॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|27
SK 486
4|1|27
दामहायनान्ताच्च  
SK 486
सूत्रच्छेद:
दामहायनान्तात् - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ऊधसः इति निवृ̄त्तम्। सङ्ख्याग्रहणम् अनुवर्तते, न अव्ययग्रहणम्। सङ्ख्यादेः बहुव्रीहेः दामशब्दान्तात् हायनशब्दान्तात् च स्त्रियां ङीप् प्रत्ययो भवति। दामान्तात् डाप्प्रतिषेधविक्ल्पेषु प्राप्तेषु नित्यार्थं वचनम्। द्विदाम्नी। त्रिदाम्नी। हायनान्ताट् टापि प्राप्ते। द्विहायनी। त्रिहायणी। चतुर्हायणी। हायनो वयसि स्मृतः। तेन इह न भवति, द्विहायना शाला। त्रिहायना। चतुर्हायना। णत्वम् अपि त्रिचतुर्भ्याम् हायनस्य इति वयस्य इव स्मर्यते।
`ऊधसः` इति निवृत्तम्,प्रकृत्यन्तरोपादानात्। `संख्याग्रहणनुवत्र्तते, नाव्ययग्रहणम्` इति। संख्याग्रहणस्यैव स्वरितत्वात्। `डाप्प्रतिषेधविकल्पेषु प्राप्तेषु` इति। `डाबुभाभ्यामन्यतरस्याम्` 4|1|13 इत्यादिना डापि प्राप्ते `अनो बहुव्रीहेः` 4|1|12 इति प्रतिषेध `अन उपधालोपिनोऽन्यतरस्याम्ट 4|1|28 इति विकल्पे च। द्वे दामनी अस्या इति `द्विदाम्नी`। `द्वौ हायनावस्या इति `द्विहायनी`। `हायनो वयसि स्मृतः` इति। प्रकृतिरिति शेषः। कस्य प्रकृतिः? ङीपः प्रकृतत्वात् तस्यैव। बहुव्रीह्रधिकारादत्र हायमान्तो बहुव्रीहिरिति गम्यते। एतदुक्तं भवति-- हायमान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इति। तेन यदि वयो गम्यते ततो ङीब्भवति, नान्यथा। एतच्चोत्तरसूत्रेऽन्यतरस्यांग्रहणस्योभयोर्योगयोः शेषभूतत्वाद्व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अथ त्रिचतुभ्र्यां हायनस्याप्युपसंख्यानाद्यथा हि त्रिहायनी चतुर्हायणीत्यत्र णत्वं भवति; तथा त्रिहायना शाला, चतुर्हायना शालेत्यत्रापि कस्मान्न भवति? इत्याह -- `णत्वमपि` इत्यादि। तदपि हि णत्वमौपसंख्यानिकमाचार्यैर्वयस्येव स्मर्यते। न च शालाया वयः सम्भवति, तस्य प्राणिधर्मत्वादिति नेह णत्वं प्रवर्तते।अन्तग्रहणं विस्पष्टार्थम्। बहुव्रीह्रधिकारादेव हि सामथ्र्यात् तदन्तविधिर्लभ्यते; न हि केवलयोर्दामहायनशब्दयोर्बहुव्रीहिसंज्ञा केनचिद्विहिता॥
ठ्स्वीरितेनाधिकारःऽ इत्यत्र द्वौ पक्षौ---शब्दाधिकारः, अर्थाधिकारश्चेति । तत्राद्ये पक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतित्रातं स एवानुवर्तते, द्वितीये तु द्वन्द्वार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा न वा, तदिहाद्यं पक्षमाश्रित्याह---सख्याग्रहणमनुवर्तते नाव्ययग्रहणमिति । हायनो वयसि स्मृत इति । प्रकृतिरिति शेषः । हायनान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इत्यर्थः । त्रिहायना शालेति । प्राणिधर्मो वयः शालाया न सम्भवति । अथ मूलोदाहरणवत् ठ्त्रिचतुर्भ्या हायनस्यऽ इत्यौपसंख्यानिकं णत्वं कस्मान्न भवतीत्यत आह---णत्वं चेत्यादि । बहुव्रीह्यधिकारादेव तदन्तविधिसिद्धेरन्तग्रहणं विस्पष्टार्थम् ॥
सिद्धान्तकौमुदी
सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम् (वार्तिकम्) ॥ ।वयोवाचकस्यैव हायनस्य ङीप् णत्वं चेष्यते (वार्तिकम्) ॥ त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । त्रिहायना चतुर्हायना शाला ॥
दामहायनान्ताच्च - दामहायनान्ताच्च । "सङ्ख्यादेः"ङी॑विति चानुवर्तते । तदाह — सङ्ख्यादेरिति । अव्ययग्रहणं तु नानुवर्तते, अस्वरितत्वादिति भावः । बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टार्थम् । दामान्ते इति द्विदामन्शब्दे दामान्तेडाबुभाभ्या॑मिति डापि "अन उपधालोपिनः" इति ङीपि,अनो बहुव्रीहे॑रिति ङीप्प्रतिषेधे च-प्राप्ते, द्विहायनीत्यत्रापि हायनान्तेऽदन्तत्वाट्टापि प्राप्तेदामहायनान्ताच्चे॑ति वचनमित्यर्थः । द्विदाम्नीति । द्वे दामनी यस्या इति विग्रहः । ङीपि "अल्लोपोऽनः" इति भावः । नन्वव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह्म अव्ययग्रहणेति । उद्दामेति । उद्दामेति । उत्क्रान्तं दाम यस्या इति विग्रहः । डाब्विषेधावपीति । अपिनाअन उपधे॑ति ङीप् गृह्रते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरति — द्विहायनी बालेति । द्वौ हायनौ यस्या इति विग्रहः ।अथ त्रिहायणीत्यत्र भिन्नपदत्वाण्णत्वाऽप्राप्तावाह — त्रिचतुभ्र्यामिति । नन्वेवमपिद्विहायना शाले॑त्यत्रापि ङीप् स्यात्,त्रिहायना शाले॑त्यत्र तु ङीप् णत्वं च स्यातामित्यत आह — वयोवाचकस्येति । इष्यते इति ।भाष्यकृते॑ति शेषः ।
दामहायनान्ताच्च - दाम । बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । सङ्ख्यादेरिति । समासनिर्देशेऽपि स्वरितत्वबलादेकदेश एवानुवर्तत इति भावः । अननुवृत्तेरिति । भाष्यकृताऽननुवर्ततत्वादिति भावः । एवं चोद्दामेत्यत्रदामहायनान्ताच्चे॑त्यस्याऽप्रवृत्त्या पूर्वोक्तेषु डाप्ङीब्नेषेधेषु प्राप्तेषु बहुराज्ञीवद्रूपत्रयं भवत्यतो व्याचष्टे — -डान्बिषेधावपीति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
दामहायनान्ताच्च ( 1296) (ङीबधिकरणम्) (5154 पूर्वपक्षवार्तिकम्।। 1 ।।) - दामहायनान्तात्संख्याऽऽदेः - (भाष्यम्) दामहायनान्तात्सङ्ख्याऽऽदेरिति वक्तव्यम्। इह मा भूत् ‐ उद्दामा वडवेति।। (5155 एकदेशिसमाधानवार्तिकम्।। 2 ।।) - तत्पुरुषविज्ञानाद्वा सिद्धम् - (भाष्यम् बहुव्रीहेरिति वर्तते। तत्पुरुषश्चायम् ‐ उत्क्रान्ता दाम्न उद्दामेति।। भवेत्सिद्धम् ‐ यदा तत्पुरुषः।। यदा तु खलु बहुव्रीहिस्तदा न सिध्यति ‐ उत्क्रान्तं दाम अस्या इति। (एकदेश्याक्षेपसमाधानभाष्यम्) ननु चेतनावत एतद्भवति ‐ उत्क्रमणं वाऽपक्रमणं वा, दाम चाचेतनम्।। अचेतनेष्वपि चेतनवदुपचारो दृश्यते। तद्यथा ‐ स्रस्तान्यस्या बन्धनानि, स्रस्यन्तेऽस्या बन्धनानीति।। (सिद्धान्तभाष्यम्) तत्तर्हि संख्यादेरिति वक्तव्यम्? न वक्तव्यम्, प्रकृतमनुवर्तते।। क्व प्रकृतम्? संख्याऽव्ययादेर्ङीप् (4।1।26) इति।। यदि तदनुवर्तते, अव्ययादेरपि प्राप्नोति। नैष दोषः। संख्यादेरित्यनुवर्तते, अव्ययादेरितिनिवृत्तम्।। (परिभाषामुखेन सिद्धान्तभाष्यम्) कथं पुनरेकयोगनिर्दिष्टयोरेकदेशोऽनुवर्तते, एकदेशो न? एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिर्भवति। तद्यथा ‐ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ (5।2।24) पक्षात्तिः (25) इत्यत्र मूल इत्यनुवर्तते, पाक इति निवृत्तम्।। (सिद्धान्तांशकथनभाष्यम्) अथेह कथं भवितव्यम् द्वौ हायनावस्याः शालायाः? द्विहायना, त्रिहायनेति? हायनो वयसि स्मृतः।। वयोवाचिनो हायनशब्दस्य ग्रहणम्। न चैष वयोवाची। अथ णत्वं कस्मान्न भवति? णत्वमपि वयोवाचिन एव।।