॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|157
SK 1181
4|1|157
उदीचां वृद्धादगोत्रात्‌  
SK 1181
सूत्रच्छेद:
उदीचाम् - षष्ठीबहुवचनम् , वृद्धात् - पञ्चम्येकवचनम् , अगोत्रात् - पञ्चम्येकवचनम्
अनुवृत्ति:
फिञ्  [4|1|154] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) उदीचाम् अगोत्रात् वृद्धात् फिञ्
सूत्रार्थ:
यः वृद्धसंज्ञकः शब्दः गोत्रसंज्ञकः नास्ति, तस्मात् "तस्य अपत्यम्" अस्मिन् अर्थे उदीचाम् आचार्याणां मतेन फिञ्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वृद्धं यच्छब्दरूपम् अगोत्रं, तस्मादपत्ये फिञ् प्रत्ययो भवति उदीचाम् आचार्याणां मतेन। आम्रगुप्तायनिः। ग्रामरक्षायणिः। कारिशब्दादपि वृद्धादगोत्रात् परत्वादनेन एव भवितव्यम्। नापितायनिः। उदीचाम् इति किम्? आम्रगुप्तिः। वृद्धादिति किम्? याज्ञदत्तिः। अगोत्रादिति किम्? औपगविः।
`वृद्धात्` इति। इहैव यत्पारिभाषिकं वृद्धं तद्गृह्रते, न शास्त्रान्तरप्रसिद्धम्, अगोत्रादिति प्रतिषेधात्। `कारिशब्दात्` इत्यादि। कारिलक्षणस्येञोऽवकाशः-- तान्तुवायिरिति, फिञोऽवकाशः--आम्रगुप्तायनिरिति; इहोभं प्राप्नोति-- नापितायनिरिति, परत्वात् फिञेव भवति॥
कारिशब्दादपीति । कारिलक्षणस्योदीचामिञोऽवकाशः---तान्तुवायिः, फिञोऽवकाशः---आम्रगुप्तायनिः; नापितादुभयप्रसङ्गे फिञ् भवति । याज्ञदतिरिति । ठ्वा नामदेयस्य वृद्धसंज्ञा वक्तव्याऽ । पक्षे याज्ञदतायनिरिति भवत्येव ॥
सिद्धान्तकौमुदी
आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥
उदीचां वृद्धादगोत्रात् - उदीचां वृद्धा । वृद्धसंज्ञकादगोत्रप्रत्ययान्तात्फिञ्स्यादुदीचां मते इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यमिति विग्रहः । प्राचां त्विति । "मते" इति शेषः । आम्नगुप्तिः । अत इञ् । औपगविरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इञेवेति भावः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!