॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|130
SK 1136
4|1|130
आरगुदीचाम्  
SK 1136
सूत्रच्छेद:
आरक् - प्रथमैकवचनम् , उदीचाम् - षष्ठीबहुवचनम्
अनुवृत्ति:
गोधायाः  [4|1|129] - पञ्चम्येकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) गोधायाः उदीचाम् आरक्
सूत्रार्थ:
उदीचाम् आचार्याणां मतेन "तस्य अपत्यम्" अस्मिन् अर्थे "गोधा"शब्दात् आरक् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
गोधायाः अपत्ये उदीचाम् आचार्याणां मतेन आरक् प्रत्ययो भवति। गौधारः। आचार्यग्रहणं पूजार्थं, वचनसाम्र्थ्यादेव पूर्वेण समावेशो भवति। आरग्वचनम् अनर्थकं, रका सिद्धत्वात्? ज्ञापकं त्वयम् अन्येभ्यो ऽपि भवति इति। जाडारः। पाण्डारः।
`आचार्यग्रहणं पूजार्थम्` इति। ननु चासत्याचार्यग्रहणे नित्य एवायं विधिः स्यात्, तथा चारकः पूर्वेण ढ्रका समावेशो न स्यात्। तद्विकल्पार्थमेवाचार्यग्रहणं कस्मान्न भवतीत्याह-- `वचनसामथ्र्यात्` इति। ढ्रगपि ह्रुच्यते, आरगपि, तत्र वचनसामथ्र्यात् समावेशो भविष्यति। तस्मात् पूजार्थमेवाचार्यग्रहणम्। `ज्ञापकं तु` इत्यादि। रका सिद्धे यदारग्वचनं सञ्ज्ञापनार्थम्। तेनैवं ज्ञायते-- अन्येभ्योऽप्ययं भवति;अन्यथा ह्रारग्वचनमनर्थकं स्यात् रकि सिद्धेः। तेन जडस्यापत्यं जाडारः, पाण्डार इति सिद्धं भवति, न ह्रेतद्रका सिध्यति॥
रका, सिद्धत्वादिति । ठ्न लक्षणेन पदाकारा अनुवर्त्याःऽ इत्यवग्रहेऽपि नास्ति विशेषः । ज्ञापकार्थं त्विति । भावप्रधानो ज्ञापकशब्दः । ज्ञापनार्थमिति वा पाठ।ल्म् । जाडारः, पाण्डारैति । ह्रस्वान्तादयं प्रत्यय इति रका नास्ति सिद्धिः ॥
सिद्धान्तकौमुदी
गौधारः । रका सिद्धे आकारोच्चारणमन्यते विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ॥
आरगुदीचाम् - आरगुदीचां । गोधाया आरग्वा स्यादित्यर्थः । अन्यत इति । आकारान्तादन्यत् अदन्तं, तस्मादपि क्वचिद्विधानार्थमित्यर्थः । जाडार इति । रग्विधौ आकारो न श्रूयेतेति भावः । पण्डो — नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना ।
आरगुदीचाम् - आरदुदीचाम् । वचनादेव ढ्रग्ढकारकां पर्याये सिद्धेउदीचां॑ग्रहणं पूजार्थम् ।अरक्इति न सूत्रितं,यस्येति चे॑त्याकारलोपेगौधरः॑इत्यनिष्टप्रसङ्गात् । अन्यत इति । अनाकारान्ताल्लक्ष्यानुरोधेन कुतश्चिदित्यर्थ । पण्डस्येति । पण्डो नपुंसकः, तस्यापत्यं तु कृत्रिमादिरिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आरगुदीचाम् (1376) (5292 आक्षेपवार्तिकम्।। 1 ।।) - आरग्वचनमनर्थकं रका सिद्धत्वात् - (भाष्यम्) आरग्वचनमनर्थकम्। किं कारणम्? रका सिद्धत्वात्। गोधा ‐ आकारान्ता रक् च प्रत्ययः।। (समाधानभाष्यम्) एवं तर्हि सिद्धे सति यदारकं शास्ति तज्ज्ञापयत्याचार्योऽन्येभ्योऽप्ययं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? मौण्डारः, जाण्डारः, पाण्डार ‐ इत्येतत्सिद्धं भवति।।