॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|23
SK 481
4|1|23
काण्डान्तात्‌ क्षेत्रे  
SK 481
सूत्रच्छेद:
काण्डान्तात् - पञ्चम्येकवचनम् , क्षेत्रे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
काण्डशब्दान्तात् द्विगोस् तद्धितलुकि सति क्षेत्रे वाच्ये ङीप् प्रत्ययो न भवति। द्वे कण्डे प्रमाणम् अस्याः क्षेत्रभक्तेः, प्रमणे द्वयसज्दघ्नञ्मात्रचः 5|2|37 इति विहितस्य तद्धितस्य प्रमाणे लो द्विगोर् नित्यम् इति लुकि कृते, द्विकाण्डा क्षेत्रभक्तिः। त्रिकाण्डा क्षेत्रभक्तिः। काण्डशब्दस्य अपरिमाणवाचित्वात् पूर्वेण एव प्रतिषेधे सिद्धे क्षेत्रे नियमार्थं वचनम्। इह मा भूत्, द्विकाण्डी रज्जुः, त्रिकाण्डी रज्जुः इति। प्रमाणविशेषः काण्डम्।
`नियमार्थम्` इति। क्षेत्र एव यथा स्यात्, अन्यत्र मा भूदिति। अथान्तग्रहणं किमर्थम्, यावता सामथ्र्यादेव तदन्तविधिर्लभ्यत एव, यथा-- पूर्वस्मिन् सूत्रे, न हि केवलस्य काण्डशब्दस्य केनचिद्द्विगुसंज्ञा विहिता? सत्यमेतत्, किन्त्वसत्यग्रहणे काणडमेव क्षेत्रेण विशिष्येत-- काण्डशब्द एव केवलो यः क्षेत्रे वत्र्तते इति, ततश्चेह प्रतिषेधः स्यात्-- द्वाभ्यां काण्डसंज्ञकाभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति। इह तु न स्यात्-- द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्तेः द्विकाण्डा क्षेत्र भक्तिरिति। अन्तसूत्रे तु सति काण्डशब्दस्य विशेषणं क्षेत्रं न भवति; तस्य द्विगो गुणभूतत्वात्।
मानदण्डःउकाण्डम् । ठ्द्विगोःऽ इत्यधिकारादेव पूर्वसूत्रवतदन्तविधौ सिद्धे किमर्थमन्तग्रहणम् ? अक्रियमाणेऽन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं विज्ञायेत---क्षेत्रे यः काण्डशब्दः, तदन्ताद् द्विगोरिति श्रुतत्वात् न तदन्तस्य, यथोतरसूत्रे प्रमाणे यः पुरुषशब्दस्तदन्तादिति, ततश्चेह प्रसज्येत---द्वाभ्यां काण्डाभ्यां काण्डामिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति; इह तु न स्यात्---द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिरिति । अन्तग्रहणे तु सति तदन्तस्यैव विशेषणं क्षेत्रम्, न काण्डस्य; बहुव्रीहौ गुणभूतत्वात् ॥
सिद्धान्तकौमुदी
क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसच् (कौमुदी-1838) इति विहितस्य मात्रचः ।प्रमाणे लो द्विगोर्नित्यम्‌ (वार्तिकम्) ॥ इति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥
काण्डान्तात् क्षेत्रे - काण्डान्तात्क्षेत्रे । "द्विगोः" इति,न तद्धितलुकी॑ति चानुवर्तते । तदाह — क्षेत्रे य इत्यादि । द्वे काण्डे इति । षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे प्रमाणमस्या इति विग्रहे "तद्धितार्थ" इति द्विगुसमासे द्विकाण्डशब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्काव्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं दर्शयितुमाह-प्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्क्यम्, अलसति ह्रन्तग्रहणे क्षेत्र इत्येतत्काण्डस्यैव विशेषणं स्यात्, श्रुतत्वात् । क्षेत्रे यः काण्डशब्दस्तदन्तादिति लभ्येत एवंचद्विकाण्डा क्षेत्रभक्ति॑रित्यत्र द्विकाण्डशब्दस्यैव क्षेत्रवर्तित्वात्काण्डशब्दस्य प्रमाणवाचित्वान्ङीब्निषेधो न स्यात् । द्वाभ्यां काण्डाभ्यां= काण्डप्रमितक्षेत्राभ्यां क्रीताद्विकाण्डी बहवे॑त्यत्रैव ङीम्निषेधः स्यात् । अतोऽन्तग्रहणम् । द्विकाण्डी रज्जुरिति । पूर्ववन्मात्रचो लुकिद्विगो॑रिति ङीप् । क्षेत्रवृत्तित्वाऽभावान्न तन्निषेध इति भावः । ननुअपरिमाणे॑ति पूर्वसूत्रे परिमाणशब्देन किं परिच्छेदकमात्रं विवक्षितम्, उतऊध्र्वमान#ं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् इति वार्तिकानुसारेण परितः-सर्वत आरोहतः परिणाहतश्च येन मियते तत् परिमाणमित्याढककुडवाद्येव आयाभव्यावृत्तं विवक्षितम् । नाद्यः, तथा सति द्वौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचौ लुकि ङीब्निषेधो न स्यात् । न द्वितीयः, तथा सतिकाण्डशब्दस्यायामप्रमाणपरतयोक्तपरिमाणपरत्वाऽभावेनअपरिमाणे॑त्यनेनैवद्विकाण्डा क्षेत्रभक्ति॑रित्यत्रापि ङीब्निषेधसंभवेनकाण्डान्तात्क्षेत्र एव ङीब्निषेधः, नान्यत्रद्विकाण्डीरज्जु॑रित्यादाविति नियमार्थमित्यन्यत्र विस्तरः ।
काण्डान्तात् क्षेत्रे - काम्ढान्तात् । षोडशहस्तप्रमाणो दण्डः काण्डम् । यद्यपि विशेषणेन तदन्तविधिः सिद्धः, तथाप्यसत्यन्तग्रहणेक्षेत्रे॑इत्येतत् श्रुतत्वात्काण्डस्यैव विशेषणं स्यान्न तु काण्डान्तस्य । ततश्च द्वाभ्यां काण्डाभ्यां=काण्डप्रमिताभ्यां क्रीताद्विकाण्डी वडवे॑त्यत्र निषेधः स्यात् । इह तु निषेधो न स्यात् — ॒द्विकाण्डा क्षेत्र भक्ति॑रिति । अत्र हि काण्डं प्रमाणे वर्तते, काण्डान्तस्तु क्षेत्रे, अतोऽन्तग्रहणं कृतम् । इहद्विगो॑रित्यनुवर्ततेन तद्धितलुकी॑ति च, तदाह — द्विगुस्ततो न ङीबत्यादि । मात्रच इति.॒द्वयसचो लु॑गिति प्राचोक्तं नादर्तव्यम् ।प्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति सिद्धान्तादिति भावः । द्विकाण्डी रज्जुरिति । द्वे काण्डे प्रमाणमस्याः । पूर्ववत्ताद्धितलुक् । द्विगोः॑इति ङीप् । नन्विहापरिमाणान्तादिति पूर्वेण निषेधः स्यात्, काण्डशब्दस्यायामपरतया अपरिमाणार्थत्वात्, परितः सर्वत आरोहतः परिणाहतश्च येन मीयते तद्धि परिमाणम् — आढककुडवादि, नतु यथाकथञ्चिच्परिच्छेदकमात्रम् । यदाहुः — ॒ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः॑इति । अतएवद्विहस्ता भित्ति॑रित्यत्र ङीम्न भवतीति चेदत्रीहुः — नियमार्थमिदंक्षेत्र एव निषेधा यथा स्या॑दिति । तथा चद्विकण्डी रज्जु॑रित्यत्र ङीबेव सूत्रारम्भस्य फलमिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!