॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|147
SK 1171
4|1|147
गोत्रस्त्रियाः कुत्सने ण च  
SK 1171
सूत्रच्छेद:
गोत्रस्त्रियाः - पञ्चम्येकवचनम् , कुत्सने - सप्तम्येकवचनम् , ण (लुप्तप्रथमान्तनिर्देशः) च - अव्ययम्
अनुवृत्ति:
ठक्  [4|1|146] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) गोत्रस्त्रियाः कुत्सने ण ठक् च
सूत्रार्थ:
गोत्रसंज्ञकं यत् स्त्रीलिङ्गवाचि अपत्यम्, तस्मात् "तस्य अपत्यम्" अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् "ण" तथा "ठक्" प्रत्ययौ भवतः ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अपत्यं पौत्रप्रभृति गोत्रं गृह्यते। गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकाराट् ठक् च, कुत्सने गम्यमाने। पितुरसंविज्ञाने मात्रा व्यपदेशो ऽपत्यस्य कुत्सा। गार्ग्याः अपत्यं गार्गः जाल्मः, गार्गिकः। ग्लुचुकायन्याः अपत्यं ग्लौचुकायनः, ग्लौचुकायनिकः। गोत्राद्यूनि इति यूनि प्रत्ययो भवति। गोत्रम् इति किम्? कारिकेयो जाल्मः। स्त्रियाः इति किम्? औपगविर्जाल्मः। कुत्सने इति किम्? गार्गेयो माणवकः।
`अपत्यं प्रौत्रप्रभृति गोत्रं गृह्रते` इति। न लौकिकमपत्यमात्रम्, तद्ग्रहणे हि गोत्रग्रहणमनर्थकं स्यात्। अपत्याधिकारादेव तद्ग्रहणस्य लब्धत्वादिति भावः। `पितुरसंविज्ञाने` इति। अप्रसिद्धौ। तस्य पितुरसंविज्ञानप्रदर्शनार्थं मात्रा यो व्यपदेशोऽस्ति तेन कुत्सा स्यात्। `गार्गो जाल्मो गार्गिकः` इति। गर्गशब्दाद्गोत्रे गर्गादियञन्तात् `यञश्च` 4|1|16 इति ङीपि `हलस्तद्धितस्य` 6|4|150 इतिलोपे सति यकारस्य गार्गी इति स्थिते णठकौ। `ग्लौचुकायनः` इत्यादि। ग्लुचकस्यापत्यं गोत्रं स्त्री `प्राचामवृद्धात्` फिन् बहुलम्` 4|1|160 इति फिन्,ततः `इतो मनुष्यजातेः` 4|1|65 इति ङीष्,ततो णठकौ।`कारिकेयः`इति। कारकशब्दाण्ण्वुलन्ताट्टाप्।कारिकाशब्दोऽयं गोत्रे न वत्र्तते,ततो ढगेव भवति। `औपगविः`इति। उपगोरपत्यं गोत्रं पुमान्ण्, तदन्तादिञेव भवति। अत्र केनचित् प्रतिषिद्धाचरणादिना कुत्सा वेदितव्या।`गार्गेयो माणवकः` इति। अत्र पितरि विज्ञाते मातुः परिज्ञानार्थं तन्मत्रा व्यपदेशः क्रियत इति नास्ति कुत्सा, तेन ढगेन भवति॥
पारिभाषिकस्य गोत्रस्य ग्रहणमित्याह---अपत्यं पौत्रेति । लौकिकस्य त्वपत्यमात्रस्य ग्रहणं न भवति, यदि स्यात् ठ्तत्स्त्रियाःऽ इत्येव ब्रूयात्, तच्छब्देन प्रकृतस्यापत्यस्य परामर्शादेव तदर्थलाभात् । गार्ग इति । गार्गीशब्दो ठ्यञश्चऽ इति ङीबन्तः, तस्य ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावेन पुंशब्दस्यातिदेशात्गार्ग्यशब्दाद्गोत्रस्त्र्यभिधायिनः प्रत्ययः, ठ्यस्येति चऽ, ठापत्यस्य च तद्धितेऽनातिऽ इत्यल्लोपयलौपौ । ग्लौचुकायन इति । ग्लुचुकस्यापत्यम् ठ्प्राचामवृद्धात्फिन्बहुलम्ऽ इति फिन्, ठितो मनुष्यजातेःऽ इति ङीष्, तस्य पुंवद्भावेन निवृत्तिः, ततः प्रत्ययः, णस्य णित्कणभत्र वृद्ध्यर्थम्, गार्ग्यादौ प्रकृतेरेव वृद्धत्वात् । इह तु वतण्डस्यापत्यं गोत्रं स्त्री, ठ्वतण्डाच्च लुक् स्त्रियांम्ऽ वतण्डी, तस्या अपत्यं वातण्डो जाल्म इति पुंवद्भावेन ङीनि निवृते ठ्लुक्ऽ स्त्रियाम्ऽ इत्यस्य ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधाद्वातण्ड।ल्शब्दादेव प्रत्ययः । इह च गार्ग्या अपत्यं स्त्री गार्गा, सा भार्या यस्य स गार्गाभार्य इति ठ्जातेश्चऽ इत्येव पुंवद्भावप्रतिषेधसिद्धिः, ठ्गोत्रं च चरणैः सहऽ इत्यपत्यमात्रं गृह्यते, तेन वृद्धिनिमितस्य चेति पुंवद्भावप्रतिषेधो न प्रयोजनम् । किञ्च---गार्ग्या अपत्यं स्त्रीत्यत्रार्थे नास्ति प्रत्ययः, ठस्त्रियाम्ऽ इति युवसंज्ञाया निषेधाद्गोत्रसंज्ञैवावतिष्ठते, तत्र ठेको गोत्रेऽ इति नियमान्नैव गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययः सम्भवति, तेन नास्ति गार्गा, नतरां गार्गाभार्यः । अपर आह---अस्ति गार्गा, कथम् ? गार्ग्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम्; न हि सा गर्गस्यापत्यं पौत्रप्रभृतेश्चापत्यस्य सोत्रसंज्ञा विधीयते, तदभावाद् ठेतो गोत्रेऽ इति नियमाभावः, ततश्च णस्य भावादस्ति गार्गेति । ये तु नास्ति गार्गेत्याहुः, तेन मन्यन्ते---मातृवंशः पितृवंशश्च द्वावपि वंशौ प्रतीयमपत्यं भवति; अपातहेतुत्वात् । ततश्च गार्ग्या अपत्यं यत्र स्त्री सा गर्गस्या पत्यं भवत्येव, ठ्पौत्रप्रभृतिग्रहणं च व्यवहितापत्योपलक्षण्, तेन गर्गापेक्षया तस्या गोत्रत्वाद् ठेको गोत्रेऽ इति नियमात्प्रत्ययान्तराभाव इति । वृतौ तु क्वचित्पठ।ल्ते---गोत्राद्यौउनीति यूनि प्रत्ययो भवतीति । तदप्यस्मिन्नेव पक्षे घटते, तदाह---गार्ग्या अपत्यं पुमान्युवा भवति गार्गेयो माणवक इति । मातामहादेरुपलक्षणार्थोऽयं प्रयोग इति नास्ति कुत्सा ॥
सिद्धान्तकौमुदी
गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । यस्य-(कौमुदी-311) इति लोपः । आपत्यस्य-(कौमुदी-1082) इति यलोपः ॥
गोत्रस्त्रियाः कुत्सने ण च - गोत्रस्त्रियाः । "ण" इति लुप्तप्रथमाकं चाट्ठगनुकृष्यते । तदाह — गोत्रं यास्त्रीत्यादिना । सामथ्र्यादिति । "एको गोत्रे" इति नियमादिति भावः । गाग्र्या अपत्यमिति । गर्गस्य गोत्रापत्यं स्त्री गार्गी । "गर्गादिभ्यः" इति यञ् ।यञश्चे॑ति ङीप् ।यस्येति चे॑त्यकारलोपः ।हलस्तद्धितस्ये॑ति यकारलोपः ।छ गाग्र्या अपत्यं युवेति विग्रहः । पितुरविज्ञानेमात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे चयस्येति॑चे॑ति लोपे गार्ग गार्गिकः इति सिध्यति, तथापि वस्तुस्थितिमाह — पुंवद्भ्वादिति ।भस्याढे॑इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमब्युपगम्य गाग्र्यशब्दादित्युक्तम् । तच्च समूहाधिकारेभिक्षादिभ्योऽ॑णित्यत्र स्फुटीभविष्यति । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा । गोत्रेति किं । णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्ध्यर्थम् ।
गोत्रस्त्रियाः कुत्सने ण च - गोत्रस्त्रियाः । णित्त्वं तु ग्लुचुकायन्या अपत्यं ग्लौचुकायनो जाल्मः॑इत्य्तर फिन्नन्ताण्णे वृद्द्यर्थमिति बोध्यम् । समाथ्र्याद्यूनीति ।गोत्रादपरो गोत्रप्रत्ययो ने॑त्युक्तत्वादिति भावः । गाग्र्या अपत्यमिति । पितुरसंविज्ञाने मात्रा व्यपदेशात्कुत्सा । गोत्रेति किम् । कारिकेयो जाल्मः । स्त्रियाः किम् । औपगवस्यापत्यम् औपगविर्जाल्मः । कुत्सने किं । गार्गेयो माणवकः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
गोत्रस्त्रियाः कुत्सने ण च (1393) (ण ठक् प्रत्ययाधिकरणम्) (णित्वाक्षेपे भाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः, ञ्ञ्णितीति वृद्धिर्यथा स्यात्, गार्गो जाल्मः।। (5295 णित्वाक्षेपवार्तिकम्।। 1 ।।) - गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) गोत्रस्त्रियाः प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात्प्रातिपदिकस्य। वृद्धमेवेदं प्रातिपदिकम्।। (णित्वफलप्रदर्शकभाष्यम्) लुगर्थं तर्हि णकारः कर्तव्यः। यल्लुगन्तमवृद्धं तत्र वृद्धिर्यथा स्यात् ‐ वातण्डो जाल्मः।। (5296 फले आक्षेपवार्तिकम्।। 2 ।।) - लुगर्थमिति चेन्न लुक्प्रतिषेधात् - (भाष्यम्) लुगर्थमिति चेत्तन्न। किं कारणम्? लुक्प्रतिषेधात्, प्रतिषिध्यते तत्र लुक् ‐ गोत्रेऽलुगचि(ग।1।89) इति।। (प्रत्याक्षेपे भाष्यम्) व्यवहितत्वादप्रतिषेधः। इर्कारेण व्यवहितत्वात्प्रतिषेधो न प्राप्नोति।। (5297 प्रत्याक्षेपनिरासवार्तिकम्।। 3 ।।) - व्यवहितत्वादप्रतिषेध इति चेन्न पुंवद्भावात् - (भाष्यम्) व्यवहितत्वादप्रतिषेध इति चेत्तन्न। किं कारणम्? पुंवद्भावात्, पुंवद्भावोऽत्र भवति ‐ भस्याढे तद्धिते पुंवद्भावो भवतीति।। (5298 णित्वफलप्रदर्शकवार्तिकम्।। 4 ।।) - फिनर्थं तु - (भाष्यम्) फिनर्थं तु णकारः कर्तव्यः। यत्फिनन्तमवृद्धं तत्र वृद्धिर्यथा स्यात् ‐ ग्लौचुकायनो जाल्म इति।। (5299 णित्वफलसंग्राहकवार्तिकम्।। 5 ।।) - पुंवद्भावप्रतिषेधार्थं च - (भाष्यम्) पुंवद्भावप्रतिषेधार्थं च णकारः कर्तव्यः। गार्गा भार्या अस्य गार्गाभार्यः। वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो यथा स्यात्।। (5300 पुंवद्भावप्रतिषेधार्थरूपफलखण्डनवार्तिकम्।। 6 ।।) - गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम् - (भाष्यम्) गोत्राद्यून्यस्त्रियाम् (4।1।94) इति वचनादप्रयोजनमेतद्भवति। नास्ति गार्गा।। (5301 मतान्तरप्रदर्शकवार्तिकम्।। 7 ।।) - अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् - (भाष्यम्) अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमेतद्भवति। न च स्त्री वंश्या। अस्ति गार्गा स्त्री।। (मतान्तरप्रदर्शकभाष्यम्) अपर आह ‐ द्वावेवं वंशौ। मातृवंशः, पितृवंशश्च। यावता मातृवंशोऽप्यस्ति, नास्ति गार्गा।।