॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|161
SK 1185
4|1|161
मनोर्जातावञ्यतौ षुक् च  
SK 1185
सूत्रच्छेद:
मनोः - पञ्चम्येकवचनम् , जातौ - सप्तम्येकवचनम् , अञ्-यतौ - प्रथमाद्विवचनम् , षुक् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
मनोः जातौ अञ्-यतौ, षुक् (आगमः)
सूत्रार्थ:
"मनु"शब्दात् जातिनिर्देशे कर्तव्ये "अञ्" तथा "यत्" प्रत्ययौ भवतः, तथा "मनु"शब्दस्य षुक्-आगमः अपि भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
मनुशब्दादञ् यतित्येतौ प्रत्यौ भवतः, तत् सन्नियोगेन षुगागमः, समुदायेन चेज् जातिर् गम्यते। मानुषः, मनुष्यः। जातिशब्दावेतौ। अपत्यार्थो ऽत्र न अस्त्येव। तथा च मानुषाः इति बहुषु न लुग् भवति। अपत्यविवक्षायां तु अणैव भवितव्यम्। मानवी प्रजा। अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस् तेन सिध्यति माणवः।
`तथा च` इत्यादि। यस्मादपत्यार्थोऽत्र नास्ति, एवञ्च कृत्वा मानुषा इति बहुषु लुग्न भवति। अपत्यार्थे तु सति `यञञोश्च` 2|4|64 इति बहुषु लुक् प्रसज्येत।`अपत्ये कुत्सिते` इत्यादि। मूर्धन्योपसंख्यानपरोऽयं श्लोकः। अण्प्रत्ययोऽपत्यविवक्षायाम् `तस्यापत्यम्` 4|1|92 इत्येनैव सिध्यति। ननु च मूर्धन्योऽपि च बहुलग्रहणानुवृत्त्या सिध्यत्येव? एवं तर्हि बहुलग्रहणानुवृत्तेर्लभ्य एवार्थः श्लोकेन कथ्यते। स चापि मूर्धन्यो विशिष्ट एव विषये मूढादावपत्ये भवति, न सर्वत्र। अनधीतवेदत्वदज्ञो मूढः। मूढत्वादेव प्रतिषिद्धाचरणाद्वा कुत्सितो यः स ब्राआहृणजातीयो माणव उच्यते॥
तथा चेति । अपत्यार्थे तु सति ठ्यञञोश्चऽ इति बहुषु लुक् प्रसज्येत; लौकिकस्य गोत्रस्य तत्र ग्रहणात् । अपत्ये कुत्सित इति । णत्वविधानार्थमिदम्, अणः सिद्धत्वात् । न च ठ्न दण्डमाणवान्तेवासिषुऽ इति णत्वसिद्धिः, अर्थविशेषस्यानिश्चायाद् । अनधीतवेदत्वान्मूढत्वम् । विहिताकरणात्प्रतिषिद्धसेवनाच्च कुत्सितत्वम् ॥
सिद्धान्तकौमुदी
समुदायार्थो जातिः । मानुषः - मनुष्यः ॥
मनोर्जातावञ्यतौ षुक् च - मनोर्जातौ । मनुशब्दादञ् यत् एतौ प्रत्ययौ स्तः, तयाः परयोर्मनुशब्दस्य षुगागमश्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामित्यर्थः । तदाह — समुदायार्थो जातिरिति । नात्राऽपत्यग्रहणं संबध्यत इति भावः । अन्यथा "मानुषा" इत्यत्रयञञोश्चे॑ति लुक्स्यादिति बोध्यम् ।
मनोर्जातावञ्यतौ षुक् च - मानुषः । मनुष्य इति । जातिशब्दावेतौ ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॑ । णत्वविधानार्थमिदम्, अमः सिद्धत्वात् । अनधीतवेदत्वान्मूढत्वं, विहिताननुष्ठानाच्च कुत्सितत्वम् । इदं च वचनब्राआहृणमाणवे॑ति णत्वनिपातनाल्लब्धमित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
मनोर्जातावञ्ञ्यतौ षुक् च (1407) (अञ्ञ्यतोरधिकरणम्) (माणवशब्दसिध्यर्थं भाष्यवार्तिकम्) अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्य ‐ स्तेन सिध्यति माणवः।। (षुकः पूर्वान्तत्वे आक्षेपभाष्यम्) यदि षुक् पूर्वान्तः क्रियते ‐ मानुषाः, बहुषु लोपः प्राप्नोति। मानुषाणां संघः संघाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (4।2।127) इत्यण् प्राप्नोति।। (परादित्वे आक्षेपभाष्यम्) अस्तु तर्हि परादिः। यदि परादिः क्रियते ‐ मानुषी, अञ्ञन्तादितीकारो न प्राप्नोति।। (पूर्वान्तत्वस्थापकभाष्यम्) अस्तु तर्हि पूर्वान्त एव। कथं मानुषाः, मानुषाणां संघ इति? उभयत्र लौकिकस्य गोत्रस्य ग्रहणम्, न चैतल्लौकिकं गोत्रम्। किं तर्हि? जातिः।। इह तर्हि मानुष्यकमिति हलस्तद्धितस्य इति यलोपः प्राप्नोति। परादावप्येष दोषः। यद्वि तद्धलस्तद्धितस्येति हल्ग्रहणं न तदङ्गविशेषणं शक्यं विज्ञातुम्। इह हि दोषः स्यात् ‐ वृकाट्टेण्यण् (5।3।115) वार्केणीति । तस्मादुभाभ्यामेव तद्वक्तव्यम् ‐ प्रकृत्याऽकेराजन्यमनुष्ययुवान इति।