॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|150
SK 1174
4|1|150
फाण्टाहृतिमिमताभ्यां णफिञौ  
SK 1174
सूत्रच्छेद:
फाण्टाहृति-मिमताभ्याम् - पञ्चमीद्विवचनम् , ण-फिञौ - प्रथमाद्विवचनम्
अनुवृत्ति:
सौवीरेषु  [4|1|148] - सप्तमीबहुवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) सौविरेषु फाण्टाहृति-मिमताभ्याम् ण-फिञौ
सूत्रार्थ:
सौवीरकुलवाचिभ्याम् "फाण्टाह्रति"-तथा-"मिमत"-शब्दाभ्याम् तस्य अपत्यम् अस्मिन् अर्थे "ण" तथा "फिञ्" प्रत्ययौ भवतः ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सौवीरेषु इत्येव। कुत्सने इति निवृत्तम्। फाण्टाहृतिमिमतशब्दाभ्यां सौवीरविषयाभ्याम् अपत्ये णफिञौ प्रत्ययु भवतः। फको ऽपवादः। अल्पाच्तरस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नं, तेन यथासङ्ख्यम् इह न भवति इति। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। सौवीरेषु इत्येव, फाण्टाहृतायनः। मैमतायनः। फाण्टाहृतेः यञिञोश्च 4|1|101 इति फक्। मिमतशब्दो ऽपि नडादिषु पठ्यते।
`आल्पाच्तरस्य` इत्यादि। मिमतशब्दोऽयमल्पाच्तरः, तस्य `अल्पाच्तरम्` 2|2|34 इति पूर्वनिपाते प्राप्ते यः परनिपातः स लक्षमव्यभिचारचिह्नं सूचयति। यथेदं पूर्वनिपातलक्षणं व्यभिचरति = स्वविषये न प्रवत्र्तते, तथा यथासंख्यलक्षणमपीति यथासंख्यं न भवति। अत एवैकैकस्मात् प्रत्ययद्वयं सिद्धं भवति॥
तेन यथासंख्यामिह न भवतीति । एवं च कृत्वा णस्य णित्करणमर्थवद्भवति, तद्धि मिमतशब्दे वृद्ध्यर्थम् । यथासंख्ये तु फाण्टाहृतेर्वृद्धत्वाणिणत्करणमनर्थकं स्यात् । इह तु फाण्टाहृताभार्य इति गार्गाभार्य इतिवत्पुंवद्भावप्रतिषेधादिकं द्रष्टव्यम् । यथा तु वार्तिकं तथा यथासंख्यमत्रेष्यते, यथाह---ठ्फाण्टाहृतेर्णस्य णित्करणानर्वस्यं वृद्धत्वात्ऽ, ठ्प्रातिपदिकस्य पुंवद्भावप्रतिषेधार्यं तुऽ, ठुक्तं वाऽ इति ॥
सिद्धान्तकौमुदी
सौवीरेषु । नेह यथासंख्यम् । अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः - फाण्टाहृतायनिः । मैमतः - मैमतायनिः ॥
फाण्टाहृतिमिमताभ्यां णफिञौ - फाण्टाह्मति ।सौवीरेष्विति । शेषपूरणमिदम् । सैवीरगोत्रादित्यर्थः । फाण्टाह्मतस्य गोत्रापत्यं फाण्टाह्मतिः, अत इञ् । तस्यापत्यं युवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाऽभावाच्चेति भावः ।
फाण्टाहृतिमिमताभ्यां णफिञौ - फाण्टाह्मति ।कुत्सने॑इति निवृत्तम् । वृत्तिमते णित्त्वस्य फलमस्तीति ध्वनयन्नुदाहरति — -मैमत इति । न च भाष्यमतेऽपिफाण्टाह्मताभार्यः॑इत्यत्रवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिवृत्तिर्णित्त्वफलमस्तीति वाच्यम्,अस्त्रिया॑मिति युवसंज्ञानिषेधाद्गोत्रसंज्ञासद्भावात्एको गोत्रे॑इति नियमादिञन्तात्फाण्टाह्मतिशब्दादन्यस्यापत्ययस्याऽभावात्फाण्टाह्मताशब्दस्यैवाऽसत्त्वादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
फाण्टाहृतिमिमताभ्यां णफिञ्ञौ (1396) (णित्वाक्षेपे भाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः। ञ्ञ्णितीति वृद्धिर्यथा स्यात् ‐ फाण्टाहृतः।। (5302 आक्षेपवार्तिकम्।। 1 ।।) - फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) फाण्टाहृतेः प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात् प्रातिपदिकस्य। वृद्धमेवैतत्प्रातिपदिकम्।। (5303 णित्वफलवार्तिकम्।। 2 ।।) - पुंवद्भावप्रतिषेधार्थं तु - (भाष्यम्) पुंवद्भावस्य प्रतिषेधार्थो णकारः कर्तव्यः। फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः। वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधो यथा स्यात् ‐ इति।। (5304 णित्वप्रयोजनाप्रयोजनवार्तिकम्।। 3 ।।) - उक्तं वा - (भाष्यम्) किमुक्तम्? गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम्, अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमिति।।