॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|175
SK 1194
4|1|175
कम्बोजाल्लुक्  
SK 1194
सूत्रच्छेद:
कम्बोजात् - पञ्चम्येकवचनम् , लुक् - प्रथमैकवचनम्
अनुवृत्ति:
तद्राजाः  [4|1|174] (षष्ठ्या विपरिणम्यते) - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
तद्राजस्य कम्बोजात् लुक्
सूत्रार्थ:
"कम्बोज"शब्दात् विहितस्य तद्राजप्रत्ययस्य लुक् भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
जनपदशब्दात् क्षत्रियातित्यनेन विहितस्य अञो लुगुच्यते। कम्बोजात् प्रत्ययस्य लुक् भवति। कम्बोजः। कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम्। चोलः। केरलः। शकः। यवनः। तस्य राजनि इत्येव, कम्बोजो राजा।
`चोलः,शकः` इति। द्व्यञ्मगध 4|1|168 लक्षणस्याणो लुक्। केरल इत्यञः॥
चोलः, शक इति । ठ्द्व्यञ्मगधऽ इत्यस्याणः । केरल इत्यत्राञः ॥
सिद्धान्तकौमुदी
अस्मात्तद्राजस्य लुक्स्यात् । कम्बोजः । कम्बोजौ ॥कम्बोजादिभ्य इति वक्तव्यम् (वार्तिकम्) ॥ चोलः । शकः । द्व्यज्लक्षणस्यणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणञौ-(कौमुदी-1473) इत्यण् ॥
कम्बोजाल्लुक् - कम्बोजाल्लुक् । "तद्राजा" इत्यनुवृत्तं षष्ठआ विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः । अबहुत्वार्थं सूत्रम् ।तदाह-कम्बोजः कम्बोजाविति ।जनपदशब्दा॑दिति विहितस्य अञो लुक् । चोलः शक इति । चोलशकौ देशविशेषौ, राजविशेषौ च द्व्यज्लक्षणस्येति ।द्व्यञ्मगधे॑ति विहितस्येत्यर्थः । केरल इति । केरलयवनशब्दौ देशराजोभयवाचिनौ । अञो लुगिति ।जनपदशब्दादिति विहितस्ये॑ति शेषः । ननु "काम्बोज" इति कथं, लुक्प्रसङ्गादित्यत आह — कम्बोजाः समरे इति । दीर्घपाठे त्विति । अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः । अभिजन इति । यत्र पूर्वैरुषितं सोऽभिजन इत्यग्रे वक्ष्यति । सिन्धुतक्षेति । सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः ।
कम्बोजाल्लुक् - कम्बोजाल्लुक् ।तद्राजस्य बहुषु इति प्रकरण एवेदं न कृतं, द्व्येकार्थवाचकस्याऽञो लुगभावप्रसङ्गात् । यद्यपि लुगधिकारे पुनर्लुग्विधानसामथ्र्यातद्द्व्येकयोरप्यञो लुग्भविष्यत्येवेति वक्तुं शक्यं, तथाप्यतद्राजस्यापि लुक्प्रसङ्गशङ्कापत्तेर्लाघवाऽभावाच्च चचप्रकरणे न कृतमित्याहुः । न चात्र अपत्ये लक्षणयैवकम्बोजः कम्बोजौ॑इत्यादिरूपसिद्धौ किमनेन सूत्रेणेति शङ्क्यं,कम्बोज॑इत्यादिपाक्षिकाऽनिष्टवारणाय सूत्रस्यावश्यकत्वात् ।कम्बोजादिभ्य इति वक्तव्यम् । सिन्धुतक्षेति । कम्बोजशब्दस्य सिन्ध्वादित्वादण् । तस्य तु तद्राजत्वाऽभावल्लुङ्नेति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कम्बोजाल्लुक् (1421) (लुगधिकरणम्) (5330 सूत्रपूरकवार्तिकम्।। 1 ।) - कम्बोजादिभ्यो लुग्वचनं चोडाद्यर्थम् - (भाष्यम्) कम्बोजादिभ्यो लुग्वक्तव्यः। किं प्रयोजनम्? चोडाद्यर्थभ् ‐ चोडः, कडेरः, केरलः।। 4-1-4- आ. 115 (719 लुग्विधिसूत्रम्