॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|15
SK 470
4|1|15
टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः  
SK 470
सूत्रच्छेद:
टिड्‍ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अतः इति सर्वत्र अनुवरतते। तत् सति सम्भवे विशेषणं भवति। टिदादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति। टापो ऽपवादः। टितस्तावत् कुरुचरी। मद्रचरी। इह कस्मान् न भवति, पचमाना, यजमाना? द्व्यनुबन्धकत्वाल् लटः। ल्युडादिषु कथम्? टित्करणसामर्थ्यात्। इतरत्र तु टेरेत्वं फलम्। पठिता विद्या इति? आगमटित्त्वम् अनिमित्तं, ट्युट्युलौ तुट् च इति लिङ्गात्। ढ सौपर्णेयी। वैनतेयी। निरनुबन्धको ढशब्दः स्त्रियां न अस्ति इति निरनुबन्धकपरिभाषा न प्रवर्तते। अण् कुम्भकारी। नगरकारी। औपगवी। णे ऽपि क्वचिदण्कृतं कार्यं भवति। चौरी, तापसी। दाण्डा, मौष्टा इत्यत्र न भवति। अञ् औत्सी। औदपानी। शार्ङ्गरवाऽद्यञो ङीन् 4|1|73 इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुम्। द्वयसच् ऊरुद्वयसी। जानुद्वयसी। दघ्नच् ऊरुदघ्नी। जानुदघ्नी। मात्रच् ऊरुमात्री। जानुमात्री। तयप् पञ्चतयी। दशतयी। ठक् आक्षिकी। शालाकिकी। ठञ् लावणिकी। ठक्ठञोर् भेदेन ग्रहणं ठनादिनिवृत्त्यर्थम्। कञ् यादृशी। तादृशी। क्वरप् इत्वरी। नश्वरी। ख्युन् आढ्यङ्करणी। सुभगंकरणी। नञ्स्नञीकक्तरुणतलुनानाम् उपसङ्ख्यानम्। स्त्रैणी। पौंस्नी। शाक्तीकी। याष्टीकी। तरुणी। तलुनी।
`सर्वत्र` इति। स्त्रीप्रकरणे। ननु च `पत्युर्नो यज्ञसंयोगे` 4|1|33 `इतो मनुष्यजातेः` 4|1|65 इत्यादौ नानुवत्र्तते, तस्यात इत्यस्यासम्भवाद्विशेषणं नोपपद्यत इत्याह-- `तत् सति` इत्यादि। यत्र सम्भवति तत्र विशेषणं भवति, यत्र तु न सम्भवति तत्रोत्तरार्थमेवानुवत्र्तते। इह कस्मान्न भवति-- `पचमाना` इति। स्थानिवद्भावेन शानचष्टित्त्वमस्ति, अतस्तदन्तादपि ङीपा भवितव्यमित्यभिप्रायः। `द्वयनुबन्धकत्वाल्लटः` इति। तेन `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इत्येतया परिभाषया लटोऽत्र ग्रहणं नास्तीति दर्शयति, तस्य ह्रकारो द्वितीयोऽनुबन्धोऽस्ति।`ल्युडादिषु कथम्` इति। ईकारो भवतीति शेषः। आदिशब्देन `गापोष्टक्` 3|2|8 इत्येवमादयो गृह्रन्ते। ल्युडादीनामपि द्व्यनुबन्धकत्वाट्टिद्ग्रहणेन भवितव्यम्, अतस्तदन्तेभ्यो ङीब्न स्यात्, ततश्चक करणी, सामगीत्यादि न सिध्येत्। `टित्करणसामथ्र्यात्` इति। यदि तेषामपि टिद्ग्रहणेन ग्रहणं न स्याट्टित्करणमनर्थकं स्यात्; प्रयोजनान्तरासम्भवात्। तस्मात् सत्यपि द्व्यनुबन्धकत्वे टित्करणसामथ्र्याल्ल्युडादयो गृह्रन्त इत्यदोषः। लटोऽपि तर्हि टित्करणसामथ्र्यादेव ग्रहणेन भवितव्यमित्यत आह--`इतरत्र` इति। लटि हि टित्करमस्य `टित आत्मनेपदानां टेरे` 3|4|79 इति टेरेत्वं फलम्। अतो यद्यपि ग्रहणं न भवति, तथापि नैव टित्करणस्य वैयथ्र्यं प्रसज्येत। तस्मात् टित्करणसामथ्र्याल्ल्युडादयो गृह्रन्त इत्यदोषः। लटोऽपि तर्हि टित्करणसामथ्र्यादेव ग्रहनेन भवितव्यमित्यत आह--`इतरत्र` इति। लटि हि टित्करणस्य `टित आत्मनेपदानां टेरे` 3|4|79 इति टेरेत्वं फलम्। अतो यद्यपि तस्येदं ग्रहणं न भवति, तथापि नैव टित्करणस्य वैयथ्र्यं प्रसज्येत। तस्मात् टित्करणस्य चरितार्थत्वादयुक्तं तस्येदं ग्रहणम्।`पठिता विद्या` इति। अत्रापि कथमिति सम्बध्यते। इडागमस्य हि प्रत्ययभक्तत्वात् प्रत्ययस्य टित्त्वमस्ति, ततस्च ङीपा भवितव्यम्, तत्कथं पठितेत्येतद्रूपं भवतीति?`आगमटित्त्वमनिमित्तम्` इति। प्रकृतत्वात् ङीप इति विज्ञायते। कथं ज्ञायतेऽयमनिमित्तमित्याह--`टउटउलौ` इत्यादि। तुड् वेत्यागमटित्त्वेनैव सिद्धे ङीपि `सायंचिरं प्राह्ण` 4|3|23 इत्यादिसूत्रे `टउटउलौ` इति पुनः प्रत्ययोष्टत्करणं ज्ञापकम्--- आगमटित्त्वमनिमित्त्वं ङीप इति।`सोपर्णेयी,वैनतेयी` इति। सुपर्णीशब्दाज्जातिलक्षमङीषन्ताद्विनताशब्दाच्च टाबन्तात् `स्त्रीभ्यो ढक्` 4|1|120 इति ढक्। आयमन्नादि 7|1|2 सूत्रेणैयादेशः। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति ढको ग्रहणेन न भवितव्यमित्यत आह-- `निरनुबन्धको ढशब्दः` इत्यादि। ननु चायं निरनुबन्धकोऽस्ति `शिलायाः ढः` 5|3|102 इति? नैतदस्ति; स्वभावत एव ह्रयं नपुसंके वत्र्तते। अयं तह्र्रस्ति स्वाभाव्यात्-- `{सभाया ढश्छन्दसि इति मुद्रितः पाठः} सभाया यः` 4|4|104 `ढश्छन्दसि` 4|4|106 इति? अयमपि नैव स्त्रियां वत्र्तते, छन्दसि सभेयीशब्दस्य प्रयोगादर्शनात्। तस्मान्नरनुबन्धको ढशब्द स्त्रियां नास्तीति नेह निरनुबन्धकपरिभाषोपतिष्ठते; अन्यथा हि ढग्रहममनर्थकं स्यात्।`णेऽपि` इति। अणि यत् कार्यं कृतं तण्णेऽपि क्वचिदिति क्वचिन्न भवतीत्युक्तं भवति। क्व पुनर्णेऽप्यण्कृतं कार्यं भवतीति? ताच्छीलिके। तथा हि `कार्मस्ताच्छील्ये` 6|4|172 इत्यत्र ज्ञापितमेतत्- णेऽप्यण्कृतं कार्यं भवतीति, कथम्? कार्मशब्दो हि ताच्छील्ये टिलोपार्थं निपात्यते। यदि न णेऽप्यण्कृतं कार्यं न स्यात् निपातनमनर्थकं स्यात्। कर्मशब्दात् कर्म शीलमस्येति `छत्त्रादिभ्यो णः` 4|4|62 इति णे कृते `नस्तद्धिते` 6|4|144 इत्येवं टिलोपस्य सिद्धत्वात्। `अन्` 6|4|167 इति प्रकृतिभावान्न सिध्यतीति चेत्? नैतदस्ति; अणि हि प्रकृतिभाव उच्यते, तत्र `इनण्यनपत्ये` 6|4|64 इत्यतोऽणीत्यनुवत्र्तते। तदेवं `ताच्छीलिके णेऽप्यणि कृतं कार्यं भवति` इत्यस्यार्थस्य ज्ञापितत्वात् तत्रैवाण्कृतं कार्यं भवति, नान्यत्र। ` चौरी, तापसी` इति। चुरा शीलमस्यास्तपः शीलमस्या इति `छत्त्रादिभ्यो णः` 4|4|62 णेऽप्यण्कृतं भवतीति ङीप्। `दाण्डा मौष्टा` इति। दण्डः प्रहरणस्याम्, मुष्टिः प्रहरणस्यां क्रीडायामिति `तदस्यां प्रहरणम्` 4|2|56 इति क्रीडायां णः। अथाणित्यकारादारभ्य लणो णकारात् प्रत्याहारग्रहणं कस्मान्न भवति? टिबादीनां पुनग्र्रहणात्। प्रत्याहारग्रहणे हि तेषां ग्रहणमनर्थकं स्यात्, अणन्तादेव सिद्धत्वात्।`औत्सी, औदपानी` इति। उत्सस्योदपानस्येयमिति `उत्सादिभ्योऽञ्` 4|1|86 इत्यञ्। अथ `शाङ्र्गरवाद्यञो ङीन्` 4|1|73 इत्यत्र पुनरञ्ग्रहणं किमर्थं क्रियते,।यावतानेनैव सिद्धम्, तदेव हि रूपं स एव हि स्वरः, तथा हि-- ङीनि सति `ञ्नित्यादिर्नित्यम्` 6|1|191 इत्याद्युदात्तं भवति,औत्सीत्यत्राप्युत्सशब्दादञन्तान्ञित्स्वरेणाद्युदात्तान्ङीपि कृते तदेवाद्युदात्तत्वं भवति? इत्याह-- `शाङ्र्गर्वाद्यञः` इत्यादि। बिदस्यापत्यं गोत्रं स्त्रीति `अनृष्यानन्तर्य्ये बिदादिभ्योऽञ्` 4|1|104 इत्यञि कृते तस्य `गोत्रञ्च चरणैः सह` (का।वृ।4.1.63) इति जातित्वात् `जातेरस्त्रीविषयादयोपधात्` 4|1|63 इति ङीष् प्राप्नोति। तद्बाधानार्थं पुनः `शाङ्र्गरवाद्यञो ङीन्` 4|1|73 इत्यत्राञो ग्रहमं क्रियते। यद्येवम्, इहाञ्ग्रहमं न कत्र्तव्यम्, तेनैवोत्सीत्यादेरपि सिद्धत्वात्? नैतदस्ति; जातिग्रहणं तत्र `इतो मनुष्यजातेः` 4|1|65 इत्यतोऽनुवत्र्तते `पुंयोगादाख्यायाम्` 4|1|48 इत्यादिनाञ् बैदः, तस्य भार्या बैदीति, तस्य पुंयोग ङीषेवेष्यते, तस्मात् तत्र जातिग्रहणमनुवत्र्तनीयम्। तस्मश्चानुवत्र्तमान औत्सीत्यत्रोत्सस्येयमित्यर्थविवक्षायामञि कृतेऽजातित्वादीकारस्तत्र न प्राप्नोति,तस्मादिहाप्यञ्ग्रहणं कत्र्तव्यमेव।द्वयसजादीनामनुबन्धोच्चारणं प्रत्ययपरिग्रहार्थम्। प्रातिपदिकान्यपि द्व्यसजादीनि सन्ति, तत्रासत्यनुबन्धोच्चारणे तेषामपि ग्रहणं विज्ञायेत। तयशब्दोऽपि `अय वय तय {णय-धातुपाठः-} नय गतौ` (धातुपाठः-474,485,479,480) इति तयो धातोरजन्तं प्रातिपदिकं सम्भवति, अतस्तन्निवृत्त्य्रथं पकारोच्चारणम्।`ऊरुद्वयसी` इत्यादि। ऊरुप्रमाणमस्याः, जानुप्रमाणस्या इति `प्रमाणे द्वयसज्दघ्नञ्मात्रचः` 5|2|37 इति द्वयसजादयः प्रत्ययाः।`पञ्चतयी` इति।पञ्चावयवा अस्या इति `संख्याया अवयवे तयप्` 5|2|42 ।`आक्षिकी, शालाकिकी` इति। अक्षैर्दीव्यति शलाकाभिर्दीव्यतीति `तेन दीव्यतिखनति` 4|4|2 इत्यादिना ठक्, ठस्येकादेशः।`लावणिकी` इति। लवणं पण्यमस्या इति `लवणाट्ठञ्` 4|4|52 । अथ किमर्थं ठक्ठञौर्भेदेनोपादानाम्? न विशेषकरानुबन्धानुत्सृज्य `ठ`इति सामान्येनैव ग्रहणं क्रियेतेत्यत आह-- `भेदेन` इत्यादि। `ठ` इति सामान्येन ग्रहणे सति ठनादीनामपि ग्रहणं स्यात्, अतस्तन्निवृत्त्यै भेदेन ग्रहणम्। आदिशब्दो ञिठादीनां परिग्रहाय, तेन दण्डोऽस्यास्तीति `अत इनिठनौ` 5|2|114 इति ठनि कृते दण्डिकीति न भवति, काशिषु भवेति `काश्यादिभ्यष्ठाञ्ञिठौ` 4|2|115 इति ञिठे प्रत्यये कृते काशिकीति न भवति।कञोनुबन्धग्रहणं `आतोऽनुपसर्गे कः` 3|2|3 इत्येवादीनां निवृत्त्यर्थम्। `यादृशी, तादृशी` इति। `त्यदादिषु दृशेरनालोचने कञ्च` 3|2|60 इति कञ्, `आ सर्वनाम्नः` 6|3|90 इति यत्तदोरात्त्वम्। क्वरपोऽनुबन्धोच्चारणं `स्थेशभास` 3|2|175 इत्यादिना विहितस्य वरचो निवृत्यर्थम्। यद्येवम्, एक एवानुबन्ध उच्चारणीयः, एकेनापि वरचो निवृत्तिः सिध्यत्येव? सत्यमेतत्, तथापि मन्दबुद्धीनां सुखप्रतिपत्तयेऽनुबन्धद्वयोच्चारणम्।`इत्वरी, नआरी`इति। `इण्नश्जसर्त्तिभ्य- क्वरप्` 3|2|163 ह्यस्वस्य तुक्। ख्युनोऽनुबन्धोच्चारणं लाघवार्थम्; अनयथा हि षष्ठीबहुवचने कृते नुटि नामि दीर्घत्वे च गुरुच्चारणं स्यात्। `आढङ्करणी` इति। अनाढ आढ्यः क्रियतेऽनयेति `आढसुभग` 3|2|56 इत्यादिना ख्युन्, `अरुर्द्विषदजन्तदस्य मुम्` 6|3|66 ।नञ्स्नञीकक्` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकारोऽनुक्तसमुच्यार्थः, तेन नञादिभ्योऽपि भविष्यतीति। `स्त्रैणी,पौस्नी` इति। स्त्रिया इयम्, पुंस इयमिति `स्त्रीपुंसाभ्यां नङस्नञौ भवनात्` 4|1|87 इति नञ्सञौ। `शाक्तीकी, याष्टीकी` इति। शक्तिः प्रहरणमस्याक्षितम्। तरुणी सुरा,तलुनी सुरेति-- अत्र सुरादौ विषये तरुणतलुनशब्दाभ्यां ङीब्वेदितव्यः, न हि सुरादीनां वयोऽस्ति,तस्य प्राणिधर्मत्वात्। अभिनत्वमात्रं सुरादीनां तरुणतलुनशब्दाभ्यां गम्यते। यदा तु वयो विवक्ष्यते तदा गौरादिपाठान्ङीषा भवितव्यम्। तत्र स्वरे विशेषः-- तरुणतलुनशब्दौ हि `{कृवृदारिभ्य उनन्` (द।उ।5।52) `त्रो रश्च लो वा` (द।उ।5।56) इत्युननप्रत्ययान्तौ व्युत्पादितौ,अतो नित्स्वरेणाद्युदात्तौ। तत्र ङीपि सत्याद्युदात्तत्वं भवति; ङीषि तु सति प्रत्ययस्वरेणान्तोदात्तत्वम्॥
इह कस्मादिति । लडादेशस्य स्थानिद्भावेन टित्वमस्तीति प्रश्नः । पवामाना, यजमानेति । ननु शानन्नादिषु लट इत्यस्य निवृतत्वाद् अनादेशपक्षः स्थापितः, पवमानेत्यादिषु शानजुदाहर्तव्यः । द्व्यनुबन्धकत्वाल्लट इति । लडादिष्वकारादयोऽप्यनुबन्धा इति भावः । एतेन लिड्लृटौ व्याख्यातौ---अनूचाना, यक्ष्यमाणेति । ल्युडादिषु कथमिति । द्व्यनुबन्धकत्वातेषामपि ग्रहणे न भाव्यमिति प्रश्नः । टित्करणसामर्थ्यादिति । न च लडादिष्वपि टित्करणसामर्थ्यमित्याह---इतरत्रेति । पठिता विद्येति । कथमित्यनुषङ्गः । इटष्टित्वमुभयार्थं स्यादिति प्रश्नः । आगमटित्वमनिमितमिति । आगमानां टित्वं ङीपो निमितं न भवतीत्यर्थः । कुत इत्यत आह---ट।लुट।लुलौ तुट् चेति लिङ्गादिति । यद्यागमटित्वं ङीपो निमितं स्याततः सायन्तनीत्यादौ तुट आगमस्य टित्वान्ङीप् सिद्ध इति ट।लुट।लुलोष्टित्करणमनर्थकं स्यादिति भावः । ननु च ठ्पुराणप्रोक्तेषुऽ इति निर्देशेन यदा तुड् न भवति तदा ङीबर्थं तयोष्टित्वं स्यात् ? तन्न; पुराणशब्दाद्वह्वादिषु पाठान्ङीषा भवितव्यम्, अन्तोदातो हि पुराणीशब्दः---पुनः पुनर्जायमाना पुराणीति यथा । एवमपि न ज्ञापकम्, ठ्बह्वादिभ्यश्चऽ इत्यत्र वेति वर्तते, ततश्च ङीषा मुक्ते ङीब् यथा स्यादिति ट।लुट।लुलोष्टित्वं स्यादिति चिन्त्यमेतत् । सौपर्णेयीति । सुपर्णशब्दात्पाककर्णादिङीषन्तात्स्त्रीभ्यो ढक् । ननु च सानुबन्धकत्वादस्य ग्रहणेन भवितव्यमत आह---निर नुबन्धक इति । यद्यपि ठ्शिलायाढःऽ इति निरनुबन्धको ढशब्दोऽस्ति, स इह स्वभावान्नपुंसकलिङ्ग इति स्त्रियां नास्तीत्युक्तम् । योऽपि ठ्सभाया यःऽ, ठ्ढश्च्छन्दसिऽ इति ढः, सोऽपि स्त्रियां न वर्तते, कथम् ? तत्र ठ्तत्र साधुःऽ इति वर्तते, कथं च स्त्री नाम सभायां साध्वी स्याद्यज्ञसभायां हि विदुषामधिकारः ! ननु मा नाम भूद्यज्ञसभायां साध्वी, शालायां स्त्रीसभे च साध्वी भविष्यति, तत्र यज्ञसभायां साध्वी ब्राह्मणपरिषदित्यत्रापि प्रसङ्गः ? एवं तर्ह्येवंविधे विषये च्छन्दसि सभेयीशब्दस्य प्रयोगाभावोऽत्र हेतुः । णेऽपि क्वचिदण्कृतं कार्यं भवतीति । शीलम् ठ्च्छत्रादिभ्यो णःऽ इति यो णस्तत्राण्कृतं कार्यं भवतीति । कथम् ? ज्ञापकात्, यदंयम् ठ्कार्मस्ताच्छील्येऽ इति टिलोपार्थं निपातनं करोति । यदि हि ताच्छीलिके णेऽण्कृतं कार्यं न स्यान्निपातनमनर्थकं न स्यात्, कर्मशब्दाच्छत्रादिलक्षणे णे कृते ठ्नस्तद्धितेऽ इत्येव टिलोपस्य सिद्धत्वात् । न च ठन्ऽ इति प्रकृतिभावः, अणि हि स प्रकृतिभावः । चौरी, तापसीति । चुरातपः शब्दौ च्छत्रादिषु पठितव्यौ । क्वचिदित्यस्य व्यावर्त्यं दर्शयति---दाण्डा, मौष्टेति । द्रण्डमुष्टिशब्दाभ्यां ठ्तदस्यां प्रहरणम्ऽ इति णः । औत्सी, औदपानीति । उत्सोदपानशब्दाभ्यां भवार्थे ठुत्सादिभ्योऽञ्ऽ । अथ सार्ङ्गरवादिसूत्रे पुनरञ्ग्रहणं किमर्थम्, यावताऽनेनैव सिद्धम्, न रूपभेदो न स्वरभेदः ? तत्राह---शार्ङ्गरवाद्यञ इत्यादि । बिदस्यापत्यं बैदी, ठनुष्यानन्तर्ये बिदादिभ्योऽञ्ऽ गोत्रं च चरणैः सहऽ इति जातिः, तत्रौत्सीत्यादौ चरितार्थमिमं ङीपं बाधित्वा जातिलक्षणो ङीष् प्राप्नोति । यदि तर्हि तस्य निबन्धनमस्ति तदेवाञ्ग्रहणमस्तु, किमत्राञ्ग्रहणेन ? न वा जात्यधिकारात्, ठ्जातेःऽ इति हि तत्र वर्तते, अनधिकारे हि पुंयोगादाख्यायां ङीप्प्रसङ्गः---बैदस्य स्त्री बैदी । उरुद्वयसीत्यादौ ठ्प्रमाणे द्वयसच्दघ्नञ्मात्रचःऽ । पञ्चतयीति । ठ्सख्याया अवयवे तयप्ऽ । द्वयसजादिषु अनुबन्धोच्चारणं प्रातिपदिकानां ग्रहणं मा भूत्---किमस्य द्वयसम्, किसमस्य मात्रमिति । तयशब्दोऽपि तयतेः पचाद्यजन्तः सम्भवति । ठनादिनिवृत्यर्थमिति । दण्डोऽस्या अस्ति ठत इनिठनौऽ इण्डिका, ठ्काश्यादिभ्यष्ठ ञ्ञिठौऽ काशिकेत्यादौ मा भूदित्येवमर्थम् । तादृशीति । ठ्त्यदादिषु दृशोऽनालोचने कञ्चऽ, ठा सर्वनाम्नःऽ । कञो ञकारोच्चारणम् ठातोऽनुपसर्गे कःऽ गोदेत्यादौ मा भूत् । इत्वरीति । ठिण्नश्जिसर्तिभ्यः क्वरप्ऽ । आढ।ल्ङ्कारणीति । ठाढ।ल्सुभगऽ इत्यादिना ख्युन् । नञ्स्नञीकक्तरुणतलुनानामिति । भाष्ये तु ठ्कञ्क्वरपःऽ इत्येतावत्सूत्रम्, ख्युनः पाठोऽनार्ष इति तस्याप्युपसंख्यानमेव कृतम् । स्त्रैणी, पाéस्नीति । ठ्स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्ऽ । शक्तीकी, याष्टीकीति । प्रहरणाधिकारे ठ्शक्तियष्ट।लेरीकक्ऽ । तरुणी, तलुनीति । एतयोरवयोऽर्थं ग्रहणम्---तरुणी सुरति, वयसि तु ठ्वयसि प्रथमेऽ इत्येव सिद्धम् ? न सिध्यति; गौरादिपाठान्ङीष प्राप्नोति । तस्माद्वयस्यवयसि च ङीब्ङीषोविकल्पः । क्वचिद् गौरादिपाठात्सिद्धमिति पठ।ल्ते, तद्रूपमात्रसिद्ध्यभिप्रायं द्रष्टव्यम्, स्वरार्थं तूपसंख्यानं कर्तव्यमेव ॥
सिद्धान्तकौमुदी
अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन [(परिभाषा - ) लाश्रयमनुबन्धकार्यं नादेशानाम्] इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ [(परिभाषा - ) ताच्छीलिके णेऽपि] ॥ चौरी ॥ ।नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम् (वार्तिकम्) ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥
टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (टिद्॰क्वरप्ख्युनाम्) - टिड्ढाणञ् । टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्,-एषां द्वादशानां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । ढादय एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययोऽप्रत्ययश्च । टिदादिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात्तदन्तविधिः । ततश्च टिदन्ताड्ढाणादिप्रत्ययान्तान्ताच्च प्रातिपदिकादिति लभ्यते । "अजाद्यतष्टाप्" इत्यस्मादत इत्यनुवृत्तं, तेनापि प्रातिपदिकं विशेष्यते । तदन्तविधिः ।अनुपसर्जना॑रित्येतच्छतेषु टिदादिष्वेवान्वेति, नतु तदन्तेषु । स्त्रियामित्यधिकृतं । तदाह — अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति । टिदन्तं, ढादिप्रत्ययान्तं चेत्यर्थः । टित्रिविधिः । प्रत्ययः, प्रातिपदिकं, धातुश्च । तत्राद्यमुदाहरति — कुरुचरीति । कुरुषु चरतीत्यधिकरणे उपपदे "चरेष्टः" इति कर्तरि टः । टकार इत् । उपपदसमासः । नच प्रत्ययस्यैवाऽत्र टित्त्वात्प्रत्ययग्रहणुपरिभाषया चरेत्येव टिदन्तं, नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यं, नदट् देवडित्यादेरप्रत्ययस्यापि टितः सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषाया अप्रवृत्तौ "येन विधिः" इति टिदन्तत्वस्य कुरुचरशब्दे सत्त्वात् । अथ द्वितीयं टितमुदाहरति-नदडिति । पचादिगणे पठितं प्रातिपदिकमेतत् । तृतीयं तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसप्जनत्वविशेषणस्य प्रयोजनमाह — बहुकुरुचरेति । बहवः कुरुचरा यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थप्रधानः । ततश्च टितष्टप्रत्ययस्य उपसर्जनत्वान्न ङीप् । अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वारः । अतएव च आपिशालिना प्रोक्तमधीते आपिशला ब्राआहृणीत्यत्रापि न ङीप् । तत्र हि आपिशलिना प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे "तदधीते तद्वेदे" त्यणिप्रोक्ताल्लुगि॑ति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनुपसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात्स्त्रियां वर्तमानत्वाच्च अणन्तत्वनिबन्धनो ङीब्दुर्वारः स्यात् । तस्य च श्रुतटिदाद्यन्वये तु प्रोक्ताऽण उपसर्जनत्वान्न दोषः । अध्येत्रण्तु लुप्तः, अणोयोऽकार इति व्याख्यानेन वर्णाश्रयतया प्रत्ययलक्षणाऽभावात् । नच स्त्रिया॑मित्यस्य श्रुतटिदादिविशेषणत्वात्प्रोक्ताऽणश्चस्त्रियामवर्तनादेव न ङीपः प्रसक्तिरिति वाच्यं, ज्ञापिते तदन्तविधौ प्राधान्यात्स्त्रिया॑मित्यस्य ङीप्प्रकृतिविशेषणताया एव उचितत्वात्, अन्यथा अनुपसर्जनाधिकारवैयथ्र्याच्च । अतएव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम् । स्यादेतत्-॒वच परिभाषणे॑ । अस्मात्कर्मणि, लृट्, "लृटः सद्वा" इति तस्य शानजादेशः, "स्यतासी लृलुटोः" इति स्यः कुत्वषत्वे, आने मुक्, णत्वम्, टाप्, वक्ष्यमाणेति रूपम् । अत्र लृडादेशस्य स्थानिवत्त्वेन टित्त्वादुगित्वाच्चटिड्ढाणञि॑तिउगितश्चे॑ति च ङीप् प्राप्नोति । नच स्थानिनो लृटष्टकारस्य ऋकारस्य च इत्त्वाश्रयणान्ङीब्विधेरल्विधित्वादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्त्वस्यन ल्यपी॑ति निषेधेन लिङ्गेन अनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनात् । अनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तौ हि क्त्वादेशस्य ल्यपः कित्त्वाऽप्रसक्तेस्तस्मिन्परत ईत्वस्याऽप्रसक्त्या तन्निषेधवैयर्थ्यां स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्त्वेन शानचष्टित्त्वादुगित्वाच्च ङीब्दुर्वार इत्याशङ्क्य परिहरति — वक्ष्यमाणेत्यादिना । वक्ष्यमाणेत्यत्र टित्त्वादुगित्वाच्च ङीप् प्राप्तो न भवतीत्यन्वयः । कुतो नेत्यत आह — यासुट इत्यादि, ज्ञापनादित्यन्तम् ।यासुट् परस्मैपदेषूदात्तो ङिच्चे॑ति लिङादेशानां-तिप्तस्झीत्यादिपरस्मैपदानां यासुडागमस्य ङित्त्वं विहितम् । "यदागमाः" इति न्यायेन यासुडागमो लिङादेशावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटस्तद्विधिवैयथ्र्यं स्यादतोलाश्रयमनुबन्धकार्यमादेशाना ने॑ति विज्ञायते । ततश्च वक्ष्यमाणेत्यत्र लृडादेशस्य शानचष्टिदुगित्कार्ये ङीपि कर्तव्ये स्तानित्त्वाऽभावान्न ङीबित्यर्थः । ननुलाश्रयमनुबन्धकार्यमादेशानां ने॑ति ज्ञापनेऽपि ब्राऊतादित्यत्र "ब्राउव ईट्" इति पितो विधीयमान ईडागमो दुर्वारः । तस्य तिबाश्रयत्वे ।ञपि लाश्रयत्वाऽभावेन तस्मिन्कर्तव्ये तातङः स्थानिवत्त्वेन पित्त्वस्य निर्बाधत्वादित्यस्वरसादाह — श्नः शानच इति । श्ना इत्यस्मात्षष्ठएकवचने आल्लोपे "श्न" इति रूपम्, "आतो धातोः" इत्यत्र "आत" इति योगविभागमाश्रित्य अधातोरपि क्वचिदाल्लोपाभ्युपगमात् । "हलः श्नः शानज्झौ" इति स्नाप्रत्ययस्य शानजादेशो विधीयते । तत्र स्थानिवत्त्वेनैव सिद्धत्वाच्छानचः शित्त्वं व्यर्थम् । नचानल्विधाविति निषेधः शङ्क्यः,न ल्यपी॑ति लिङ्गेनाऽनुबन्धकार्येऽनल्विधाविति निषेधाऽभावस्यानुपदमेवोक्तत्वात् । एवं च क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कार्ये ङीपिअनल्विधा॑विति निषेधप्रवृत्त्या स्थानिवत्त्वाऽभावेन टित्त्वोगित्त्वयोरबावान्न ङीबित्यर्थः । वस्तुतस्तुलाश्रयमनुबन्धकार्यं नादेशाना॑मित्यत्र यासुटो ङित्त्वं न ज्ञापकं, तस्य तिप्सिब्मिवर्थत्वात् । नहि लिङादेशत्वेऽपि तिप्सिब्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् , "हलः श्नः शानज्झौ" इति सूत्रे भाष्येङिच्च पिन्न, पिच्च ङिन्ने॑ति प्रपञ्चितत्वात् । तथा श्नश्शानचः शित्त्वमपि न लिङ्गं, तत्र शित्त्वस्य भाष्ये प्रत्याख्यातत्वात् । प्रत्युत शित्त्वस्य ज्ञापकत्वेसेह्र्रपिच्चे॑ति हेरपित्त्वस्य तातङो ङित्त्वस्य च वैयथ्र्यमिति भाष्ये दूषणाभिधानाच्च । तस्माद्वक्ष्यमाणेत्यत्र ङीबेव युक्तः, टाप् त्वसाधुरेव । अजादित्वाट्टाबिति वा कथञ्चित्समाधेयमित्यास्तां तावत् ।सौपर्णेयीति । सुपण्र्या अपत्यं स्त्रीत्यर्थेस्त्रीभ्यो ढ॑गिति ढकिआयने॑यित्येयादेशः ।यस्येति चे॑तीकारलोपः,किति चे॑त्यादिवृद्धिः । सौपर्णेयशब्दान्ङीप्,यस्येति चे॑त्कारलोपः, सौपर्णेयीति रूपम् । न चनिरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषाया "शिलाया ढः" ढश्छन्दसि॑ इत्यनयोरेव ग्रहणमिति वाच्यं, तयोः स्त्रियामप्रवृत्तेरगत्या सानुबन्धकस्य ढस्य ग्रृहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति । इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, "सास्य देवता" इत्यमि,यस्येति चे॑त्यकारलोपः, आदिवृद्धिः । ऐन्द्रशपब्दान्ङीप्,यस्येति चे॑त्यकारलोपः । इन्द्रस्येयमिति वा विग्रहः,तस्येद॑मित्यण् । औत्सीति ।उत्सः प्रस्नवणं वारि॑ इत्यमरः । ऋषिविशेषो वा उत्सः । उत्सस्येयमिति विग्रहः ।उत्सादिभ्योऽञ् ।यस्येति ट॑ । ङीप् । उत्सस्यापत्यं स्त्री औत्सीति तु नोदाहरणम्, जातेरित्यनुवृत्तौशाङ्र्गरवाद्यञो ङी॑नित्येव सिद्धेः,गोत्रं च चरणैः सहे॑त्यपत्यप्रत्ययान्तस्य जातित्वादित्यलम् । ऊरुद्वयसी ऊरुदघ्नी ऊरुमात्रीति । ऊरू प्रमाणमस्या इति विग्रहः ।प्रमाणे द्वयसच्दघ्नञ्मात्रचः॑ । ङीप् । पञ्चतयीति । पञ्च अवयवा यस्या इति विग्रहः ।सङ्ख्याया अवयवे तयप् । ङीप् । आक्षिकीति । अक्षैर्दीव्यतीति विग्रहः ।तेन दीव्यति खनति जयति जित॑मिति ठक्, आदिवृद्धिः, "ठस्येकः"यस्येति चे॑त्यकारलोपः । आक्षिकशब्दान्ङीप्,यस्येति च॑ । लावणिकीति । लवणं पण्यमस्या इति विग्रहः । "लवणाट्ठञ्" ठस्येकः॑, आदिवृद्धिः,यस्येति च॑, लावणिकशब्दान्ङीप्, "यस्येति च" ठेत्येव सिद्धे ठक्ठञोः पृथग्ग्रहणं तु ठनो ञिठस्य च व्यावृत्त्यर्थम् । दण्डोऽस्त्यस्याः दण्डिका ।अत इनिंठनौ॑ । काश्यां भवा काशिका ।काश्यादिभ्यष्ठञ्ञिठौ॑ इति ञिठः । यादृशीति । "त्यदादिषु दृशः" इति यच्छब्दे उपपदे कञ्, "आ सर्वनाम्नः" इति यच्छब्दस्याकारः । ङीप्,यस्येति च॑ । इत्वरीति । "इण् गतौ"इण्नशजिसर्तिभ्यः क्वरप् ॑ ।ह्यस्वस्य पिति कृति॑ इति तुक् । इत्वरशब्दान्ङीप् ।यस्येति च॑ ।स्थेशभासे॑ति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् ।विन्यस्तमङ्गलमहौषधिरीआरायाः॑ इति भारविः । "सैनमीआराप्रदह" इति वेदे । क्वरपि अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेरनुबन्धद्वयोपादानं स्पष्टार्थम् । ईआरी तु ईआरशब्दादीआरस्य स्त्रीति पुंयोग ङीष् । अथवाअस्नोतेराशुकर्मणि वरट् चे॑ति वरडन्ताट्ठित्त्वान्ङीप् । यद्वाआतो मनिन्क्वनिब्वनिपश्च॑ अन्येभ्योऽपि "दृश्यते" इति क्वानिपि वनिपि चवनो र चे॑ति ङीब्राऔ ।ताच्छीलिके णेऽपीति । तच्छीले भवस्तच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् णप्रत्यये सति तदन्तादपि ङीब्भवतीत्यर्थः । ज्ञेपकसिद्धमेतत् । तथाहि — ॒शील॑मित्यनुवृत्तौ "छत्रादिभ्यो णः" इति विहिते णप्रत्ययेऽण्कार्यं भवति, "कार्मस्ताच्छील्ये" इति ज्ञापकात् । कर्म शीवमस्येति विग्रहे छत्रादित्वाण्णप्रत्यये "नस्तद्धिते" इति टिलोपे, "कार्म" इति भवति, नतु "अन्" इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात्ताच्छीलिके णुप्रत्ययेऽण्कार्यं विज्ञायते । अतस्ताच्छीलिकणप्रत्ययान्तादण्कार्यं ङीब् भवतीति भावः । चौरीति । चुरा शीलमस्या इति विग्रहः । छत्रादित्वाण्णः । आदिवृद्धिः ।यस्येति च॑ । चौरशब्दान्ङीपि,यस्येति च॑ ।नञ्सन्ञ् । नञ्, स्नञ्, ईकक्, ख्युन्, तरुण, तलुन — एतेषामपि ङीब्विधिवचनं कर्तव्यमित्यर्थः । नञादयश्चत्वारः । प्रत्ययाः, अतस्तदन्तविधिः । स्त्रौणी पौंस्नीति । "स्त्रीपुंसाभ्याम्" इति नञ्स्नञौ । तत्र स्त्रीशब्दान्नञि, आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । पुंस्शब्दात्स्नञि, आदिवृद्धिः, ङीप्,यस्येति च॑ । शाक्तीकीति । शक्तिः-आयुधविशेषः प्रहरणमस्या इति विग्रहः ।शकिंतयष्ठओरीकक् । आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । आढङ्करणीति । अनाढ आढ्यः क्रियते अनयेति विग्रहः ।आढसुभगे॑त्यादिना ख्युन् । "युवोः" इत्यनादेशः । "अरुर्द्विषत्" इति मुम्, णत्वम्, ङीप्,यस्येति च॑ । तरुणी तलुनीति । यद्यप्यनयोः "वयसि प्रथमे" इत्येव ङीप्सिद्धः, तथापि गौरादिषु पाठान्ङीषि प्राप्ते इदं वचनम् । गौरादिपाठान्ङीषि स्वरे विशेष इति भावः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
टिड्ढाणञ्ञ्द्वयसज्दघ्नञ्ञ्मात्रच्तयप्ठक्ठञ्ञ्कञ्ञ्क्वरपः (1289) (ङीबधिकरणम्) (5140 पूर्वपक्षवार्तिकम्।। 1 ।।) - ढग्रहणे सानुबन्धकस्योपसंख्यानम् - (भाष्यम्) ढग्रहणे सानुबन्धकस्योपसंख्यानं कर्तव्यम् ‐ कारिकेयी, हारिकेयी।। किं पुनः कारणं न सिद्ध्यति? (5141 पूर्वपक्षसाधकवार्तिकम्।। 2 ।।) - अननुबन्धकग्रहणे हि न सानुबन्धकस्य - (भाष्यम्) अननुबन्धकग्रहणे हि न सानुबन्धकस्य ग्रहणं भवति इत्येषा परिभाषा कर्तव्या। कान्येतस्याः परिभाषायाः प्रयोजनानि? तव्यग्रहणे तव्यद्ग्रहणं मा भूत्। दिव्ग्रहणे दिवुग्रहणं मा भूत्।। (परिभाषाक्षेपभाष्यम्) ननु चेयमपि कर्तव्या ‐ तदनुबन्धकग्रहणेऽतदनुबन्धकग्रहणं न इति। कान्येतस्याः परिभाषायाः प्रयोजनानि? यत् ग्रहणे ण्यत् ग्रहणं मा भूत्। अङ् ग्रहणे चङ् ग्रहणं मा भूत् अच् ग्रहणे णच् ग्रहणं मा भूत्।। (परिभाषाज्ञापकभाष्यम्) ते द्वे एते परिभाषे कर्तव्ये? न कर्तव्ये। आचार्यप्रवृत्तिर्ज्ञापयति भवत एते परिभाषे इति यदयं वामदेवाद् ङ्यड्ड्यौ (4।2।9) इति ययतौ डितौ करोति।। (प्रथमवार्तिकप्रत्याख्यानभाष्यम्) तत्तर्ह्युपसंख्यानं कर्तव्यम्? न कर्तव्यम्। अननुबन्धको ढशब्दः स्त्रियां नास्तीति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते। ननु चायमस्ति शिलाया ढः (5।3।102) इति। नैष स्त्रियां वर्तते। अयं तर्हि सभाया यः (4।4।105) ढश्छन्दसि (4।4।106) इति। एषोऽपि न स्त्रियां वर्तते।। किं कारणम्? तत्र साधुरिति वर्तते। कथं च स्त्री नाम सभायां साध्वी स्यात्? (5142 पूर्वपक्षवार्तिकम्।। 3 ।।) - अञ्ञ्ग्रहणमनर्थकं तदन्ताद्धि ङीन्विधानम् - (भाष्यम्) अञ्ञ्ग्रहणमनर्थकम्। किं कारणम्? तदन्ताद्धि ङीन्विधानम् ‐ तदन्ताद्ध्यञ्ञन्ताद् ङीन् विधीयते ‐ शार्ङ्गरवाद्यञ्ञो ङीन् (4।1।73) इति।। न चास्ति विशेषः ‐ अञ्ञन्ताद् ङीपो वा ङीनो वा, तदेव रूपं स एव स्वरः।। (5143 समाधानवार्तिकम्।। 4 ।।) - न वा जात्यधिकारात् - (भाष्यम्) न वाऽनर्थकम्। किं कारणम्? जात्यधिकारात्। जातेरिति तत्रानुवर्तते। अजात्यर्थोऽयमारम्भः ‐ औदपानी, औत्सी।। तच्चावश्यं जातिग्रहणमनुर्वत्यम्।। (5144 सिद्धान्तसाधकवार्तिकम्।। 5 ।।) - अनधिकारे हि पुंयोगादाख्यायां ङीन्प्रसङ्गः - (भाष्यम्) अननुवर्तमाने हि जातिग्रहणे पुंयोगादाख्यायां ङीन्प्रसज्येत ‐ बैदस्य स्त्री बैदीति।। (अञ्ञ्ग्रहणद्वयस्य साफल्यबोधकभाष्यम्) यदि तर्ह्यस्य निबन्धनमस्ति, इदमेव वक्तव्यम्। तन्न वक्तव्यम्। तदप्यवश्यं वक्तव्यम्। अक्रियमाणे हि तस्मिन् बैदस्य भगिनी ‐ बैदी, परत्वाज्जातिलक्षणो ङीष् ङीपं बाधेत। ङीनि पुनः सति परत्वाद् ङीन् ङीषं बाधते।। (5145 सूत्रांशपूरकवार्तिकम्।। 6 ।।) - ख्युन उपसंख्यानम् - (भाष्यम्) ख्युन उपसंख्यानं कर्तव्यम् ‐ आढ्यङ्करणी, सुभगङ्करणी। (सूत्रांशपूरकभाष्यम्) अल्पमिदमुच्यते ख्युनः इति ‐ नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्। नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानं कर्तव्यम्। नञ्ञ् ‐ स्त्रैणी। स्नञ्ञ् ‐ पौंस्नी। इर्कक् ‐ शाक्तीकी, याष्टीकी। ख्युन् ‐ आढ्यङ्करणी, सुभयङ्करणी। तरुण, तलुन ‐ तरुणी, तलुनी।।