॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|18
SK 476
4|1|18
सर्वत्र लोहितादिकतान्तेभ्यः  
SK 476
सूत्रच्छेद:
सर्वत्र - अव्ययम् , लोहितादिकतान्तेभ्यः - पञ्चमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
यञः इत्येव। पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम्। सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यः यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति। कतशब्दः स्वतन्त्रं यत् प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात् परः कपि कत इति , न प्रतिपदिकावयवः कुरुकतेति। लौहित्यायनी। शांसित्यायनी बाभ्रव्यायणी। कण्वात् तु शकलः पूर्वः कतादुत्तर इष्यते। पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्। प्रातिपदिकेष्वन्यथा पाठः, स एवं व्यवस्थापयितव्यः इति मन्यते। कतन्तेभ्यः इति बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्यो गोत्रे 4|2|111 इति। तत्र तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयम् अपि प्रतिपद्यते। शाकल्यायनी। शाकल्यस्य इमे छात्राः शाकलाः।
`स्वतन्त्रम्` इति। यो ह्रन्यस्यावयवभूतो न भवति केवलः कतशब्दस्तत् स्वतन्त्रं प्रातिपदिकम्। यस्तु कुरुकतशब्दस्यावयवः कतशब्दस्तस्य स्वान्तन्त्र्यं नास्ति; समुदायप्रतिबद्धत्वात्। कः पुनरसौ कतशब्दः स्वतन्त्रं प्रातिपदिकमित्यत आह-- `कपिशब्दात्` इत्यादि। `लौहित्यायनी`। शांसित्यायनी` इति। लोहितशंसितशब्दाभ्यां गर्गादित्वाद्यञ्। `वाभ्रव्यायणी` इति। अत्रापि बभ्रुशब्दात् `मधुबभ्रुवोब्र्राआहृणकौशिकयोः` 4|1|106 इति यञ् `ओर्गुणः` 6|4|146 , `वान्तो यि प्रत्यये` 6|1|76 इति वान्तादेशः, यञन्तेभ्यः ष्फः। `कण्वात्तु`इत्यादि। कण्वशब्दात् पूर्वः शकलशब्द इष्यते, कतशब्दात्तूत्तरः। किमेवं सति भवतीत्याह-- `पूर्वोत्तरो`इत्यादि। एवं सति पूर्वोत्तरो गणौ तदन्तादी भवतः। तच्छब्देन शकलशब्दः प्रत्यवमृश्यते। शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोत्तरयोर्गणयोस्तौ तदन्तादी पूर्वोत्तरगणौ। लोहितादिः शकलशब्दान्तो भवति पूर्वो यथः। उत्तर गणः कण्वादिः शकलशब्दादिर्भवति। किं पुनः पूर्वोत्तरयोर्गणयोस्तदन्तादित्वे प्रयोजनमित्याह--`ष्फाणौ तत्र प्रयोजनम्` इति। पूर्वस्य गणस्यशकलान्तत्वे ष्फः प्रयोजनम्। उत्तरस्य शकलादित्वेऽण् प्रयोजनम्।`प्रातिपदिकेष्वन्यथा पाठः`इति। कपिकत, कुरुकत, अनडुह्, कण्व, शकल -- इत्यनयाऽनुपूव्र्या प्रातिपदिकेषु पाठः। `स एवं व्यवस्थापयितव्यः` इति। कण्वात्तु शकलः पूर्वः`इत्यादिना याऽ‌ऽनुपर्वी दर्शिता तया व्यवस्थापयितव्यः। अत एतदुक्तं भवति-- कुरुकत, अनडुह्-- इत्येतावन्यस्मिन् स्थाने पठितव्यौ, शकलशब्दस्तु कतकण्वशब्दयोर्मध्ये पठितव्यः। `मन्यते` इति श्लोवार्त्तिकारः। कथं पुनरेवं पाठे सति शकलशब्दात् ष्फाणौ सिध्यत आह-- `कतन्तेभ्यः` इत्यादि। कतस्यान्तः कतन्त इति तत्पुरुषः `कतन्तेभ्यः`इति निपातनात्पररूपत्वम्। कतशब्दोऽन्ते येषां लोहितादीनां ते कतन्ता इति बहुव्रीहिः। कतन्तश्च शकलशब्दः, कतन्ताश्च लोहितादय इति कतन्तश्च कतन्ताश्चेति सरूपाणामेकशेषः। `तथा` इत्यादिना यथा कतन्तेभ्य इत्यत्र बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्य इत्यत्रापीति दर्शयति। कण्वस्यादिः कण्वादिः शकलशब्दः कण्वशब्दः आदिर्येषां गोकक्षादीनां ते कण्वादयः, कण्वादिश्च कण्वादयश्च कण्वादयः, पूर्ववदेकशेषः। `तत्पुरुषवृत्त्यासंगृहीतः`इति। `कतन्तेभ्यः` इत्यत्र `कण्वादिब्यः` 4|2|110 इत्यत्र तत्पुरुषवृत्त्या तत्पुरुषसमासेन। `मध्यापीत` इति। कतकण्वशब्दयोर्गणयोर्वा। `प्रत्ययद्वयम्` इति। ष्फप्रत्ययम्, अण्प्रत्ययञ्च। `प्रतिपद्यते` इति। प्राप्नोति। तत्पुरुषवृत्त्याहि तस्य संग्रहे सत्यस्य सूत्रस्यायमर्थो जायते-- कतन्ताच्छकलशब्दात् तथा यञन्तात् कतन्तेभ्यश्च लोहितादिभ्यो यञन्तेभ्यः स्त्रियां ष्फप्रत्ययो भवतीति। तेन ष्फप्रत्ययं प्रतिपद्यते शकलशब्दः। `शाकल्यायनी` इति। `कण्वादिभ्यो गोत्रे` 4|2|110 इत्यत्रापि तत्पुरुषवृत्त्या शकलशब्दस्य संग्रहे सत्ययमर्थो भवति। कण्वादेः शकलशब्दान्ताद्गोत्रप्रत्ययान्तात् कण्वादिभ्यो गोकक्षान्तेभ्यो गोत्रप्रत्ययान्तेभ्यः शैषिकेष्वर्थेष्वण्प्रत्ययो भवतीति। तेनाण्प्रत्ययमपि शकलशब्दः प्रतिपद्यते-- शाकल्यस्येमे छात्राः शाकला इति॥
लोहितादीति पृथक्पदं लुप्तविभक्तिकम्, पूर्वत्र च प्राचां मते ष्फो विहितः, इह तु सर्वत्र मते । कोऽर्थः ? सर्वेषाअं मत इत्यर्थः, तदाह---सर्वेषामाचार्याणां मत इति । मतेनेति तृतीयान्तपाठे सूत्रे पष्ठ।ल्न्तात्रल् । स्वतन्त्रमिति । योऽन्यस्यावयवो न भवति तत्स्वतन्त्रं प्रातिपदिकम्, कः पुनरसावित्यत्राह---कपिशब्दात्पर इति । लौहित्यायनीत्यादिर्गर्गाद्यन्तर्गणः । बभ्रुशब्दोऽपि तत्रैव पठ।ल्ते, यञ्तु ठ्मधुबब्भ्र्वोर्ब्राह्मणकौशिक्योःऽ इत्यननैव भवति । कण्वात्वित्यादि । कण्वशब्दात्पूर्वः कतशब्दातूतरः शकलशब्द इष्यते, कतशकलकण्वेत्येवभेषां संनिवेशः कार्य इत्यर्थः । किमेवं सति भवति ? इत्याह---पूर्वोतराविति । शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोतरयोर्गणयोस्तौ तथोक्तौ । पूर्वो गणो लोहितादिः शकलशब्दान्तो भवति, उतरश्च गणः शकलशब्दादिर्भवतीत्यर्थः । सत्यमेवं भवति, प्रयोजनं तु किम् ? इत्यत आह---ष्फाणाविति । श्लोकं व्याटष्टे---प्रातिपदिकेष्वन्यथा पाठ इति । कपिकत, कुरुकत, अनडुह्, कण्व, शकलेत्येवं गर्गादिषु गणसन्निवेशः । स एवं व्यवस्थापयितव्य इति । एवमिति श्लोकोक्तयाऽऽनुपूर्व्येत्यर्थः । अनडुह्कुरुकतशब्दावस्मात्स्थानादपकृष्यान्यत्र पाठयौ, शकलशब्दस्तु कतकण्वयोर्मध्ये पठितव्य इति यावत् । नन्वेवं गणद्वयादपि प्रच्युतः शकलशब्दः ष्फाणौ द्वावपि न प्रतिपद्येत, तत्राह---कतन्तेभ्य इति । बहुव्रीहितत्पुरुषयोरेकशेष इति । कतस्यान्तः समीपभूतः कतन्त इति तत्पुरुषेण शकलशब्द उच्यते, शकन्ध्वादित्वान्निपातनाद्वा पररूपम् । तथा कतोऽन्तो येषां तानि कतन्तानीति बहुव्रीहिः, तत्र बहुव्रीहितत्पुरुषयोः सह विवक्षायां बहुव्रीहिः शिष्यते; ठ्स्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यतेऽ इति वचनात् । तथेत्यादि । ठ्कण्वादिभ्यःऽ इत्यपि बहुव्रीहितत्पुरुषयोरेकेशेष इत्यर्थः । कण्वस्यादिः समीपभूतः कण्वादिः शकलशब्दः, कण्व आदिर्येषां तानि कण्वादीनि, ततः पूर्ववदेकशेषः । तत्र बहुव्रीहितत्पुरुषयोर्मध्ये तत्पुरुषसमासेन । मध्यवर्तीति । गणद्वयस्य । प्रत्ययद्वयमपीति । ष्फाणावित्यर्थः । शाकला इति । ठापत्यस्य चऽ इति यलोपः । अपर आह---पूर्वोतरौ तदन्तादी ग्राह्याविति शेषः, पूर्वो गणस्तदन्तो ग्राह्यः---सर्वत्र लोहितादिशकलान्तेभ्य इति, उतरो गणस्तदादिर्ग्राह्यः---शकलादिभ्यो गोत्र इति । एवं ष्फाणौ प्रयोजनमिति ॥
सिद्धान्तकौमुदी
लौहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥
सर्वत्र लोहितादिकतान्तेभ्यः - सर्वत्र लोहितादिर्गर्गाद्यन्तर्गणः । लोहित आदिर्येषामिति, कतोऽन्तो येषामिति च विग्रहः ।कतन्ते॑त्यत्र शकन्ध्वादित्वात्पररूपम् । "यञ" इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते ।प्राचां ष्फ तद्धितः॑ इति सूत्रंप्राचां॑वर्जमनुवर्तते । सर्वत्रेति । सर्वेषु मतेष्वित्यर्थः । नित्यमिति यावत् । तदाह — लोहितादिभ्य इत्यादिना । लौहित्यायनीति । लोहितस्यापत्यं स्त्रीति विग्रहः । लोहितशब्दाद्गर्गादियञन्तात् ष्फः । ष इत्, फकारस्यायन्,यस्येति चे॑ति यकारादकारस्य लोपः, "तद्धितः" इत्यप्यनुवृत्तेः षित्त्वान्ङीषिति भावः । कात्यायनीति । पूर्ववत्प्रक्रिया बोध्या ।
सर्वत्र लोहितादिकतान्तेभ्यः - सर्वत्र । सर्वषां मत इत्यर्थः । तदेतत्फलितमाह — नित्यं ष्फः स्यादिति । नन्वारम्भसामथ्र्यान्नित् ।त्वे सिद्धे सर्वत्रग्रहणं व्यर्थमिति चेत् । अत्राहुः — पूर्वसूत्रे बाधकबाधनोपयुक्तस्येह स्पष्टार्थमभ्युपगमान्न वैयथ्र्यमिति ।यञ॑इत्यनुवर्तनादाह — यञन्तेभ्य इति । लोहितादिर्गर्गाद्यन्तर्गण इति भावः । लौहित्यायनीति ।सांशित्यायानी॒॑बाभ्राव्यायणी॑त्यदायोऽपि ज्ञेयाः । ननु गर्गादौ कत — कण्व-शकलेति पठते, तथा चशाकल्यायनी॑ति रूपं न सिध्येत् । यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठते, तथा चशाकल्यायनी॑ति रूपं न सिध्येत् । यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठते तर्हि शाकल्यस्य छात्राः शाकला इत्यत्रकण्वादिभ्यो गोत्रे॑इति कण्वादिकार्यमण् न सिध्येत् । उच्यते — कतकण्वशकलेति गणपाधे कण्वशब्दात् पूर्वं शकलशब्दः पठितव्यः ।॒कतन्तेभ्य॑इत्यत्र कतस्याऽन्तः कतन्तः, कतोऽन्तो येषां ते कतन्ताः । शाकन्ध्वादित्वात्पररूपम् । कतन्तश्च कतन्ताश्चेति बहुव्रीहितत्पुरुषयोरेकशेषोऽभ्युपेयः । तथाकण्वादिभ्य॑इत्यत्रापि कण्वस्यादिः कण्वादिः, कण्व आदिर्येषामिति बहुव्रीहितत्पुरुषयोरेकशेषस्तथा च सर्वेष्टसिद्धिरिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सर्वत्र लोहितादिकतन्तेभ्यः (1292) (सर्वत्र पदकृत्यभाष्यम्) सर्वत्रग्रहणं किमर्थम्? प्राचामेव हि स्यात्। नैतदस्ति प्रयोजनम्, सिद्धं प्राचां पूर्वेण।। इदं तर्हि प्रयोजनम्। सर्वेषामेव यथा स्यात् ‐ आवट्यायनी, चापं बाधित्वा ष्फो यथा स्यात्। (5147 सूत्रांशपूरकवार्तिकम्।। 1 ।।) - लोहितादिषु शाकल्यस्योपसंख्यानम् - (भाष्यम्) लोहितादिषु शाकल्यस्योपसंख्यानं कर्तव्यम् ‐ शाकल्यायनी। यदि पुनरयं शकलशब्दो लोहितादिषु पठ्येत। नैवं शक्यम्। इह हि शाकल्यस्य च्छात्राः शाकलाः कण्वादिभ्योगोत्रे(4।2।11) इत्यण्न स्यात्। (गणपाठनिश्चायकभाष्यम्) एवं तर्हि ‐ कण्वात्तु शकलः पूर्वः कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः।। कतादुत्तर इष्यते। कतशब्दात् शकलशब्द उत्तरः पठितव्यः।। पूर्वोत्तरौ तदन्तादी पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ। ये कण्वादयस्ते शकलादयः। ये कतपर्यन्तास्ते शकलपर्यन्ताः।। किं प्रयोजनम्? ष्फाणौ तत्र प्रयोजनम्। तत्रैवं सति प्फाणौ सिद्धौ भवतः।। कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते। पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्।।