॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|2
SK 183
4|1|2
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌  
SK 183
सूत्रच्छेद:
सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1]
सम्पूर्णसूत्रम्
सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् ङ्याप्प्रातिपदिकात् प्रत्यय: परश्च
सूत्रार्थ:
ङ्यन्तात्, आबन्तात्, प्रातिपदिकान्तात् च सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् एते प्रत्ययाः भवन्ति ।
अनेन सूत्रेण एकविंशति प्रत्ययाः दीयन्ते । एतेषामेव सामुहिकं नाम "सुप्-प्रत्ययाः" इति ।
सुप्-तिङन्तं पदम्1|4|14 इत्यनेन एतेषु कोऽपि प्रत्ययः यस्य शब्दस्य अन्ते आगच्छति, सः शब्दः "पद"संज्ञां प्राप्नोति । यथा - "राम" (प्रातिपदिकम्) + सुँ (प्रत्ययः) = रामः (पदम्) । अतः एतेषां सु्प्-प्रत्ययानां योजनेन "पदनिर्माणं भवति" इत्युच्यते ।

एते एकविंशतिः प्रत्ययाः सुपः 1|4|103 इत्यनेन क्रमेण सप्तवारम् एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति । इत्युक्ते - सुँ = एकवचनम् , औ = द्विवचनम् , जस् = बहुवचनम् , अम् = एकवचनम् , औट् = द्विवचनम्, शस् = बहुवचनम् ... आदयः ।

एतेषां प्रत्ययानाम् विभक्तिश्च 1|4|104 इत्यनेन विभक्तिसंज्ञा भवति । आचार्येण तेषां विधानम् "प्रथमा, द्वितीया, ... सप्तमी" अनेन क्रमेण कृतम् अस्ति । इत्युक्ते, प्रथमाः त्रयः प्रत्ययाः (सुँ-औ-जस्) प्रथमाविभक्तिः नाम्ना ज्ञायते । अग्रिमाः त्रयः प्रत्ययाः (अम-औट्-शस्) द्वितीयाविभक्तिः नाम्ना ज्ञायते । अनेनैव प्रकारेण सर्वाः विभक्तयः त्रीन् त्रीन् प्रत्ययान् स्वीकुर्वन्ति । एतादृशम् विभक्ति-वचन विभाजनेन प्रत्येकस्य प्रत्ययस्य विशिष्टः उल्लेखः भवितुम् अर्हति । यथा - प्रथमा-एकवचनस्य प्रत्ययः "सुँ", द्वितीया-बहुवचनस्य प्रत्ययः "शस्" - आदयः ।

एतेषु प्रत्ययेषु केचन वर्णाः इत्संज्ञकाः सन्ति । यथा -
- उपदेशेऽजनुनासिक इत् 1|3|2 इत्यनेन सुँ इत्यस्य उकारः तथा ङसिँ इत्यस्य इकारः इत्संज्ञां प्राप्नुतः ।
- हलन्त्यम् 1|3|3 इत्यनेन औट्-इत्यस्य टकारः तथा सुप्-इत्यस्य पकारः इत्संज्ञां प्राप्नुतः । तथा च, न विभक्तौ तुस्माः 1|3|4 इत्यनेन जस् / शस् प्रत्यययोः अन्तिमसकारस्य इत्संज्ञा निषिध्यते ।
- चुटू 1|3|7 इत्यनेन जस् इत्यस्य जकारः, टा इत्यस्य टकारः ङे/ङसिँ/ङस्/ङि एतेषाम् ङकारः इत्संज्ञां प्राप्नुवन्ति ।
- लशक्वतद्धिते 1|3|8 इत्यनेन शस्-इत्यस्य शकारः इत्संज्ञां प्राप्नोति ।

सर्वेषाम् इत्संज्ञकवर्णानाम् प्रक्रियासमये तस्य लोपः 1|3|9 इत्यनेन लोपः भवति ।

एतेषां सर्वेषाम् प्रत्ययानाम् आदिस्वरः अनुदात्तौ सुप्-पितौ 3|1|3 इत्यनेन अनुदात्तसंज्ञकः भवति ।
One-line meaning in English
The प्रत्यया: - सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् get attached to a ङ्यन्त, आबन्त and a प्रातिपदिकान्त.
काशिकावृत्तिः
ङ्याप्प्रातिपदिकात् 4|1|1 इत्यधिकृतम्। ङ्याप्प्रातिपदिकात् स्वादयः प्रत्यया भवन्ति। उकारादयो ऽनुबन्धा यथायोगम् उच्चारणविशेषणार्थाः। औटः टकारः सुटिति प्रत्याहारग्रहणार्थः। पकारः सुपिति प्रत्याहारार्थः। सङ्ख्याकर्मादयश्च स्वादीनाम् अर्थाः शास्त्रान्तरेण विहितास् तेन सह अस्य एकवाक्यता। ङ्यन्तात् तावत् कुमारी। गौरी। शार्ङ्गरवी। ङीब्ङीष्ङीनां क्रमेण उदाहरणम्। कुमारी, कुमार्यौ, कुमार्यः। कुमारीम्, कुमार्यौ, कुमारीः। कुमार्या, कुमारीभ्याम्, कुमारीभिः। कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमार्योः, कुमारीणाम्। कुमार्याम्, कुमार्योः, कुमारीषु। एवं गौरी, शार्ङ्गरवी चोदाहार्ये। आपः खल्वपि खट्वा। बहुराजा। कारीषगन्ध्या। टाब्डाप्चापां क्रमेण उदाहरणम्। खट्वा, खट्वे, खट्वाः। खट्वाम्, खट्वे, खट्वाः। खट्वया, खट्वाभ्याम्, खट्वाभिः। खट्वायै, खट्वाभ्याम्, खट्वाभ्यः। खट्वायाः, खट्वाभ्याम्, खट्वाभ्यः। खट्वायाः खट्वयोः, खट्वानाम्। खट्वायाम्, खट्वयोः, खट्वासु। एवं बहुराजाकारीषगन्ध्ये च उदाहार्ये। एवं प्रातिपदिकात् दृषद्, दृषदौ, दृषदः। दृषदम्, दृषदौ, दृषदः। दृषदा, दृषद्भ्याम्, दृषद्भिः। दृसदे, दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषदोः, दृषदाम्। दृषदि, दृषदोः, दृषत्सु।
`उकारादवोऽनुबन्धाः` इत्यादि। तत्र प्रथमैकवचनस्योकार उच्चारणार्थाः। `अनहसौ` 7|1|93 इति विशेषणार्थः कस्मान्न विज्ञायते? व्यावत्र्याभावात्। जसो जकारोऽसन्दिग्धोच्चारणार्थः, असति हि तस्मिन्नौकारस्यावादेशे कृते सन्देहः स्यात्-- कीदृशस्य प्रत्ययस्योच्चारणमिति, तत्र व्याख्यानं कत्र्तव्यमापद्यते। अथ `जसः शी` 7|1|17 इत्यत्र विशेषणार्थः कस्मान्न विज्ञायते? `असः शी` (इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्। `औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः` इति। वृत्तौ त्वेष ग्रन्थो नास्ति; भवितव्यं त्वनेन। लेखकप्रमाददोषादिदानीमन्तर्हितः। शसः शकार औटष्टकारस्य `खरि च` 8|4|54 इति चर्त्वेनासन्दिग्धोच्चारणार्थः। शकारः सन्देहनिरासार्थः, इतरथा ह्रौडसित्युच्यमाने सन्देहः स्यात्-- किं टकारस्येदमुच्चारणम्, उत डकारस्येति?तत्र डकारोच्चारणाट्टिलोपः स्यात्। ननु च सत्यपि शकारे भवितव्यमेव सन्देहेन-- किमिदं कृतचत्र्वस्य डकारस्योच्चरणम्?टकारस्य वेति? नैतदस्ति; यदि हि डकारस्य स्यात्, शकारोच्चारणमनर्थकं स्यात्। अथ `तस्माच्छसो नः पुंसि` 6|1|99 इति तत्र विशेषणार्थः `टाङसिङसामिनात्स्याः` 7|1|12 इत्यत्र। `सुपां सुलुक्` 7|1|39 इत्यादौ सुपां सुलुक् पूर्वसवर्ण आ आत् शे इत्याकारप्रश्लेषः, तत्रासति टकारे तस्यापि ग्रहणं स्यात्। `संख्याकर्मादयश्च` इत्यादि। संख्या स्वादीनामर्थे विहिता `बहुषु बहुवचनम्` 1|4|21 इत्यादिना शास्त्रान्तरेण। कर्मादयश्च `कर्मणि द्वितीया` 2|3|2 इत्येवमादिना। `तेन सहास्यैकवाक्यता` इति। कर्मणि बहुत्वे बहुवचनं शस्। कर्मणि द्वित्वैकत्वयोद्विवचने औडमौ। एवमन्यत्राप्येकवाक्यता वेदितव्या।यदि तर्हि तेन सहास्यैकवाक्यता , तदा युक्तं `बहुषु बहुवचनम्` 1|4|21 इत्यत्र -- `यत्र च संख्या सम्भवति तत्रायमुपदेशः, अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव` इति, तद्विरुध्यते, एकवाक्यतायां हि विशिष्ट एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात् सामान्यविहितत्वं नोपपद्यते।यदपीदं तत्रोक्तम्- `ङ्याप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वसंख्यावाच्यत्वेन विधीयते` इति, तदपि विरुध्यत एव; न ह्रेकवाक्यतायां विहितस्य बहुवचनस्य पश्चाद्बहुत्वसंख्याय वाच्यत्वेन विधानं युक्तम्। तेन शास्त्रान्तेणानेन च संहत्य बहुत्वसंख्यायामेव बहुवचनविधानात् पूर्वकस्तावन्नास्ति विरोधः। एकवाक्यतायामपि हि यथा स्वादीनां सामान्येन विधानमुपपद्यते तथा `बहुषु बहुवचनम्` 1|4|21 इत्त्रैव प्रतिपादितम्। योऽपि द्वितीयो विरोध उद्भावितः सोऽपि न भवत्येव; ह्राप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितमिति `बहुषु बहुवचनम्` 1|4|21 इत्यनेन सैहकवाक्यतामापन्नेनेत्ययं तत्राभिप्रायो वेदितव्यः। तस्यानेन सूत्रेण बहुत्वसंख्या वाच्यत्वेन विधीयत इत्यत्रापि स्वादिसूत्रेण 4|1|2 `लस्य` 3|4|77 इत्यादिना च शास्त्रेण सहैकवाक्यतां प्रतिपन्नेनेत्येषोऽभिप्रायो द्रष्टव्यः। एवञ्च संहत्यैव बहुवचनं विहितम्। संहत्यैव च तस्य बहुतवसंख्या वाच्यत्वेन विधीयत इति कुतो विरोधः; ननु च `बहुवचनम्` 1|4|21 इत्येकमिदं शास्त्रम्, तस्य दि स्वादिसूत्रेणै 4|1|2 कवाक्यता, ततो `लस्य` 3|4|77 इत्यादिना शास्त्रान्तरेण सा नोपपद्यते? अथ तेनैकवाक्यता, स्वादिसूत्रेण 4|1|2 सा नोपपद्यते? नैव दोषः; द्वे ह्रेते वचने तन्त्रोच्चारिते, तत्रैकस्य स्वादिसूत्रेणैकवाक्यता, अपरस्य `लस्य` 1|4|21 इत्यादिना शास्त्रान्तरेण।अथ वा-- अन्यथा विरोधाभावः प्रतिपाद्यते। इह हि स्वादयोऽनेन सूत्रेण `कर्मणि द्वितीया` 2|3|2 इत्येवमादिकं शास्त्रमनपेक्ष्य वा विधीयेरन्? तद्वापेक्ष्य तेन सहैकवाक्यतामापन्ने ते? इति द्वौ पक्षौ। तत्राद्ये पक्षेऽविशेषेणैव स्वादयो विधीयन्त इति, तथा विहितानां तु तेषां नियमः क्रियते-- यत्र संख्या सम्भवति तत्रासौ बहुषु बहुवचनम्` 1|4|21 इत्यादिना शास्त्रान्तरेण कर्मादिसम्बन्ध्येकत्वादिसंख्यावाच्यत्वेन विधीयते, यानि तु निःसख्यान्यव्ययानि तेब्यः सामान्यविहिताः स्वादय सन्तीत्येव। द्वितीये तु पक्षे विशिष्ट एवार्थे कर्मादिसम्बन्धिनि बहुत्वादौ स्वादयो विधीयन्ते। तत्र `बहुषु बहुवचनम्` 1|4|21 इत्याद्यः पक्ष आश्रितः, इह तु द्वितीय इति नास्ति विरोधः; पक्षान्तरमाश्रित्य तथाऽभिधानात्। अथ द्वितीये पक्षे कथमव्ययेभ्यः सुबुत्पत्तिः, न ह्रेकवाक्यतायां संक्याकर्माद्यर्थरहितेभ्यः स्वाद्युत्पत्तिरुपपद्यते? नैष दोषः; ज्ञापकाद्भविष्यति। यदयं `अव्ययादाप्सुपः` 2|4|82 इत्यव्ययादुत्पन्नस्य सुपो लुकं शास्ति, तज्ज्ञापयति-- भवत्यव्ययाद्विभक्त्युत्पत्तिरिति। `कुमारी` इति। `वयसि प्रथमे` 4|1|20 इति ङीप्। `गौरी` इति। `षिद्गौरादिभ्यश्च` 4|1|41 इति ङीष्। `शाङ्र्गरवी` इति `शाङ्र्गरवाद्यञो ङीन्` 4|1|73 । `खट्वा` इति। `अजाद्यतष्टाप्` 4|1|4 इति टाप्। `बहूराजा` इति। `डाबुभाभ्यामन्यतरस्याम्` 4|1|13 इति डाप्। `कारीवगन्ध्याः` इति। करीषस्य गन्ध इव गन्धो यस्येति। `गन्धस्येदुत्पूतिसुसुरभिभ्यः` 5|4|135 , `उपमानाच्च` 5|4|137 इतीत्त्वम्। करीषगन्धेरपत्यमिति `यस्येति च` 6|4|148 इत्यकारलोपः,`तद्धितेष्वचामादेः` 7|2|117 इत्यादि वृद्धिः,`अणिञोरनार्षयोर्गुरुपोत्तमयोः` 4|1|78 इत्यादिना ष्यङादेशः, `यङश्चाप्` 4|1|74 इति चाप्॥
उकारादयोऽनुबन्धा इत्यादि । तत्र प्रथमैकवचनस्योकारः ठेततदोः सुलोपःऽ, ठ्दीर्घात्सुतिसिऽ इत्यत्र केवलस्य व्यञ्जनस्योच्चारयितुमशक्यत्वादुच्चारणार्थः । अत्र तु सूत्रे औकारोपश्ले षाच्छक्यते सकारमात्रमुच्चारयितुम् । ठनङ्सौऽ इत्यत्र विशेषणार्थस्तु न भवति; व्यावर्त्यस्याभावात् । न च ठनङसिऽ इत्युच्यमाने वर्णनिर्देशे च तदादिविधिसम्भवात्सप्तमीबहुवचनेऽपि प्रसङ्गः; ठ्सर्वनामस्थानेऽ इत्यनुवृतेः । जसो जकारोऽस्मिन्नेव सूत्रेऽसन्दिग्धोच्चारणार्थः; अन्यथा ह्याइकारस्यावादेशे सन्देहः स्यात्---किमौकारस्योच्चारणम्, अथावित्यस्येति । ठ्जसः शीऽ इत्यादौ विशेषणार्थस्तु न भवति; ठसः शीऽ इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्, शसादीनां सानुबन्धकत्वात् । शसश्शकार औटष्टकारस्यासन्दिग्धोच्चारणार्थः; अन्यथा डकारष्टकार इति सन्देहः स्यात्। ठ्तस्माच्छसःऽ इत्यादौ विशेषणार्थस्तु न भवति; जसादीनां सानुबन्धकत्वात् । ठ्टाऽ इत्यत्र टकारः ठ्टाङसिङसामिनात्स्याःऽ इति विशेषणार्थः; अन्यथा ठ्सुपां सुलुक्ऽ इत्यादिना विहितस्याकारस्यापि ग्रहणं स्यात् । तदेवमेषां चतुर्णामुकारादय उच्चारणविशेषणार्थाः । इत्संज्ञाप्येषां प्रयोगे श्रवणं मा भूदिति, न पुनरित्कार्यं किञ्चिदस्ति । औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः । णेóप्रभृतिषु ङ्कारः ठ्घेर्ङितिऽ इति विशेषणार्थः । ङ्सेरिकारः ठ्युष्मदस्मद्भां ङ्सोऽश्ऽ इत्यत्र ग्रहणं मा भूदित्येवमर्थः । पकारः प्रत्याहारग्रहणार्थ इति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्था इत्यनेनागतार्थत्वादिदमुक्तम् । एवं च---ठौटष्टकारः सुडिति प्रत्याहारार्थःऽ इत्यग्रिमग्रन्थेन भवितव्यम् । क्व पुनरिमेऽर्थे स्वादयो भवन्तीत्याह---संख्याकर्मादयश्चेति । शास्त्रान्तरेणेति । ठ्बहुषु बहुवचनम्ऽ, ठ्कर्मणि द्वितीयाऽ इत्यादिना । तेन सहास्यैकवाक्यतेति । पूर्वं त्ववान्तरवाक्यभेदापेक्षया शास्त्रान्तरेणेत्युक्तम् । आकांक्षायोग्यतावशेन भिन्नप्रकरणपठितानामप्येकवाक्यता भवत्येव । प्रकरणभेदेन तु पाठस्तिङदिविधिनाप्येकवाक्यत्वं यथा स्यादिति । ठ्बहुषु बहुवचनम्ऽ इत्यत्र तु भिन्नवाक्यत्वमाश्रित्योक्तम्-ङ्याप्प्रतिपदिकात्स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वं संख्यावाच्यत्वेन विधीयते इति । अव्ययेयस्तु निः संख्येभ्यः सामान्यविहिताः खादयो विद्यन्त एवेति च । एकवाक्यतायां तु विशिष्टे एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात्सामान्यविहितत्वं नोपपद्यते । तस्माद् ठव्ययादाप्सुपःऽ इत्यव्ययादुत्पन्नस्य सुपो लुग्विदानाल्लिङ्गादव्ययेभ्योऽस्मिन्पक्षे स्वाद्यौत्पतिः । उदाहरणानि यथायोगं स्वे स्वे वाक्ये प्रकटीकरिष्यन्ते ॥
सिद्धान्तकौमुदी
ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङ्स्योरुकारेकारौ जशटङपाश्चेतः ॥
स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् - स्वैजसमौट् । सु-औ-जस्, अम्-औट्-शस्, टा-भ्यां-भिस्, ङे-भ्यां-भ्यस्, ङसि-भ्यां-भ्यस्, ङस्-ओस्-आम्, ङि-ओस्-सुप् — इत्येकविंशतिः स्वादयः । समाहाद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । ङ्याप्प्रातिपदिकादित्यदिकृतं,प्रत्ययः॑,परश्चे॑ति च यथायथं च विपरिणम्यते । तदाह — ङ्यन्तादित्यादिना । सुङस्योरिति । सु-ङसि-इत्यनयोरुकारेकारौ, जस्-शस्-इत्यनयोर्जकारशकारौ, औट्-टा — इत्यनयोष्टकारः, ङे-ङसि-ङस्-ङि-इत्येतेषां ङकारः, "सुप्" इत्यस्य पकार इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः ।उपदेशेऽजनुनासिक इत्,चुटू॑, लशक्वतद्धिते॑, "हलन्त्यम्" इति सूत्रै॑रिति शेषः । इत्संज्ञायां च लोपः । तदुच्चारणफलं तु तत्र तत्र वक्ष्यते ।
स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् - स्वौजसमौट् । समाहारे द्वन्द्वः । सुङस्यौरिति । सोरुकारःअर्वणस्त्रसा॑वित्यत्र विशेषणार्थः ।असी॑त्युक्ते हि असकारादाक्त्यिर्थः स्यात् । तथा चवाजमर्वत्सु॑ इति न सिध्येत् । ङसेरिकारःटाङसिङसां॑ — ॒ङसिङयोः स्मात्स्मिनौ॑ इत्येतदर्थः । जश्शसोर्जकारशकारौजसः शी॑ तस्माच्छसौ नः॑ इत्यनयोर्विषयविभागार्थौ । [ननु] अन्यतरस्य निरनुबन्धकत्वमेवास्त्विति चेत्[न], जाकाराऽभावेऔ॑इत्यस्य आव् स्यात्, ततश्च प्रत्ययस्य वकारान्तता संभाव्येत । एवं शसः शकाराऽभावे औटो ङित्त्वं संभाव्येत, तथाचतेजसी॑ इत्यादौ टिलोपः स्यात् । अथवालिहा॑वित्यादौ ङित्त्वसामथ्र्यादभस्यापि टेर्लोपः संभाव्येत । औटष्टकारःसु॑डिति प्रत्याहारार्थः । टाटकारस्तुटाङसिङसां॑ — ॒द्वितीयाटौस्वेनः॑ इति विशेषणार्थः । एतेनआदिरन्त्येने॑ति सूत्रे काशिकाकारेण यदुक्तम्-॒अन्त्येनेति किम् ,सु॑डिति तृतीयैकवचनावयवेन मा भूत्-इति तत्परास्तम् । औटष्टकारस्यान्यार्थतया तेनैव संभवात्, प्रत्यासत्तेश्च । अतेव शब्दकौस्तुभे तत्रान्यदेव प्रयोजनमुक्तम् — ॒मध्यमेनेता सहित आदिस्तदुत्तरेषामपि ग्राहको मा भूदित्यन्त्येनेति ग्रहणम् । अन्त्येनेता सहितो मध्यमः पूर्वेषामपि मा भूदित्यादिग्रहणम्-इति । अमुमेवार्थं मनसि निधाय — ॒आद्यन्ताभ्यामवयवाभ्यामवयवी समुदाय आक्षिप्यते॑ — इति निष्कृष्टमुक्तं प्राक् । प्रकृतमनुसरामः — ङेप्रभृतीनां ङकारोघेर्ङिति॑ङेराम् — ॑ इति विशेषणार्थः । सुपः पकारस्तु प्रत्याहारार्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!