Page loading... Please wait.
4|1|25 - बहुव्रीहेरूधसो ङीष्
॥ तस्मै पाणिनये नम: ॥
4|1|25
SK 484
बहुव्रीहेरूधसो ङीष्  
सूत्रच्छेद:
बहुव्रीहेः - पञ्चम्येकवचनम् , ऊधसः - पञ्चम्येकवचनम् , ङीष् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ऊधस्शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीष् प्रत्ययो भवति। ऊधसो ऽनङ् 5|4|131 इति समासान्ते कृते अनो बहुव्रीहेः 4|1|12 इति डाप्प्रतिषेधयोः प्राप्तयोरिदम् उच्यते। घटोध्नी। कुण्डोध्नी। बहुव्रीहेः इति किम्? प्राप्ता ऊधः प्राप्तोधाः। अन उपधालोपिनो ऽन्यतरस्याम् 4|1|28 इत्यस्य अपि ङीपो ऽयम् उत्तरत्र अनुवृत्तेर् बाधक इष्यते। समासान्तश्च स्त्रियाम् एव। इह न भवति, महोधाः पर्जन्यः इति।
`ऊधसोऽनङिति समासान्ते कृते` इति। अकृत एव समासे बहुव्रीह्रर्थं उत्तरपदे पूर्वं समासान्तेन भवितव्यमिति प्राक् ततः समासान्त एव भवति, ततो बहुव्रीहिः ततः स्त्रीप्रत्ययः-- इत्येवैवानुपूर्वी।`अनो बहुव्रीहेः` इत्यादि। इतिशब्द आद्यर्थे। `अनो बहुव्रीहेः` 4|1|12 इत्यादिना शास्त्रान्तरेणेत्यर्थः। तत्र `अनो बहुव्रीहेः` इत्यनेन सूत्रेण प्रतिषेधे प्राप्ते `डाबुभाभ्यामन्यतरस्याम्` 4|1|13 इत्यनेन डाप्। `कुण्डोघ्नी` इति। कुण्डमिवोधोऽस्या इति बहुव्रीहिः,`अल्लोपोऽनः` 6|4|134 इत्यकारलोपः।`प्राप्तोधाः` इति। `प्राप्तापन्ने च द्वितीयया` 2|2|4 इति तत्पुरुषः, `अत्वसन्तस्य चाधातोः` 6|4|14 इति दीर्घः।`अन उपधालोपिनः`इत्यादि। `अन उपधालोपिनोऽन्यतरस्याम्` 4|1|28 इत्येतेनापि विधीयमानस्य ङीपोऽयं ङीब्बाधक इष्यते। कथं पुनरिहोच्यमानस्तस्य बाधको भवति? उत्तरसूत्रानुवृत्तेः। असत्यानुत्तरत्रानुवृत्तौ `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते` (व्या।प।10) इत्येवमयं ङीब्डाप्प्रतिषेधावेव बाधते, नोपधालोपिनो ङीषम्। ततशचोपधालोपिनः परत्वात् स एव पक्षे भवेत्। तस्मात् `अन उपधालोपिनः` 4|1|28 इत्यत्रास्यानुवृत्तिः कत्र्तव्याः। तेनोपधालोपिनोऽप्यूधसन्तान्ङीषेव भवति। `समासान्तश्च स्त्रियामेव` इति। समासान्तविधेरनित्यत्वात्। अनित्यत्वं तु पुनरूधःशब्देन सकारान्तेनासमासान्तेन विशेषणाद्विज्ञायते। यदि हि नित्यः स्यात् `बहुव्रीहेरूघ्नः` इति निर्देशः स्यात्॥
ठूधसोऽनङ्ऽ इति । समासान्ते कृत इति समासार्थादुतरपदाद्भवन्समासान्तः पूर्वं भवति, ततः स्त्रीप्रत्ययः । अनो बहुव्रीहेरिति । उपल7णमेततत् । ठनो बहुव्रीहेःऽ, ठ्डाबुभाभ्याभन्यतरस्याम्ऽ इति चेत्यर्थः । कुण्डोध्नीति । कुण्डमिव ऊधोऽस्या इति विग्रहः, ङीषि ठल्लोपोऽनःऽ इत्यकारलोपः । प्राप्तोधा इति । ठ्प्राप्तापन्ने च द्वितीययाऽ इति तत्पुरुषः, ठत्वसन्तस्यऽ इति दीर्घः । अन उपधालोपिन इत्यादि । असत्यां पुनरनुवृतौ मध्येऽपवादन्यायेन डाप्प्रतिषेधयोरेवायं ङीष् बाधकः स्यात्, न ठन उपधालोपिनःऽ इत्यस्य ङीपः । ननु च ठ्डाबुभाभ्याम्ऽ इत्यत्रानेनान्यतरस्यांग्रहणेन ङीबपि प्राप्यते, ठन उपधालोपिनःऽ इत्यय तु नियम इत्यावीदीति कुतोऽयमनिष्टप्रसङ्गः ? सत्यम् ; अन ठुपधालोपिनःऽ इत्यस्य तु विधित्वाभ्युपगमेनैतदुक्तम् । इह बहुव्रीहेरूधसो ङीष् नश्चेति वक्तव्यम्, ऊधः शब्दान्ताद्वहुव्रीहेः स्त्रियां ङीष् भवति तत्सन्नियोगेन चान्त्यस्य नकारः, समासान्तप्रकरणे तु ऊधसऽनङिति न वक्तव्यम्, ठ्धनुषोऽनङ्ऽ इत्येव पठितव्यम्, कः पुनरेवं सति गुणो भवति ? ठन उपधालोपिनःऽ इत्यत्रास्यानुवृत्तिर्नाश्रयितव्या भवति; अपि च महोधाः पर्जन्यः, वुण्डोधो धैनुकमिति सिद्धं भवति, अन्यथा ठूधसोऽनङ्ऽ इत्यत्र स्त्रियामिति वक्तव्यं स्यादत आह---समासान्तश्च स्त्रियामेवेति । इष्यत इत्यनुषङ्गः, तत्रैव स्त्रियामिति वक्तव्यमित्यर्थः, इतरथा हि कब्विधिप्रसङ्गः । कपोऽवकाशोऽन्यो बहुव्रीहिः---अयवकः अव्रीहिकः, ङीषस्तु---विभाषा कप्, यदा न कप् सोऽवकाशः; कप्प्रसङ्गे उभयं प्राप्नोति परत्वात्कप् स्यात् ॥
सिद्धान्तकौमुदी
ऊधोन्ताद्बहुव्रीहेर्ङीष् स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ ।स्त्रियाम्‌ (वार्तिकम्) ॥ इत्युपसङ्ख्यानात् ॥
बहुव्रीहेरूधसो ङीष् - बहुव्रीहेः । "ऊधस" इति बहुव्रीहेर्विशेषणम्, तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह — ऊधोऽन्तादिति । कुण्डोध्नीति । अनङि कृते ङीषि "अल्लोपोऽनः" इति भावः ।ऊधस्तु क्लीबमापीन॑मित्यमरः । ङीष्विधेस्तु स्वरे विशेषः फलम् । स्त्रियां किमिति । ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति । कुण्डमिव ऊधोयस्येति विग्रहः । नपुंसकत्वस्फोरणायधैनुक॑मिति विशेष्यम् । धेनूनां समूह इत्यर्थः ।अचित्तहस्तिधेनोष्ठक् । "इसुसुक्तान्तात्कः"आदिवृद्धिः, क्लीबत्वं लोकात् । अत्र स्त्रीत्वाऽभावान्न ङीषित्यर्थः । ननु मास्तु ङीष्, अनङ् तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौस्त्रिया॑मित्यभावादित्यत आह — तद्विधाविति । ऊधसोऽनङ्विधौस्त्रिया॑मित्युपसङ्ख्यानादित्यर्थः । बहुव्रीहेः किम् । ऊधः प्राप्तेति विग्रहेप्राप्तापन्ने च द्वितीयये॑ति समासेप्राप्तोधाः॑ ।
बहुव्रीहेरूधसो ङीष् - ऊधोन्तस्य बहुव्रीहेरिति । समासान्तप्रकरणस्थत्वेऽप्यनङो न प्रत्ययत्वम्, अन्यथा ङित्त्ववैयथ्र्यापत्तेरिति प्राञ्चः । वस्तुतस्तु ष्यङ इव प्रत्ययत्वेऽप्यादेशत्वमविरुद्धं,कुण्डोध्नी॑त्यत्र ङीषि कृते स्वरेऽपि विशेषाऽभावादिति बोध्यम् । स्त्रियामिति । उपसङ्ख्यानाल्लब्धमेतत् । डाम्ङीन्बिषेधेष्बिति ।डाबुभाभ्या॑मिति वैकल्पिको डाप् ।अन उपधालोपिनोऽन्यतरस्या॑मिति विकल्पेन ङीप् ।अनो बहुव्रीहे॑रित्यनेनऋन्नेभ्य॑इति प्राप्तस्य ङीपो निषेध इथि विवेकः । ङीष् स्यादिति । पर्कृतो ङीबेव तु न विहितः, स्वरे विशेषात् । कुण्डोन्धीति । कुण्डमिव ऊधो यस्याः सा । बहुव्रीहेः किम् । प्राप्ता ऊधः — प्राप्तोधाः ।प्राप्तापन्ने चे॑ति समासः । धैनुकमिति ।अचित्तहस्ती॑ति समूहार्थे ठक् ।इसुसुक्तान्तात्कः॑ । स्त्रियामित्युपसङ्ख्यानादिति । नन्विहैव लाघवार्थंबहुव्रीहेरूधसो ङीषे॑नश्चे॑ति सूत्र्यताम्अनङ् चे॑ति वा । समासान्तेषुऊधसो न॑ङिति च त्यक्त्वाधनुषो न॑ङित्येव पठताम् । मैवम् । कबभावे सावकाशस्याऽस्य पक्षे कपा बाधपत्तेः । सिद्धान्ते त्वनङः समासान्ततया शेषत्वमेवेह नास्तीति न कप् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बहुव्रीहेरूधसो ङीष् (1295) (ङीषधिकरणम्) (5151 पूर्वपक्षवार्तिकम्।। 1 ।।) - उधसो नकारो लिङ्गाधिकारे - (भाष्यम्) उधसो नकारो लिङ्गाधिकारे वक्तव्यः। इह मा भूत् ‐ महोधाः पर्जन्य इति।। (5152 सिद्धान्तवार्तिकम्।। 2 ।।) - न वा समासान्ताधिकारे स्त्रीग्रहणात् - (भाष्यम्) न वा लिङ्गाधिकारे नकारः कर्तव्यः। किं कारणम्? समासान्ताधिकारे स्त्रीग्रहणात् ‐ समासान्ताधिकार एव स्त्रीग्रहणं कर्तव्यम्।। (5153 सिद्धान्तसाधकवार्तिकम्।। 3 ।। ) - इतरथा हि कब्विधिप्रसङ्गः - (भाष्यम्) इतरथा हि कब्विधिः प्रसज्येत।। कस्यां पुनरवस्थायां कप्प्राप्नोति? प्राक् ङीषुत्पत्तेः।। प्राक्तावन्न प्राप्नोति। किं कारणम्? न हि ङीष्विभाषा।। उत्पन्ने तर्हि ङीषि प्राप्नोति।। उत्पन्ने चापि न प्राप्नोति। किं कारणम्? नद्यन्तानां यो बहुव्रीहिरित्येवं तत्। न चैष नद्यन्तानां बहुव्रीहिः।। प्रागेव तर्हि प्राप्नोति। ननु चोक्तं न हि ङीष्विभाषेति। यद्यपि न ङीष्विभाषा, कप् तु विभाषा।। कपोऽवकाशः ‐ अन्यो बहुव्रीहिः ‐ अयवकः, अव्रीहिकः। ङीषोऽवकाशः ‐ विभाषा कब्, यदा न कप् सोऽवकाशः ‐ कुण्डोध्नी, घटोध्नी। कप्प्रसङ्ग उभयं प्राप्नोति, परत्वात्कप्स्यात्। (सिद्धान्तभाष्यम्) तस्मात्सुष्ठूच्यते ‐ न वा समासान्ताधिकारे स्त्रीग्रहणादितरथा हि कब्विधिप्रसङ्ग इति।।