॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|137
SK 1153
4|1|137
राजश्वशुराद्यत्‌  
SK 1153
सूत्रच्छेद:
राज-श्वशुरात् - पञ्चम्येकवचनम् , यत् - प्रथमैकवचनम्
अनुवृत्ति:
तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) राज-श्वशुरात् यत्
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे "राजन्"शब्दात् तथा "श्वशुर"शब्दात यत्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
राजन्श्वशुरशब्दाभ्याम् अपत्ये यत् प्रत्ययो भवति। यथाक्रमम् अणिञोरपवादः। राजन्यः। श्वशुर्यः। राज्ञो ऽपत्ये जातिग्रहणम्। राजन्यो भवति क्षत्रियश्चेत्। राजनो ऽन्यः।
`क्षत्रियजातिश्चेत्` इति। प्रत्ययान्तेन यदि क्षत्रियजातिर्गम्यते एवं यद् भवति। यो ह्रपत्यमेव राज्ञो न क्षत्त्रियजातिस्तत्राणेवौत्सर्गिको भवति। एतच्च `वा 4|1|131 इत्यस्येहानुवृत्तस्य व्यवस्थिविभाषात्वविज्ञानाल्लभ्यते। `राजन्यः` इति। `ये चाभावकर्मणोः` 6|4|168 इति प्रकृतिभावः। `राजनः` इति। अत्रापि `अन्` 6|4|167 इति प्रकृतिभावः॥
क्षत्रियजातिश्चेदिति । प्रकृतिप्रत्ययसमुदायेन क्षत्रियजातिश्चेद् गम्येतेत्यर्थः । राजन्य इति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः । राजनोऽन्य इति । स पुनर्वैश्याशूद्रयोरुत्पन्नः, ठन्ऽ इति प्रकृतिभावः ॥
सिद्धान्तकौमुदी
राज्ञो जातावेवेति वाच्यम् (वार्तिकम्) ॥
राजश्वशुराद्यत् - राजआशुराद्यत् । राजन्शब्दाच्छ्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अणिञोरपवादः । राज्ञो जातावेवेति । जातिः समुदायवाच्याचेदित्यर्थः ।
राजश्वशुराद्यत् - राजआशुराद्यत् ।कमेणाऽणिञोरपवादः ।राज्ञो जातावेवेति वाच्यम । जाता वेवेति । प्रकृति प्रत्ययसमुदायेन जातिश्चेद्वाच्येत्यर्थः । प्रत्ययस्त्वपत्य एव । एवं च पङ्कजादिवद्योगरूढ इति फलितोऽर्थः ।
लघुसिद्धान्तकौमुदी
(राज्ञो जातावेवेति वाच्यम्)॥
महाभाष्यम्
राजश्वशुराद्यत् (1383) (यतोऽधिकरणम्) (5293 अर्थविशेषे प्रत्ययनियामकवार्तिकम्।। 1 ।।) - राज्ञोऽपत्ये जातिग्रहणम् - (भाष्यम्) राज्ञोऽपत्ये जातिग्रहणं कर्तव्यम्। राजन्यो नाम जातिः। क्व मा भूत्? राजनः इति।।