Page loading... Please wait.
4|1|149 - फेश्छ च
॥ तस्मै पाणिनये नमः ॥
4|1|149
SK 1173
फेश्छ च  
सूत्रच्छेदः
फेः (पञ्चम्येकवचनम्) , छ लुप्तप्रथमान्तनिर्देशः च (अव्ययम्)
अनुवृत्तिः
तस्य  4|1|92 (षष्ठ्येकवचनम्) , अपत्यम्  4|1|92 (प्रथमैकवचनम्) , कुत्सने  4|1|147 (सप्तम्येकवचनम्) , सौवीरेषु  4|1|148 (सप्तमीबहुवचनम्) , ठक्  4|1|148 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) सौविरेषु कुत्सने फेः छः ठक् च
सूत्रार्थः
सौवीरकुलवाचि यः फिञ्-प्रत्ययान्तशब्दः, तस्मात् "तस्य अपत्यम्" अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् "छ" तथा "ठक्" प्रत्ययौ भवतः ।
Additional description will be added soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कुत्सने इत्येव, सौवीरेषु इति च। फेः इति फिञो ग्रहणं न फिनः, वृद्धाधिकारात्। फिञन्तात् प्रातिपदिकात् सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट् ठक्, कुत्सने गम्यमाने। यमुन्दस्य अपत्यं, तिकादिभ्यः फिञ् 4|1|154। तस्यपत्यं यामुन्दायनीयः, यामुन्दायनिकः। कुत्सने इत्येव, यामुन्दायनिः। फिञन्तादौत्सर्गिकस्य अण आगतस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः 2|4|58 इति लुक्। सौवीरेसु इत्येव, तैकायनिः। यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः। सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् समरेत्।
`यमुन्दश्च`इत्यादि। येभ्योऽनेन सूत्रेण छठकाविष्येते, तेषामनेन श्लोकेन परिगणनं क्रियते, तत्तु बहुलग्रहणानुवृत्तेरेव लभ्यत इत्येवं तद्वेदितव्यम्। यमुन्दमुद्दिश्य वृत्तिकारेणैवोदाहरणं दर्शितम्। इतरयोस्तु दर्शयामः-- सुयाम्नोऽपत्यं, फिञ्-- सौयामायनिः,तस्यापत्यं सौयामायनिकः। वृषस्यापत्यं,फिञ्, तस्य वाध्र्यायणिः, तस्यापत्यं वाष्र्यायणीयः,वाष्र्यायणिकः। एते यमुन्दादयः शब्दाः फिञः स्मृताः = फिञन्ता विज्ञाताः। `गोत्रस्त्रियाः कुत्सने ण च` 4|1|147 इत्यादयश्चत्वारो योगाः। तत्राद्यः कुत्सन एव, अन्त्यः सौवीरेष्वेव। मध्यमौ तु द्वौ सौवीरेषु कुत्सायाञ्च शब्दवित्स्मरेत् जानीयात्॥
यमुन्दश्चेत्यादि । अत्र वार्ष्यायणीति शब्दरूपापेक्षाया नपुंसकनिर्देशः । फिञ इति । फिञन्ता इत्यर्थः । स्मृता इति । एते त्रयः फिञन्ताः प्रकृतयः स्मृता इत्यर्थः । सौवीरेषु च कुत्सायामिति । पुनश्चकारो वृतभङ्गभयान्न पठितः । बहुलग्रहणात्सिद्धोऽयमर्थः पूर्वं वृत्तिकृता दर्शितः, इदानीं तु श्लोकवार्तिककारेणेत्यपौनरुक्त्यम् । सुयामशब्दोऽपि तिकादिः । वृषस्यापत्यं वार्ष्यायणिः । अयमपि तिकादिरेव, ठ्दगुकोसलकर्मारच्छागवृषाणां युड् वादिष्टस्यऽ इति वचनाद् आयनादेशे कृते युडागमः ॥
सिद्धान्तकौमुदी
फिञन्तासौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्यात् फिञ् । तस्यापत्यं यामुन्दायनीयः - यामुन्दायनीकः । कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्यणो ण्यक्षत्रिया-(कौमुदी-1276) इति लुक् । सौवीर- इति किम् ? तैकायनिः ॥
फेश्छ च - फेश्छ च ।छे॑ति लुप्तप्रथमाकम् । यमुन्दस्येति ष यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दायनिरिति । यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाऽभावाच्छठगभावेतस्यापत्य॑मित्यण् ।ण्यक्षत्रियार्षे॑ति तस्या लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावेतस्यापत्य॑मित्यण् । "ण्यक्षत्रिये" ति तस्य लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावेतस्यापत्य॑मित्यण् ।ण्यक्षत्रिये॑ति तस्य लुगिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.