॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|17
SK 473
4|1|17
प्राचां ष्फ तद्धितः  
SK 473
सूत्रच्छेद:
प्राचाम् - षष्ठीबहुवचनम् , ष्फः - प्रथमैकवचनम् , तद्धितः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
यञः इत्येव। प्राचाम् आचार्याणां मतेन यञन्तात् स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञः। षकारो ङीषर्थः। प्रत्ययद्वयेन इह स्त्रीत्वं व्यज्यते। तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम्। गार्ग्यायणी। वात्स्यायनी। अन्येषाम् गार्गी। वात्सी। सर्वत्रग्रहणम् उत्तरसूत्रादिह अपकृष्यते बाधकबाधनार्थम्। आवट्यात् चापं वक्ष्यति, तम् अपि बाधित्वा प्राचां ष्फ एव यथा स्यात्। आवट्यायनी।
`षकारो ङीषर्थः` इति। `षिद्गौरादिभ्यश्च` 4|1|41 इति ङीप्यथा स्यात्। ननु च क्रियमाणेऽपि षकारे नैव ङीषा भवितव्यम्, ष्फप्रत्ययेनैव स्त्रीत्वस्याभिव्यक्तत्वादित्यत` आह-- `प्रत्ययद्वयेन` इत्यादि। न हि केवलः ष्फः स्त्रीत्वमभिव्यङ्क्तुं समर्थ इति ङीषमपेक्षते। तेन सहिताभ्यामेव ताभ्यां स्त्रीत्वं व्यज्यत इति ङीषा भवितव्यम्। `तद्धितग्रहणम्` इत्यादि। `कृत्तद्धितसमासश्च` 1|2|46 इति प्रातिपदिकसंज्ञा यथा स्यादित्येवमर्थं तद्धितग्रहणम्। प्रातिपदिकसंज्ञा तु ङीष् यथा स्यादित्येवमर्थम्। ननु च विनापि तया षित्करणसामथ्र्यादेव ङीष् भविष्यति, अन्यथा हि षित्करणमनर्थकं स्यत्, प्रयोजनन्तराभावात्; न च `त्रपूष् लज्जायाम्` (धातुपाठः-374) इत्यतोऽपि धातोः स्यादित्यतिप्रसङ्ग आशङ्कनीयः, धातोः षित्करणस्य `षिद्भिदादिभ्योऽङ` 3|3|104 इत्यङविधौ चरितार्थत्वात्, अत इति चाधिकारात्? सत्यमेतत्, प्रतिपत्तिगौरवं तु स्यात्। तस्मात् सुखप्रतिपत्तये तद्धितग्रहमम्।`सर्वत्रग्रहणम्` इत्यादि। उत्तरसूत्रे सर्वत्रग्रहणमनर्थकम्। तद्धि सर्वेषामचार्याणां मतेन यथा स्यादित्येवमर्थं क्रियते, एतच्चाप्रयोजनम्, अस्वरितत्वदेव हि प्राग्ग्रहणस्य सर्वेषां मतेन भवितव्यम्। तस्मादुत्तरसूत्रे सर्वत्रग्रहणमनर्थकम्, अतस्तदिहापकृष्यते। किमर्थमित्याह-- `बाधकबाधनार्थम्` इति। `आवटआच्चापं वक्ष्यति` इत्यादना बाधकबाधनार्थमित्यस्यैवार्थं विस्पष्टीकरोति।अवटआच्चापोऽवकाशः-- उदीचां मतेन आवटएति, घवटशब्दाद् गर्गादिञन्ताच्चाप्, `प्राचां ष्फ तद्धितः` 4|1|17 इत्यस्यावकाशः-- गाग्र्यायणीति; आवटआत् प्राचानुभयप्रसङ्गे परत्वाच्चाप् स्यात्। सर्वत्रग्रहणात् ष्फ एव भविष्यति-- आवटआयनीति॥बाल-मनोरमावृद्धेत्कोसलाजादाञ्ञ्यङ् 1171, 4.1.17 वृद्धेत्कोसला। जनपदक्षत्रियोभयवाचकाद्वृद्धसंज्ञकादिदन्तात्, कोसलात् , अजादाच्चापत्ये ञ्यङित्यर्थः। वृद्धादिति। उदाह्यियते इत्यर्थः। आम्बष्ठ्यः सौवीर्य इति। आम्बष्ठसौवीरशब्दौ जनपदक्षत्रियोभयवाचकौ। इदिति। इदन्तोदाहरणसूचनमिदम्। आवन्त्य इति। अवन्तिशब्दो देशे राजनि च। कौसल्य इति। कोसलशब्दो देशे राजनि च। अजादस्यापत्यमिति। राजवाचकत्वे विग्रहोऽयम्। देशवाचकत्वे तु अजादानां राजेति विग्रहः। बाल-मनोरमाप्राचां ष्फ तद्धितः 466, 4.1.17 प्राचां ष्फ तद्धितः। `यञ` इत्यनुवर्तते, स्त्रियामित्यदिकृतम्। `ष्पे` ति लुप्तप्रथमाकम्। तदाह--यञ्न्तादिति।
षकारो ङीषथे इति । ननु च ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वान्ङीषा न भाव्यम् ? तत्राह---प्रत्ययद्वयेनेति । तद्धितग्रहणं प्रातिपदिकसंज्ञार्थमिति । प्रातिपदिकसंज्ञा तु ङीषर्था । ननु च सिद्धोऽत्र ङीष्, पित्करणसामर्थ्यात्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति त्रपा, क्षमेत्यादौ ङीषभावः ? तदेतत्सान्न्यासिकं तिष्ठतु तावत् । सर्वत्रग्रहणमित्यादि । सर्वत्रग्रहणं तावद् उतरसूत्रे न कर्तव्यम्, आरम्भसामर्थ्यादेव ठ्प्राचाम्ऽ इत्यस्य निवृतौ सर्वत्र सिद्धत्वात्, अतस्तदिहापकृष्यते, तदयमर्थो भवति---सर्वत्र बाधकविषयोऽपि प्राचां मतेन यञन्तात्ष्फो भवतीति । एवं सप्तम्यर्थोऽपि समञ्जसो भवति । आवट।लच्चापं वक्ष्यतीति । असति पुनरपकर्षे आवट।लच्चाबुदीचां मते सावकाशः परत्वात्ष्फं बाधेत, सर्वत्रग्रहणात्ष्फ एव भवति । एवं च ठ्षाच्च यञःऽ इति चाब्विषयेऽपि प्राचां ष्फ एव भवति---शार्कराक्ष्यायणी, पौतिमाष्यायणी, गोकक्ष्यायणीति ॥
सिद्धान्तकौमुदी
यञन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥
प्राचां ष्फ तद्धितः - प्राचां ष्फ तद्धितः । "यञ" इत्यनुवर्तते, स्त्रियामित्यदिकृतम् । "ष्पे" ति लुप्तप्रथमाकम् । तदाह — यञ्न्तादिति ।
प्राचां ष्फ तद्धितः - प्राचां ष्फ तद्धितः ।तद्धित॑ग्रहणं ष्फप्रत्ययान्तस्य प्रातिपदिकसंज्ञार्थम् । तेनषिद्गौरे॑ति ङीष्सिध्यति । ननु प्रातिपदिकसंज्ञा विनापि षित्करणसामथ्र्यादेव ङीष्भाविष्यति किमनेन तद्धितग्रहणेन । न च यञन्तेयस्येति चे॑ति लोपार्थं तदिति वाच्यम् । सवर्णदीर्घेणापि रूपसिद्धेर्लोपस्याऽनावश्यकत्वात् । एवं तर्हि तद्धितग्रहणमिञन्तादपि क्वचित्ष्फोभवतीति ज्ञापनार्थम् । तेनआसुरेरुपसङ्ख्यान॑मिति वक्ष्यमाणं सिध्यति ।
लघुसिद्धान्तकौमुदी
यञन्तात् ष्फो वा स्यात्स च तद्धितः॥
महाभाष्यम्
प्राचां ष्फ तद्धितः ( 1291) (तद्धितष्फाधिकरणम्) (आक्षेपभाष्यम्) तद्धितवचनं किमर्थम्? (5146 प्रयोजनवार्तिकम्।। 1 ।।) - तद्धितवचनं षितः प्रातिपदिकादीकारार्थम् - (भाष्यम्) तद्धितवचनं क्रियते, षितः प्रातिपदिकादितीकारो यथा स्यात्।। नैतदस्ति प्रयोजनम्। षित्करणसार्मथ्यादेवात्र ‐ इर्कारो भविष्यति। यथैव तर्हि षित्करणसार्मथ्यादप्रातिपदिकादीकारो भवति। एवं प्रातिपदिकादित्यस्यानुवर्तनसार्मथ्यादषितोऽपि प्रातिपदिकादीकारः स्यात्।। अस्त्यन्यत् प्रातिपदिकादित्यनुवृत्तौ प्रयोजनम्। किम्? उत्तरार्थम्। अत इञ्ञ् ‐ दाक्षिः, प्लाक्षिः।।