॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|177
SK 1196
4|1|177
अतश्च  
SK 1196
सूत्रच्छेद:
अतः - षष्ठ्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
स्त्रियाम्  [4|1|176] - सप्तम्येकवचनम् , तद्राजाः  [4|1|174] (षष्ठ्या विपरिणम्यते) - षष्ठ्येकवचनम् , लुक्  [4|1|175] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
अतः तद्राजस्य स्त्रियाम् लुक्
सूत्रार्थ:
"अ" इति तद्राजप्रत्ययस्य स्त्रीत्वे विवक्षिते लुक् भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्त्रियाम् इत्येव। अकारप्रत्ययस्य तद्राजस्य स्त्रियाम् अभिधेयायाम् लुग् भवति। तकारो विस्पष्टार्थः। शूरसेनी। मद्री। दरत्। अवन्त्यादिभ्यो लुग्वचनात् तदन्तविधिरत्र नास्ति, तेनेह न भवति, आम्बष्ठ्या। सौवीर्या।
`तकारो विस्पष्टार्थः` इति। तकारे ह्रसति `अस्य` इति निर्देशेन भवितव्यम्, ततश्च समानत्वान्निर्देशस्य सन्देहः स्यात्-- किमयवमवर्णस्य निर्देशः? आहोस्तवित् इदमः? इति। तकारे तु सत्येष दोषो न भवति; तपरस्य वणष्वेव प्रसिद्धत्वात्। दीर्घनिवृत्त्यर्थस्तु तकारो न भवति, दीर्घस्यासम्भवात्। `सूरसेनी। मद्री` इति। सूरसेनाशब्दाद्योऽञ्, म्दरशब्दाद्यो द्व्यज्लक्षणोऽण् -- तयोर्लुकि कृते `जातेरस्त्रीविषयादयोपधात्` 4|1|63 इति ङीष्। `दरत्` इति। दरच्छब्दाद् द्व्यञ्मगधलक्षणस्याणो 4|1|168 लुक्।यदि `अतः` इति वर्णस्येदं ग्रहणम्, एवंसति वर्णग्रहमं तदन्तविधिं प्रयोजयतीतीहापि प्राप्नोति--- आम्बषष्ठआ, सौवीर्या इति? अत आह-- `अवन्त्यादिभ्य लुक्` इत्यादि। यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्। तदन्तविधावसत्यकारग्रहणमात्रेण न सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमनर्थवद्भवति॥
तकारो विस्पष्टार्थं इति । असति हि तस्मिन् ठस्यऽ इति निर्देशः स्यात्, ततश्च सन्देहः स्यात्---किमयं वर्णनिर्देशः ? आहोस्विदिदम इति ? इदमश्च निर्देशेऽनन्तरस्येञो लुक् प्रसज्येत, तकारे सत्येष दोषो न भवति, तपरनिर्देशस्य भूयसा वर्णेष्वेव प्रसिद्धत्वात् ठ्तपरस्तत्कालस्य ऽ इति संज्ञाकरणाच्च । कथं ठ्माद्रीसुतौ पुष्पफले समृद्धेऽ इति ? स्वच्छन्दवाच ऋषयः, मद्रीसुतावित्येव वा पाठ।ल्म् । अवन्त्यादिभ्यो लुग्वचनादिति । यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्याद्; अनेनैव सिद्धत्वात् । तदन्तविधौ त्वसति अकारमात्रस्य ग्रहणेन सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमर्थवद् भवति ॥
सिद्धान्तकौमुदी
तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुतौ इति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥
अतश्च - अतश्च । तद्राजस्याकारस्येति । "अत" इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शूरसेनीति । अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वान्ङीष् ।न लुमते॑ति निषेधस्तु न, ङीष्विधेरङ्गकार्यत्वाऽभावात् । एवं मद्री ।
अतश्च - अतश्च । इद तद्राजेन अकारो विशेष्यते, न त्वकारेण तद्राजः । विशेषणेन तदन्तविधौ ञ्यङ्ण्यादीनामप्यदन्ततद्राजत्वादनेनैव लुकि सिद्धे अवन्तिकुन्तिकुरुभ्यो लुग्विधायकस्यस्त्रियामवन्ती॑ति सूत्रस्य वैयथ्र्यापत्तेः । न चेष्ट#आपतिः, कौसल्येति रूपाऽसिद्धिप्रसङ्गादतो व्याचष्टे ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
1423 अतश्च (अलक्ष्यवारणपरभाष्यम्) इह कस्मान्न भवति ‐ आम्बष्ठ्या, सौवीर्या? अत इत्युच्यते, नैषोऽकारः। तदन्तविधिना प्राप्नोति। अत उत्तरं पठति ‐ (5331 तदन्ताग्रहणवार्तिकम्।। 1 ।।) - अत इति तदन्ताग्रहणमवन्त्यादिभ्यो लुग्वचनात् - (भाष्यम्) अत इति तदन्तस्याग्रहणम्। किं कारणम्? अवन्त्यादिभ्यो लुग्वचनात्। यदयमवन्त्यादिभ्यो लुकं शास्ति, तज्ज्ञापयत्याचार्यः ‐ नात्र तदन्तविधिर्भवतीति।। (सूत्रांशपूरकभाष्यम्) पर्श्वादिभ्यो लुग्वक्तव्यः। पर्शूः,रक्षाः, असुरी।। (5332 अन्यथासिद्धिसाधकवार्तिकम्।। 2 ।।) - यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वादिलुकः - (भाष्यम्) यदयं न प्राच्यभर्गादियौधेयादिभ्यः (4।1।178) इति प्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः ‐ भवति पर्श्वादिभ्यो लुगिति।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्।। पादश्च समाप्तः।।