Page loading... Please wait.
4|1|21 - द्विगोः
॥ तस्मै पाणिनये नमः ॥
4|1|21
SK 479
द्विगोः  
सूत्रच्छेदः
द्विगोः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्विगुसंज्ञकात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। पञ्चपूली। दशपूली। कथं त्रिफला? अजादिषु दृश्यते।
`पञ्चपूली` इति। पञ्चानां पूलानां समाहार इति। `तद्धितार्थोत्तरपदसमाहारे च` 2|1|50 इति समाहारद्विगुः। `अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाष्यते` (वा। 156) इति स्त्रीलिङ्गता।`त्रिफला` इति। त्रयाणां फलानां समाहार इति। पूर्ववद् द्विगुः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अदन्तात् द्विगोर्ङीप् स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥
द्विगोः - द्विगोः ।स्त्रिया॑मिति "अत" इति "ङी" बिति चानुवर्तते । तदाह-अदन्तादिति । त्रिलोकीति । त्रयाणां लोकानां समाहार इति विग्रहः ।तद्धितार्थोत्तरपदसमाहारे चे॑ति द्विगुसमासः ।अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीत्वम् । त्रिलोकशब्दाट्टाबपवादो ङीप् ।यस्येति चे॑ति भावः । ननु त्रिफला त्र्यनीका इत्यत्रापि ङीप् प्राप्नोतीत्यत आह — अजादित्वात्रिफला त्र्यनीकेति ।भवती॑ति शेषः । त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे "तद्धितार्थ" इति द्विगुः । "अकारान्तोत्तरपदः" इति स्त्रीत्वम्, "द्विगोः" इति ङीपं बाधित्वाऽजादित्वाट्टाबिति भावः । अनीकशब्द ऐन्द्रवायवाग्रत्वे शुकाग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः । अपरिमाण । "द्विगोः" इति ङीबिति चानुवर्तते । प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते । तदन्तविधिः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.