॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|145
SK 1168
4|1|145
व्यन् सपत्ने  
SK 1168
सूत्रच्छेद:
व्यन् - प्रथमैकवचनम् , सपत्ने - सप्तम्येकवचनम्
अनुवृत्ति:
भ्रातुः  [4|1|144] - पञ्चम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
भ्रातुः सपत्ने व्यन्
सूत्रार्थ:
"शत्रु" इत्यस्य निर्देशं कर्तुम् "भ्रातु"शब्दात् व्यन् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सपत्नशब्दः शत्रुपर्यायः शब्दान्तरव्युत्पन्नम् एव। सप्त्नीशब्दादपरे ऽकारम् इव अर्थे निपातयन्ति। सप्त्नीव सपत्नः। भ्रातृशब्दाद् व्यन् प्रत्ययो भवति समुदायेन च इदम् इत्रः सपत्न उच्यते। अपत्यार्थो ऽत्र न अस्त्येव। पाप्मना भ्रातृव्येण। भ्रातृव्यः कण्टकः।
ननु `नित्यं सपत्न्यादिषु` 4|1|35 इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं सपत्न इति प्रयोगः पुंलिङ्गस्य युज्यत इत्याह-- `सपत्नशब्दः शत्त्रुपर्यायः` इत्यादि। `इवार्थे` इति। इवार्थः = सादृश्यम्। यथैव हि सपत्नी दुःखहेतुः, तथा शत्त्रुरपीति। यः सपत्नीव सपत्नः स उच्यते॥
ननु च ठ्नित्यं सपत्न्यादिषुऽ इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं पुंल्लिङ्गस्य प्रयोगस्तत्राह---सपत्नशब्द इत्यादि । इवार्थ इति । सादृश्ये, यथा पत्नी दुः खहेतुस्तथा शत्त्रुरपीत्येतत्सादृश्यम् । समुदायेन चेदिति । एतेन समुदायार्थः सपत्नो न प्रकृत्यर्थः, नापि प्रत्ययार्थविशेषणम्, अनर्थकावेवात्र प्रकृतिप्रत्ययाविति दर्शयति । अथानुवृतस्यापत्यस्य विशेषणमेव सपत्नः कस्मान्न भवति ? तत्राह---अपत्यार्थोऽत्र नास्त्येवेति । एतदेवोदाहरणेन स्पष्टयति---पाप्मना भ्रातृव्येणेति । न हि पाप्मा भ्रातुष्पुत्रो भवति, अतः सपत्नमात्रे भ्रातृव्यशब्दस्य दर्शनादपत्यार्थोऽत्र नास्ति । किञ्च, योऽपि सपत्नो भ्रातुरपत्यं सम्भवति, सोऽप्याद्यौदाताद् भ्रातृव्यशब्दात्सपत्नरूपेणैव प्रतीयते, नापत्यरूपेण । तथा च भ्रातृव्यो भ्रातृव्य इति सहप्रयोगोऽपि व्यन्व्यदन्तयोर्भवति, अतः सुष्ठूअक्तम्---ठपत्यार्थो नास्त्येवऽ इति ॥
सिद्धान्तकौमुदी
भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥
व्यन् सपत्ने - व्यन्सपत्ने । अपत्ये इति । प्रत्ययेनाऽपत्यमुच्यते । भ्रातृशब्दार्थस्तु न विवक्षितः । तथाच भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुरिति भाष्ये स्पष्टम् । ननुपाप्मना भ्रातृव्येणे॑ति कथं, पाप्मनोऽपत्यत्वाऽभावादित्यत आह — उपचारादिति । हिंसकत्वगुणयोगाल्लाक्षणिक इत्यर्थः ।
व्यन् सपत्ने - व्यन्स्यादिति । भ्रातुरपत्यं यदि शत्रुदस्तदा भ्रातृशब्दाव्द्यन्नेव स्यान्न तु व्याच्छौ इत्यर्थः । समुदायेनेति । तद्धटितप्रत्यये शत्रुरूपेऽपत्ये वाच्य इत्यर्थः । यत्तु वृत्तिकृतोक्तम् — ॒अपत्यार्थोऽत्र नास्त्येवे॑ति, तदुपेक्ष्यं, भाष्यविरोधादिति मनसि निधायाह — पाप्मनेति । श्रुतिहतभ्रातृव्यशब्दस्य गतिं वदति — उपचारादिति ।अस्त्रि पङ्कं पुमान्पाप्मा पापं किल्विषकल्मष ॑मित्यमरः । न हि पापं भ्रातुरपत्यं भवतीतत्यतो भाक्त एवायं प्रयोग इति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
व्यन्सपत्ने (1384) (व्यन्प्रत्ययाधिकरणम्) (5294 आक्षेपवार्तिकम्।। 1 ।।) - व्यन्वचनमनर्थकं प्रत्ययार्थाभावात् - (भाष्यम्) व्यन्वचनमनर्थकम्। किं कारणम्? प्रत्ययार्थाभावात्। किमिदं प्रत्ययार्थाभावादिति? अपत्यार्थाभावात्। अपत्यमिति वर्तते, अनपत्ये चापि सपत्ने भ्रातृव्यशब्दो वर्तते ‐ पाप्मना भ्रातव्येणेति।। (समाधानभाष्यम्) अस्तु तावद्यदपत्यं सपत्नश्च तत्र ‐ भ्रातृव्य इति। कथं पाप्मना भ्रातृव्येणेति? उपमानात्सिद्धम्, भ्रातृव्य इव भ्रातृव्य इति।।