॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|22
SK 480
4|1|22
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि  
SK 480
सूत्रच्छेद:
अपरिमाणबिस्ताचितकम्बल्येभ्यः - पञ्चमीबहुवचनम् , न - अव्ययम् , तद्धितलुकि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्वेण ङीप् प्राप्तः प्रतिषिध्यते। अपरिमाणान्तात् द्विगोः बिस्ताऽचितकम्बल्यान्ताच् च तद्धितलुकि सति ङीप् प्रत्ययो न भवति। बस्तादीनां परिमाणार्थं ग्रहणम्। सर्वतो मानं परिमाणम्। अपरिमाणान्तात् तावत् पञ्चभिरश्वैः क्रीता पञ्चाश्वा। दशाश्वा। कालः च सङ्ख्या न परिमाणम्। द्विवर्षा त्रिवर्षा। द्वाभ्यां शताभ्यां क्रीता द्विशता। त्रिशता। बिस्तादिभ्यः द्विबस्ता। त्रिबस्ता। द्व्याचिता। त्र्याचिता। द्विकम्बल्या। त्रिकम्बल्या। अपरिमाण इति किम्? द्व्याढकी। त्र्याढकी। तद्धितलुकि इति किम्? समाहारे पञ्चाश्वी। दशाश्वी।
`तद्धितलुकि सति`इति। एतेन `तद्धितलुकि` इत्येषा विषयसप्तमीति दर्शयति। परसप्तमीत्येषानोपपद्यते;लुकोऽभावरूपत्वात्, अभावे च पौर्वापर्याभावात्। `सर्वतो मानं परिमाणम्` इति। परिशब्दः सर्वतो भावे। सर्वत आरोहतः परिणाहतश्च मीयते = परिच्छद्यते येन तत्परिमाणम्- प्रस्थादिः।`पञ्चाआआ` इति। तद्धितार्थे द्विगुः, `तेन क्रीतम्` 5|1|36 इत्यार्हीयष्ठक्, `अध्यर्थपूर्वाद्द्विगोर्लुक्` 5|1|28 । `कालः संख्या च न परिमाणम्` इति। न हि ताभ्यामारोहतः परिणाहतश्च मीयते। ज्ञापकाच्च न तयोः परिमाणत्वमवसीयते। यदयं `परिमाणान्तस्यासंज्ञाशाणयोः` 7|3|17 इति सिद्धायामुत्तरपदवृद्धौ `संख्यायाः संवत्सरसंख्यस्य च` 7|3|15 इति संख्यासंवत्सरग्रहणं करोति, तज्ज्ञापयति--कालः संख्या च न परिमाणं भवतीति। विस्तादि च परिमाणविशेष एव ग्रहीतव्यः। अतो वृत्तिग्रन्थः-- परिमाणार्थं ग्रहणमिति। काण्डस्य वा परिमाणत्वे तूत्तरसूत्रेण नियमार्थता न विरुध्यते। यद्येवं `कालाः परिमाणिना` 2|2|5 इत्यत्र सामथ्र्यात् परिमाणवचनाः कालशब्दाः समस्यन्त इति यदुक्तं तद्विरुध्यते? नास्ति विरोधः; उपचारेण तथान्यत्र परिमाणिवाचिना सुबन्तेनाभिधानात्। इह हि मुख्यं कालस्य परिमाणत्वे निषिध्यते। तत्र ह्रौपचारिकं कालस्य परिमाणत्वमाश्रित्य परिमाणवचनाः कालशब्दा इत्युक्तम्-- कालाः परिमाणनेति ब्राउवता। परिमाणवचनत्वं कालशब्दानामुपयुक्तं भवति,न हि तेन विना परिमाणापेक्षयोत्तरपदस्य परिमाणिव्यपदेश उपपद्यते। न च कालस्य मुख्यं परिमाणत्वमस्ति। अतः सामथ्र्यादौपचारिकं परिमाणत्वमाश्रितमिति गम्यते। उपचारस्य हेतुः परिच्छेदस्य हेतुत्वमात्रम्, परिमाणस्य साधम्र्यम्। कालो हि मासादिर्जातादिसमबन्धिनीमादित्यगतिं गमयतीति भवति परिच्छेदस्य हेतुः। अतः परिमाणसाधम्र्यादुपपद्यते, तत्र च परिमाणोपचारः। `द्विवर्षा, त्रिविर्षा` इति। द्वे वर्षे भूतेति `समधीष्टो भृतो भूतो भावी` 5|1|79 इत्यनेन विहितस्य ठकः `वर्षाल्लुक्` 5|1|87 इति लुक् पाक्षिकः। चित्तवत्त्वे तु प्रत्ययार्थस्य विवक्षिते `चित्तवति नित्यम्` 5|1|88 इति नित्यमेव लुक्। द्वे वर्षे प्रमाणमस्या इति `प्रमाणे लो द्विगोर्नित्यम्` (वा।558,559) इति नित्यमेव लुक्। `द्विशता, त्रिशता` इति। द्वाभ्यां शताभ्यां क्रीतेति `पणपादमाषसशताद्यत्` 5.1.34) इति यति प्राप्ते `शाणाद्वा` 5|1|35 इत्यत्रोपसंख्यानम्-- `शताच्चेति वक्तव्यम्`(वा। 510) इति। तेन शतसशब्दात् पक्षे `संख्याया अतिशदन्तायाः कन्` 5|1|22 इति कन्,तस्य पूर्ववल्लुक्।`द्विविस्ता`इति। द्वौ बिस्तौ पचति। `सम्भवत्यवहरति पचति` 5|1|51 इत्यनेनार्हीयष्ठक्, तस्य पूर्ववल्लुक्। द्वावाचितौ पचति `द्व्याचिता`। `आढकाचितपात्रात्सखोऽन्यतरस्याम्` 5|1|52 इति वत्र्तमाने `द्विगोः ष्ठंश्च` 5|1|53 इति ष्ठन्, तस्य पूर्वल्लुक्। द्वाभ्यां कम्बल्याभ्यां क्रीता `द्विकम्बल्या`। `तेन क्रीतम्` 5|1|36 इति ठक्,तद्वदेव। लुक्।`द्व्याढकी` इति। द्वावाढकौ पचति। `आढकाचितपात्रात्खोऽन्यतरस्याम्` 5|1|52 इति वत्र्तमाने `द्विगोः ष्ठंश्च` 5|1|53 इतिपक्षे ष्ठन्, तस्या लुक्। `पञ्चाआई` इति। पूर्ववत् समाहारे द्विगुः।इहेमौ द्वौप्रतिषेधावुच्येते, तत्रैकः शक्यमकर्त्तुम्। कथम्? एवं सूत्रन्यासः करिष्यते-- परिमाणान्तातद्धितलुकीति। पूर्वेणैव सिद्धे नियमार्थमेतत्-- परिमाणान्तादेव तद्धितलुकि ङीब्भवति, नान्यस्मात्। तेन द्व्याढकीत्यादावेव भवति, न पञ्चाओत्यादौ;ततो विस्ताचितकम्बल्येभ्यो न तद्धितलुकीत्यनुवत्र्तते,बिस्तादिभ्यः परिमाणेभ्योऽपि तद्धितलुकि ङीब्न भवतीति? नैवं शक्यम्; विपरीतोऽपि नियमः सम्भाव्येत--परिमाणान्तात् तद्धितलुक्येवन भवति, नान्यत्रेति। ततश्च द्वयोः कुडवयोः समाहारो द्विकुडवीत्त्र न स्यात्। तस्माद्यथान्यासमेवास्तु॥
परसप्तमी त्वषा नोपपद्यते, अभावरूपेण लुका पौर्वापर्यासम्भवात् । सर्वतो मानं परिमाणमिति । ठ्परिमाणं तु सर्वतःऽ इत्यस्य ग्रहणम्, न परिच्छेदकमात्रस्येत्यर्थः । पञ्चमिश्वैः क्रीतेति । तद्धितार्थे द्विगुः, आर्हीयष्ठक् । कालः सङ्ख्या च न परिमाणमिति । न हि ताभ्यां सर्वत आरोहतः परिणाहतश्च मीयते । एवं च कालः सङ्ख्या चेति प्रदर्शनार्थत्वात्प्रमाणमपि परिमाणं न भवति, तथा चोतरसूत्रे ठ्काण्डशब्दस्यापरिमाणवाचित्वात्ऽ इति वक्ष्यति, ठ्प्रमाणविशेषः काण्डम्ऽ इति च । तेन द्वौ शमौ प्रमाणमस्या इति मात्रचः ठ्प्रमाणे लो द्विगोर्नित्यम्ऽ इति लुकि द्विशम्, त्रिशमेति भवति । यद्येवम्, उन्मानमपि परिमाणं न स्यात् ? कश्चिदाह---इष्टमेवैतत्, उन्मानमपि नैवात्र परिमाणग्रहणेन गृह्यते---द्वाभ्यां निष्काभ्यां क्रीता, प्राग्वतीयस्य ठञोः ठ्द्वित्रिपूर्वान्निष्कात्ऽ इति लुक्, द्विनिष्का त्रिनिष्वेति भवतीति । अपर आह---बिस्तकम्बल्यग्रहणं ज्ञापकम्---उन्मानमप्यत्र परिमाणग्रहणेन गृह्यत इति; तयोरुन्मानविशेषत्वात्, सुवर्णबिस्तौ हेस्नोऽक्षे, ठ्कम्बलाच्च संज्ञायाम्ऽ कम्बल्यमूर्णापलशतमिति । न्यासकारस्तु द्वौ विस्तौ परिमाणमस्येति विगृह्णन् बिस्तं परिमाणं मन्यते । द्विवर्षेति । कृतव्युत्पादनमेतत् । द्विशता, त्रिशतेति । द्वाभ्यां शताभ्यां क्रीतेति ठ्पणपादमाषशताद्यत्ऽ इति नित्ये यति प्राप्ते ठ्शाणाद्वाऽ इत्यत्र ठ्शताच्चेति वक्तव्यम्ऽ इति वचनात्पक्षे ठ्सङ्ख्याया अतिशदन्तायाः कन्ऽ इति कन्, तस्य ठध्यर्धपूर्वात्ऽ इति लुक् । द्विबिस्तेति । परिमाणत्वे ठञो लुक्, उन्मानत्वे ठकः । द्व्याचितेति । आचितो दशभाराः स्युः । द्वावाचितौ पचति, ठाढकाचितपात्रात्खोन्यतरस्याम्ऽ, ठ्द्विगोष्ठ्ंअश्चऽ इति पक्ष ठन्खौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ्, तस्य पूर्ववल्लुक् । द्विकम्बल्येति । क्रीतार्थे ठञो लुक् । द्व्याढकी द्व्याचितेत्यनेन तुल्यम् । पञ्चाश्वीति । समाहारे द्विगुः । इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्, कथम् ? एवं वक्ष्यामि---परिमाणान्तातद्धितलुकीति, तन्नियमार्थं भविष्यति---परिमाणान्तादेव तद्धितलुकि ङीब् भवतीति, तेन द्व्याढकीत्यादौ च भविष्यति, पञ्चाश्वेत्यादौ च न भविष्यति, ततो बिस्ताचिकम्बल्येब्योनेति ? नैवं शक्यम् ; विपरीतोऽपि नियमः सम्भाव्येत---द्विकुडवी, पञ्चाढकी । पञ्चाश्वेत्यादौ तु व्यावर्तकाभावात्स्यादेव डीप् । तस्माद्यथान्यासमेवास्तु ॥
सिद्धान्तकौमुदी
अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । अध्यर्ध (कौमुदी-1693) इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि - तदाह-अपरिमाणान्तादित्यादिना । अपरिमाणान्तमुदाहरति-पञ्चभिरिति । तद्धितलुकं दर्शयति-आर्हीयष्ठक्, अध्यर्धेति लुगिति । पञ्चभिरऔः क्रीतेति विग्रहे "तद्धितार्थ" इति द्विगुः ।आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठ॑गित्यधिकारेतेन क्रीत॑मिति ठक्,अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञाया॑मिति तस्य लुक् । अत्र "द्विगोः" इति ङीप् न भवति, अपरिमाणान्तद्विगुत्वात् । नन्वत्रद्विगो॑रिति प्राप्तङीब्निषेधेऽपिटिड्ढाण॑ञिति ठग्निमित्तको ङीब् दुर्वारः । द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्रसङ्ख्याया अतिशदन्तायाः॑ इति कनःअध्यर्धे॑ति लुकिअपरिमाणे॑ति निषेधस्य चरितार्थत्वादिति चेत्सत्यम्,टिड्ढाण॑ञित्यत्र प्रत्यासत्त्या टिड्ढाणञादीनां यो ।ञकारस्तदन्तमिति विवक्षितम् । पञ्चाआशब्दश्चायं ठगवयवाकारान्तो न भवतीति न दोषः । नच प्रत्ययलक्षणेन ठगवयवाकारान्तत्वं शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात् । विस्तादिशब्दानां तु परिमाणविशेषवाचित्वात्अपरिमाणे॑त्यनेनाऽप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति ।सुवर्णबिस्तौ हेम्नोऽक्षे॑ इत्यमरः ।गुञ्जाः पञ्च-आद्यमाषकः । ते षोडश अक्ष इति च । गुञ्जापञ्चकं माषपरिम#आणम् । माषषोडशकम् अक्षपरिमाणम्, तच्च अशीतिगुञ्जात्मकम् तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णबिस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे "तद्धितार्थ" इति द्विगुः ।सम्भवत्यवहरतिपचती॑ति ठक्, तस्य "अध्यर्धे" ति लुक् ।द्विगो॑रिति ङीपि प्रितषिद्धे सति टापि-॒द्विबिस्ता मूषा॑ । द्विबिस्त परिमाणकहिरण्यं द्वावयतीत्यर्थः । पचिरिह द्रावणे द्रष्टव्यः । द्व्याचितेति । "आचितो दश भाराः" इत्यमरः ।तुला स्त्रियां पलशतं भारः स्यादिंवशतिः पुमा॑निति च । द्वावाचितौ वहतीत्यर्थेआढकाचिढपात्रात्खोऽन्यतरस्याम्द्विगोष्ठं श्च॑ इति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति तस्य लुक् । अनेन "द्विगोः" इति ङीपि निषिद्धे टापि-॒द्व्याचिता शकटी॑ । द्विकम्बल्येति । कम्बलस्य प्रकृतिभूतं द्रव्यं कम्बल्यम् ऊर्णापलशतं ।तदर्थं विकृतेः प्रकृतौ॑ इत्यर्थेकम्बलाच्च संज्ञाया॑मिति यत् । द्वाभ्यां कम्बल्याब्यां क्रीतेति विग्रहेतेन क्रीत॑मिति ठञःअध्यर्द्धे॑ति लुक्,द्विगो॑रिति ङीपि अनेन प्रतिषिध्दे टाप् । नन्वत्र ।न तद्दितलुकी॑त्येवास्तु । तावतैव पञ्चभिरऔः क्रीता पञ्चाओति सिद्धेःअपरिमाणे॑ति मास्तु । एवंच द्विबिस्ता द्व्याचिता द्विकम्बल्येत्यपि सिद्धे विस्तादिग्रहणमपि मास्त्वित्यत आह — परिमाणान्तात्त्विति ।गुञ्जाः पञ्च तु माषः स्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम्॥ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः॥॑ इति स्मृतिः । द्वावाढकौ पचतीति विग्रहेआढकाचितपात्रात्खोऽन्यतरस्यां॒॑द्विगोष्ठंश्चे॑ति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति लुक् । "द्विगोः" इति ङीप् । द्व्याढकीति रूपम् ।न तद्धितलुकी॑त्येवावत्येवोक्तेऽत्रापि ङीपो निषेधः स्यात् । अतोऽपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्ते द्विबिस्तेत्यादौ परिमाणत्वान्ङीब्निषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति ।
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि - पञ्चाओति । नन्वत्रद्विगो॑रिति ङीब्माभूत्, ठगन्तत्वात्तु स्यादेव । न चअपरिमाणे॑ति निषेधस्यनिरवकाशतेति वाच्यम्, पञ्चानामजानां निमित्तं धनपतिसंयुक्तिःपञ्चाजा॑पञ्चोष्ट्रे॑त्यादौसावकाशत्वात् । तत्र हिगोद्द्यचोऽसङ्ख्ये॑ति यत्प्रत्ययस्यअध्यर्धपूर्वे॑त्यादिना लुगिति चेदत्राहुः — ॒ठको योऽकार॑ इति व्याख्यानाट्ठगन्तलक्षणो ङीब्नेति । द्विबिस्तेति ।सुवर्णबिस्तौ हेम्नोऽक्षे॑इत्यमरः ।आचितो दश भाराः स्युः॑ । द्विकम्बल्येति । द्वाभ्यां कम्बल्याभ्यां क्रीता । कम्बल्यम् — -ऊर्णापलशतम् ।कम्बलाच्च संज्ञाया॑मिति यत् । ततः क्रीतार्थस्य ठञो लुक् । ह्रढकीति । द्वावाढकौ पचतीति विग्रहेआढकाचितपात्रात्खोऽन्यतरस्याम्,द्विगोष्ठंश्चे॑ति खठनौ विहितौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ् । तस्यअध्यर्द्धे॑ति लुक् । एतेनद्द्याचिता॑व्याख्याता । स्यादेतत् — -॒काण्डान्ता॑दित्युत्तरसूत्रेपरितः सर्वतो येन मीयते तत् — परिमाणमाढककुडवादि, न तु परिच्छेदकमात्र॑मिति मनोरमायां स्थितम् । तथा चाऽपरिमाणत्वादेव सिद्धे बिस्तादिग्रहणमिह व्यर्थं स्यात् । अत्राहुः — ॒उन्मानस्य निषेदे बिस्तादीनामेवे॑ति नियमार्तं तद्ग्रहणं, तेनद्विकार्षापणी॒॑द्द्यक्षी॑त्यादी सिध्यतीति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (1294) (निषेधाधिकरणम्) (योगविभागेन सूत्रांशप्रत्याख्यानभाष्यम्) इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्। कथम्? एवं वक्ष्यामि ‐ परिमाणान्तात्तद्धितलुकि ङीब्भवतीति। तन्नियमार्थं भविष्यति ‐ परिमाणान्तादेव तद्धितलुकि ङीब् भवति, नान्यत इति।। ततो बिस्ताचितकम्बल्येभ्यो नेति। तद्धितलुकीत्येव।।