॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|171
SK 1189
4|1|171
वृद्धेत्कोसलाजादाञ्ञ्यङ्  
SK 1189
सूत्रच्छेद:
वृद्ध-इत्-कोसल-अजादात् - पञ्चम्येकवचनम् , ञ्यङ् - प्रथमैकवचनम्
अनुवृत्ति:
जनपदशब्दात्  [4|1|168] - पञ्चम्येकवचनम् , क्षत्रियात्  [4|1|168] - पञ्चम्येकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् वृद्ध-इत्-कोसल-अजादात् ञ्यङ्
सूत्रार्थ:
"कोसल", "अजाद" एतौ क्षत्रियवाचिनौ शब्दौ , वृद्धसंज्ञकाः क्षत्रियवाचिनः शब्दाः, तथा च इकारान्ताः क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः "तस्य अपत्यम्" अस्मिन् अर्थे ञ्यङ्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
जनपदशब्द्दत् क्षत्रियातित्येव। वृद्धात् प्रातिपदिकातिकारान्तात् च, कोसलाजादशब्दाभ्यां च अप्त्य ञ्यङ् प्रत्ययो भवति। अञो ऽपवादः। वृद्धात् तावत् आम्बष्ठ्यः। सौवीर्यः। इकारान्तात् आवन्त्यः। कौन्त्यः। कौसलाजादयोरवृद्धार्थं वचनम्। कौसल्यः। आजाद्यः। तपरकरनम् किम्? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्य अपत्यं कौमारः। पाण्डोर् जनपदाब्दात् क्षत्रियाड् ड्यण् वक्तव्यः। पाण्ड्यः। अन्यस्मात् पाण्डव एव। तस्य राजनि इत्येव, आम्बष्ठ्यो राजा। आवन्त्यः। कौन्त्यः। कुअसल्यः। आजाद्यः।
वृद्धग्रहणेनेह `वृद्धिर्यस्याचामादिस्तद्द्वृद्धम्` 1|1|72 इति गृह्रते, तस्यैव हि जनपदशब्दता क्षत्त्रियवाचित्वं च सम्भवति, न शास्त्रान्तरपरिभाषितस्य। `आम्बष्ठ्यः सौवीर्यः` इति। आम्बष्ठसौवीरशब्दाभ्यां ञ्यङ। `आवन्त्यः, कौन्त्यः` इति। अवन्तिकुन्तिशब्दाभ्यां ञ्यङ। `कौमारः` इत्यत्राञ् भवति। `डण् वक्तव्यः` इति। क्षत्त्रियञ्यङोऽपवाद इति, डकारष्टिलोपार्थ इति। स च `वान्यस्मिन् सपिण्डे` 4|1|165 इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवृत्तेर्लभ्यते। तथैवमतिप्रसङ्गो भवति? व्यवस्थितविभाषात्वात् स न भविष्यति। `अन्यस्मात् पाण्डवः` इति। यः पाण्डुशब्दः क्षत्त्रिये वत्र्तते,तस्मादौत्सर्गिकेऽणि कृते पाण्डव इति भवति॥
ड।ल्ण्वक्तव्य इति । डकारष्टिलोषार्थः, णकारो वृद्धिनिमितस्येति पुंवद्भाव प्रतिषेधार्थः । अन्यस्मादिति । गुणवचनाद्यौधिष्ठिरपितृवचनाच्च । पुरीरण्वक्तव्यः पौरव इति क्वचित्पठ।ल्ते, तत्र पुरुशब्दस्याजनपदशब्दत्वात्प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे ठ्द्व्यञ्मगधऽ इत्येव सिद्धम् ॥
सिद्धान्तकौमुदी
वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!