Page loading... Please wait.
4|1|24 - पुरुषात्‌ प्रमाणेऽन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
4|1|24
SK 482
पुरुषात्‌ प्रमाणेऽन्यतरस्याम्  
सूत्रच्छेदः
पुरुषात् (पञ्चम्येकवचनम्) , प्रमाणे (सप्तम्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्विगोः तद्धितलुकि इत्येव। प्रमाणे यः पुरुषशब्दः, तदन्ताद् द्विगोः तद्धितलुकि सति अन्यतरस्यां न ङीप् प्रत्ययो भवति। द्वौ पुरुषौ प्रमाणम् अस्याः परिखायाः द्विपुरुषा, द्विपुरुषी। त्रिपुरुषा, त्रिपुरुषी। अपरिमाणान्तत्वान् नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। प्रमाणे इति किम्? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा। क्रिपुरुषा। तद्धितलुकि इत्येव। समाहारे द्विपुरुषी। त्रिपुरुषी।
`प्रमणे यः पुरुषशब्दो वत्र्तते`इति। जातिवचनोऽपि पुरुषशब्दः, यदा प्रमाणशब्देनाभिसम्बध्यते तदा पुरुषगते प्रमाणे वत्र्तते। भवति पदान्तरसम्बन्धेन शब्दस्यार्थान्तरे वृत्तिः, यथा-- सिंहो माणवक इति। सिंहशब्दो जातिवचनोऽपि माणवकसान्निध्याच्छौर्यलक्षणं गुणमाचष्टे। `द्विपुरुषी` इति। `प्रमाणे द्वयसच्` 5|2|37 इति विहितस्य द्वयसचः `प्रमाणे लो द्विगोर्नित्यम्`(वा। 558,559) इति लुक्।`अपरिमाणान्तत्वात् प्रतिषेध प्राप्ते`इति। `अपरिमाणविस्त` 4|1|22 इत्यादिना। `द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा` इति। पूर्ववदार्हीयस्य ठको लुक्।`तद्धितलुकि` इत्येव। `पञ्चपुरुषी` इति। प्रमाणार्थवृत्तानामेव समाहारान्नास्ति द्व्यङ्गविकलता॥
प्रमाणे यः पुरुषशब्द इति । पञ्चारत्निः पुरुष इति शुल्बविदः, तत्र द्वौ पुरुषो प्रमाणमत्या इति वाक्ये प्रमाणशब्देन सम्बन्धाज्जातिवचनोऽपि पुरुषशब्दः प्रमाणे वर्तते । वृतौ तु तत्स्वभावादेव प्रमाणे वृत्तिर्द्रष्टव्या ॥
सिद्धान्तकौमुदी
प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीप् वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥
पुरुषात् प्रमाणेऽन्यतरस्याम् - पुरुषात् । द्विगोरिति तद्धितलुकीति ङीबिति चानुवत्र्तते । तदाह — प्रमाणे य इत्यादिना । प्रमाणमायामः,आयामस्तु प्रमाणं स्यात् इति वचनात् । द्वौ पुरुषाविति ।पञ्चहस्तायामः पुरुषः॑ इति शुल्वसूत्रात् । द्वौ पुरुषौ प्रमाणमस्या इति विग्रहे "तद्धितार्थ" इति द्विगुसमासः । प्रमाणे द्वयसज्दघ्नञ्मात्रचः॑ इति विहितस्य मात्रचःप्रमाणे लः, द्विगोर्नित्य॑मिति लुक् । अत्रोक्तरीत्या पुरुषप्रमाणस्य आयामात्मकस्यअपरिमाणे॑ति नित्यं ङीब्निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । अन्ये तुतदस्य परिमाण॑मिति ठकः ठञो वाअध्यर्धे॑ति लुक् । तत्र हि उत्तरसूत्रानुरोधात्परिमाण शब्देन परिच्छेदकमात्रं गृह्रते इत्याहुरित्यास्तां तावत् । द्विपुरुषी द्विपुरुषा वा परिखेति । तिर्यक् द्विपुरुषायतेत्यर्थः । दुर्गं परितः तत्संरक्षणार्थौ जलाशयः परिखा । अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ कुण्डोधस्शब्दः ।
पुरुषात् प्रमाणेऽन्यतरस्याम् - पुरुषात्प्रमाणे । अपरिमाणान्तत्वान्निषेधे प्राप्ते विकल्पार्थं वचनम् । पुरुषशब्दो यद्यपि लोके जातिवचनस्तथापिद्वौ पुरुषौ प्रमाणमस्या॑इति वाक्ये प्रमाणशब्दसामानाधिकरण्यात्प्रमाणे वर्तत एव । वृत्तौ तु शब्दशक्तिस्वाभाव्यादेव । तथा च शुल्लसूत्रम् — ॒पञ्चारित्रि- पुरुषः॑इति । द्विपुरुषीति । अत्रपर्माणे लोद्विगोर्नित्य॑मिति द्वयसचो लुगिति न्यासकारः । नन्विह तद्धितलुग्लुर्लभः, पुरुषशब्दस्य प्रमाणवाचित्वाऽभावेनप्रमाणे लः॑इति श्लोकवार्तिकस्याऽपर्वृत्तेः । ये हि शमादिवत्प्रमाणत्वेन प्रसिद्धस्तत्रैव तत्प्रवर्तते, न तु पुरुषशब्देऽपि । अन्यथापुरुषद्वयस॑मित्यत्रापि लुक् स्यात् । न चैवं द्वयसज्दघ्नचावपि नास्मात्स्यातामिति वाच्यम्, — ॒ऊध्र्वमाने मतौ ममे॑त् वचनात् । एवंपुरुषात्प्रमाणे — -॑इति वैकल्पिकस्यापि ङीपः सामथ्र्यादेव प्रवृत्तिः । किन्तु तद्धितलुगेव दुर्लभः इति चेत्राहुः — अस्त्विहप्रमाणे लः॑इत्यस्याऽप्रवृत्तिस्तथापि सुलभ एव लुक् ।पुरुषात्प्रमाणे॑इति सूत्रे हिद्विगोस्तद्धितलुकी॑त्यनुवर्तते तत्सामथ्र्याल्लुगप्याक्षिप्यत इति सुवचत्वादिति । प्रमाणे किम् । द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुष#आ गौः ।तद्धितलुकी॑त्येव । समाहारे — पञ्चपुरुषी । नन्विह पुरुषशब्दः पर्माणे न वर्तते इति द्द्यङ्गविकलमेतदिति चेदत्राहुः — प्रमाणार्थवृत्तीनामेव पुरुषाणामत्र समाहारान्न द्द्यङ्गविकलता । ततश्चतद्धितलुकी॑त्यनुक्तौपञ्चपुरुषशब्दाद्विकल्पः स्यात्, इष्यते तुद्विगो॑रिति नित्यं ङीबीति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.