॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|19
SK 477
4|1|19
कौरव्यमाण्डूकाभ्यां च  
SK 477
सूत्रच्छेद:
कौरव्यमाण्डूकाभ्याम् - पञ्चमीद्विवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति। कुर्वादिभ्यो ण्ये कृते, ढक् च म्ण्डूकात् 4|1|119 इत्यणि च। यथाक्रमं टाब्ङीपोरपवादः। कौरव्यायणी। माण्डूकायनी। कथं कौरवी सेना? तस्य इदं विवक्षायाम् अणि कृते भविष्यति। कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम्। आसुरायणी। शैषिकेष्वर्थेषु इञ्श्च 4|2|112 इत्यणि प्राप्ते छप्रत्यय इष्यते। आसुरीयः कल्पः।
`कथं कौरवी`इति। कौरव्यशब्दादेवात्र हीब्विहित इति मन्यमानस्य प्रश्नः। कुरुशब्दादेवात्राणन्तान्ङीब्विहित इति दर्शयन्नाह--`तस्येदम्` इत्यादि।`कौरव्यमाण्डूकयोः` इत्यादि। कौरव्यमाण्डूकयोरनेन सूत्रेण यत्कार्यं विधीयते तस्यासुरेरप्युपसंख्यानम् = प्रतिपादनं कत्र्तव्यम्। आसुरेरपि ष्फः प्रतिपादयितव्य इति यावत्। तत्रेदं प्रतिपादनम्-- चकारोऽत्र क्रियते,स चानुक्तसमुच्चयार्थः तेनासुरिशब्दादपि ष्फो भविष्यतीति। `आसुरायणी`इति। असुरस्यापत्यमिति `अत इञ्` 4|1|95 , तदन्तात् ष्फः। `इञश्चेत्यणि प्राप्ते` इति। तत्र `प्रस्थोत्तरपदपलद्यादिकोपदादण्` 4|2|109 नेति योगविभागः कत्र्तव्यः, तेनासुरिशब्दादपि प्रतिषिद्धे `वृद्धाच्छः` 4|2|113 इति छ एव भविष्यति-- आसुरिणा प्रोक्त आसुरीयः कल्प इति॥
कौरव्यमाण्डूअकयोरित्यादि । अस्मिन्सूत्रे आसुरेरपि ग्रहणं कर्तव्यम् । आसुरिकौरव्यमाण्डूअकेभ्यश्चेति वक्तव्यमित्यर्थः । आसुरायणीति । ष्फस्य तद्धितत्वाद् ठ्यस्येति चऽ इति इञो लोपः । तदिदं तद्धितग्रहणमेव लिङ्गं भवति---आसुरेरपि ष्फ इति । यञादिष्वकारान्तेषु सवर्णदीर्घत्वेनापि रूपं सिद्धम् । शैषिकेषु चार्थोष्वति । आसुरीप्रसङ्गादिदमत्रोक्तम् ; अन्यथा द्विरासुरिग्रहणं कर्तव्यं स्यात् । आसुरीय इति । असुरस्यापत्यमासुरिः, तेन प्रोक्त आसुरीयः कल्प इति ॥
सिद्धान्तकौमुदी
आभ्यां ष्फः स्यात् । टाप्ङीषोरपवादः । कुर्वादिभ्यो ण्यः (कौमुदी-1175) । कौरव्यायणी । ढक् च मण्डूकात् (कौमुदी-1122) इत्यण् । माण्डूकायनी ॥ ।आसुरेरुपसङ्ख्यानम् (वार्तिकम्) ॥ आसुरायणी ॥
कौरव्यमाण्डूकाभ्यां च - कौरव्यमाण्डूकाभ्यां च । आभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति । कौरव्यशब्दाट्टापो माण्डूकशब्दान्ङीषस्चापवाद इत्यर्थः ।छ कौरव्यशब्दस्य यञन्तत्वान्माण्डूकशब्दस्य अणन्तत्वाच्च "ङीपोऽपवाद" इत्युचितमिति भ्रमं वारयितुमाह — कुर्वादिभ्य इत्यादिना । कौरव्यायणीति । कुरोरपत्यं स्त्रीति विग्रहः । "कुर्वादिभ्यो ण्यः" इति ण्यः । णकार इत्, "ओर्गुणः,"आदिवृद्धिः,गोत्रं च चरणैः सहे॑ति जातित्वेऽपि योपधत्वात्जातेरस्त्रीविषया॑दिति ङीषभावे टाप् प्राप्तः । तं बाधित्वा ष्फः, ष इत्, आयन्,यस्येति चे॑त्यकारलोपः । षित्त्वान्ङीष् ।यस्येति चे॑ति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः, तस्यापत्यं स्त्रीति विग्रहः ।ढक् च मण्डूका॑दित्यण्, आदिवृद्धिः, "यस्येति च,"गोत्रं च चरणैः सहे॑ति जातित्वान्ङीष् प्राप्तः, तं बाधित्वा ष्फः, ष इत्, आयन्, "यस्येति च," षित्त्वान्ङीष्,यस्येति चे॑ति भावः । "टाब्ङीपोरपवाद" इति पाठस्तु प्रामादिकः ।आसुरेरुपसङ्ख्यानमिति ।ष्फस्ये॑ति शेषः । आसुरायणीति । असुरस्यापत्यं स्त्रीति विग्रहः ।अत इञ्, आदिवृद्धिः, ष्फः, ष इत्ायन् ।यस्येति च॑ ।षित्त्वान्ङीष्,यस्येति च॑ । णत्वमिति भावः ।
कौरव्यमाण्डूकाभ्यां च - कौरव्य । टाम्ङीषोरिति योपधत्वेनजाति॑रिति तथापि तत्रङी॑बिति लेखकपर्माद एव । पारिभाषिकस्य पौत्रपर्भृतिगोत्रस्यैव जातित्वान्ङीषः प्राप्तिर्नेति मतान्तराभि प्रायेण वा तथोक्तमिति बोध्यम् । कौरव्यसाहचर्यान्माण्डूकशब्दोऽप्यपत्यपत्र्ययान्त एवेह गृह्रते न तुतस्येद॑मित्यणन्तः, तेनयद्यसौ कूपमाण्डूकि । तवैकावतिकः स्मय॑इति भट्टिप्रयोगः सिद्धः । तत्र हि मण्डूकस्येयं भार्येति विवक्षयातस्येद॑मित्यण् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कौरव्यमाण्डूकाभ्यां च (1293) (5148 सूत्रांशपूरकवार्तिकम्।। 1 ।।) - कौरव्यमाण्डूकयोरासुरेरुपसंख्यानम् - (भाष्यम्) कौरव्यमाण्डूकयोरासुरेरुपसंख्यानं कर्तव्यम् ‐ आसुरायणी। (5149 सूत्रांशपूरकवार्तिकम्।। 2 ।।) - छश्च - (भाष्यम्) छश्चेति वक्तव्यम् ‐ आसुरीयः कल्पः।।