान्मतुब्न प्राप्नोतीति निपात्यते। `वत्वं न सिद्धम्` इति। `मादुपधायाश्च` 8|2|9 इत्यादिनैवाकारोपधत्वात्। `निपात्यते` इति। केनचिदप्राप्तत्वात्। ` मतुप्सिद्धः`इति। पतिरस्यास्तीति प्रथमासमर्थस्य पतिशब्दस्यास्तिना सामानाधिकरण्यात्। `गर्भिणी` इत्यनेन गर्भसंयोगं दर्शयति। `जीवपतिः`इत्यनेनापि भर्तृसंयोगम्।`अन्तर्वत्पतिवतोः`इत्यादि। अन्तर्वत्पतिवदित्येतयोः शब्दयोर्निपातनान्मतुबवत्वे भवतः, यथाक्रमं गर्भिण्यां जीवपत्यां च स्त्रियामभिधेयायाम्। गर्भोऽस्या अस्तीति गर्भिणी। जीवतीति जीवः, पचाद्यच्; जीवः गतिर्यस्याः सा जीवपतिः।ननु च `पतिः समास एव` 1|4|8 इति घिसंज्ञोयऽयं पतिशब्दः,तत्र `अच्च घेः` 7|3|118 इत्यात्वौत्वयोः कृतयोः जीवपताविति भवितव्यम्, तदयुक्तो जीवपत्यामिति निर्देशः? नैतदस्ति; `शेषो घ्यसखि` 1|4|7 इति, सिद्धायामेव घिसंज्ञायां `पतिः समास एव` 1|4|8 इत्यनेन शेषस्यैव पतिशब्दस्य घिसंज्ञा नियमार्थं विधीयते, न चायं शेषः; `ङिति ह्यस्वश्च` 1|4|6 इति नदीसंज्ञासम्भवात्। नदीसंज्ञायां च सत्यां `इदुद्भ्याम्` 7|3|117 इति `ङेराम् नद्याम्नीभ्यः` 7|3|116 इत्याम्, यणादेशे जीवपत्यामिति भवति। `वा च्छन्दसि नुग्विधिः`। छन्दसि विकल्पे तु नुग्विधिर्भवति। स च वक्ष्यमाणस्य विभाषाग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। नुक्पक्षे `ऋन्नेभ्यो ङीप्` 4|1|5 इति ङीप्। `अन्तर्वत्नी` इति। अनुक्पक्षे `उगितश्च` 4|1|6 इति ङीप्--अन्तर्वतीति भवति॥
निपातनसमार्थ्याच्चेति । कार्यान्तरवदर्थविशेषवृत्तिरपि लभ्यत इति भावः । कस्मिन्विशेष इत्यत्राह अन्तर्वत्पतिवदिति । गभभर्तृसंयोगे इति । अन्तर्वदिति । गर्भसंयोगे, गर्भिण्यामित्यर्थः । पतिवदिति । भर्तृसंयोगे, भर्तृमत्यामित्यर्थः, जीवपत्यामिति यावत् । इह न भवति अन्तरस्यां शालायां विद्यते इति । अस्मिन्विषये एवंविधं वाक्यमेव भवति, न तु मतुबादीत्यर्थः । क्वचिद् अन्तर्वती शालेति पठ।ल्ते, तदयुक्तम् ; अत्र मतुबभावस्योक्तत्वात् । पतिमती पथिवीति । स्वामिपर्यायोऽत्र पतिशब्दः । मतुब्निपात्यत इति । अधिकरणप्रधानस्यान्तः शब्दस्यास्तिनाऽसामानाधिकरण्यान्न प्राप्नोतीति कृत्वा । वत्वं तु सिद्धमिति । ठ्मादुपधायाश्चऽ इत्यनेनादुपधत्वात् । अन्तर्वत्पतिवतोरित्यादि । एतयोः शब्दयोर्निपातनान्मतुब्वत्वे भवतः, नुक्तु विधीयते यथाक्रमं गर्भिण्यां जीवपत्यां चाभिधेयायाम्--जीवः पतिरस्याः जीवपतिः ठ्विभाषा सपूर्वस्यऽ इति ङीम्नकारयोरभावपक्षे रूपम् । तत्र ङितिह्रस्वश्चऽ इति नदीसंज्ञापक्षे ठिदुद्भ्याम्ऽ इति णेóरामादेशः, जीवपत्यामिति भवति । वा तु च्छन्दसि नुग्विधिः । च्छन्दसि विषये तु विकल्पेन नुग्विधिर्भवति---अन्तर्वती, अन्तर्वत्नी । पुंस्यापि दृश्यते---सोऽन्तर्वानभवत् ॥
सिद्धान्तकौमुदी
एतयोः स्त्रियां नुक् स्यात् ॥ ऋन्नेभ्यो ङीप् (कौमुदी-306) गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते । तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्ति सामानाधिकरण्याभावाद- प्राप्तो मतुप् निपात्यते । पतिवत्नीत्यत्र तु वत्वं निपात्यते । अन्तर्वत्नी । पतिवत्नी । प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥
अन्तर्वत्पतिवतोर्नुक् - अन्तर्वत्पतिवतोर्नुक् । नुक्स्यादिति । कित्त्वसामथ्र्यादयमागमः, नतु प्रत्यय इति भावः । कित्त्वादन्तावयवः । अन्तर्वत्-न, पतिवत्-न इति स्थिते आह — ऋन्नेभ्यो ङीबिति । गर्भिण्यामिति । गर्भिण्यां जीवद्भर्तृकायां च स्त्रियाम् अन्तर्वत्पतिवदिति प्रकृतिभागौ नुक्संनियोगेन निपात्येते इत्यर्थः । वार्तिकमेतत् । कतरस्मिन् किं निपात्यत इत्यत आह — तत्रेति । तयोर्मध्य इत्यर्थः । अन्तरस्त्यस्यां गर्भ इति विग्रहेऽप्राप्तो मतुप् निपात्यत इत्यन्वयः । कथमप्राप्तिर्मतुप इत्यत आह — अन्तःशब्दस्येत्यादि, अभावादित्यन्तम् ।तदस्यास्त्यस्मिन्निति मतु॑बिति सूत्रे अस्तिसमानाधिकरणात्कर्तृकारकप्रधानप्रथमान्तान्मतुप्प्रत्ययो विहितः । यथा गौरस्यास्तीति गोमानित्यादौ । प्रकृते प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरणो, नत्वन्तश्शब्दः, तस्याधिकरणकारकप्रधान तया अस्तिसामानाधिकरण्याऽसंभवात् । अतोऽत्राऽप्राप्तो मतुब्निपात्यत इत्यर्थः । ततश्चमादुपधायाश्च मतोर्वः॑ इति मकारस्य वत्वेऽन्तर्वदिति प्रकृतिभागः संपद्यत इति भावः । वत्वमिति पतिरस्या अस्तीति विग्रहेतदस्यास्त्यस्मिन्नि॑ति मतुपो मकारस्य मादुपधात्परत्वाऽभावेन "मादुपधायाः" इति वत्वमप्राप्तं निपात्यत इत्यर्थः । प्रत्युदाहरणं त्विति । गर्भिण्यामेव मतुब्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहवाक्यमेव, नतु मतुबित्यर्थः । पतिमती पृथिवीति । जीवद्भर्तृकायामेव वत्वनिपातनादिह वत्वाऽभाव इति भावः ।
अन्तर्वत्पतिवतोर्नुक् - प्रत्युदाहरणं त्विति ।अन्तर्वती॒॑पतिवती॑ति प्राचोक्तं प्रत्युदाहरणमयुक्तमिति भावः । [आद्येऽस्तिसामानाधिकरण्याभावान्मतुपोऽसंभवात्, द्वितीये तु वत्त्वाऽसंभवादिति भावः] ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अन्तर्वत्पतिवतोर्नुक् (1299) (नुगधिकरणम्) (5156 पूर्वपक्षवार्तिकम्।। 1 ।।) - अन्तर्वत्पतिवदिति गर्भभर्तृसंयोगे - (भाष्यम्) अन्तर्वत्पतिवदिति गर्भभर्तृसंयोग इति वक्तव्यम्। इह मा भूत् ‐ प्रथते त्वया पतिमती पृथिवी इति।। (आक्षेपभाष्यम्) अथान्तः शब्दस्यागर्भसंयोगे किं प्रत्युदाह्रियते? अन्तरस्यां शालायामस्तीति।। किं पुनः कारणं वाक्यमेवोदाह्रियते, न पुनर्मतुप्? अस्तिसामानाधिकरण्ये मतुब् विधीयते। न चात्रास्तिसामानाधिकरण्यम्।। (प्रत्याक्षेपभाष्यम्) इहापि तर्हि न प्राप्नोति। अन्तर्वत्नीति।। (सिद्धान्तभाष्यम्) एवं तर्हि ‐ अन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात्। अन्तर्वदिति मतुब् निपात्यते, वत्वं सिद्धम्। पतिवदिति वत्वं निपात्यते, मतुप् सिद्धः।। किमविशेषेण? नेत्याह ‐ गर्भिण्यां जीवपत्यां च एतस्मिन् विषये।। वा च च्छन्दसि नुग्भवेत्।। वा च छन्दसि नुग्वक्तव्यः ‐ साऽन्तर्वती देवानुपैत्, साऽन्तर्वत्नी देवानुपैत्, पतिवती तरुणवत्सा, पतिवत्नी तरुणवत्सा।। अन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात्। गर्भिण्यां जीवपत्यां च वा च च्छन्दसि नुग्भवेत्।।