॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|134
SK 1140
4|1|134
मातृष्वसुश्च  
SK 1140
सूत्रच्छेद:
मातृष्वसुः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
छण्  [4|1|132] - प्रथमैकवचनम् , ढकि  [4|1|133] - सप्तम्येकवचनम् , लोपः  [4|1|133] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) मातृष्वसुः छण्, ढकि लोपः च
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे "मातृष्वसृ" शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते "मातृष्वसृ"शब्दस्य (अन्तिमवर्णस्य) लोपः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पितृष्वसुः इत्येतदपेक्षते। पितृष्वसुर् यदुक्तं तन् मातृष्वसुरपि भवति, छन्ण्प्रत्ययो ढकि लोपश्च। मातृष्वस्त्रीयः। मातृष्वसेयः।
`पितृष्वसुरित्येतदपेक्षते`इति। इहापि `अनन्तरस्य पितृष्वसुर्विधिर्वा भवतिप्रतिषेधो वा` इति लोप एवानन्तरः प्राप्नोति, न छण्; व्यवहितत्वात्। उभयमपि चैतदिष्यते, तत्र यतो हेतोरेतद्द्वयमपि लभ्यते तमनेन दर्शयति-- `पितृष्वसुः` इति। एतदिहापेक्ष्यमाणं षष्ठन्तं ज्ञायते यथा लोपविधौ `पितृष्वसुः` 4|1|132 इति च षष्ठी, तेनायमर्थः सम्पद्यते-- पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि तेन छण् ढकि लोपश्च लभ्यते। उभयमपि ह्रेतत् पितृष्वसुरुक्तम्॥
पितृष्वसुरित्येतपेक्ष्यते इति । चकारेणानुकृष्यत इत्यर्थः । तदनुवृतौ योऽर्थः सम्पद्यते, तं दर्शयति---पितृष्वसुर्यदुक्तमिति । किं पुनस्तदित्याह---च्छण् प्रत्ययो ढकि लोपश्चेति । तेन ठनन्तरस्य विधिर्वा भवति प्रति षेधो वाऽ इति ढकि लोप एव प्राप्नोति, न तु च्छणिति न चोदनीयमिति भावः ॥
सिद्धान्तकौमुदी
पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ॥
मातृष्वसुश्च - मातृष्वसुश्चा । चकाराच्छण्, ढकि लोपश्चानुकृष्यते । तदाह — पितृष्वसुर्यदुक्तमिति ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
मातृष्वसुश्च (1380) (छण्साधकभाष्यम्) ढकि लोप इत्युच्यते तत्रेदं न सिध्यति ‐ मातृष्वस्रीयः। नैष दोषः। एवं वक्ष्यामि ‐ पितृष्वसुश्छण्, ढकि लोपः। ततो मातृष्वसुश्च। पितृष्वसुर्यदुक्तं तन्मातृष्वसुर्भवतीति। किं पुनस्तत्? छण् ढकि लोपश्च।।