॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|128
SK 1134
4|1|128
चटकाया ऐरक्  
SK 1134
सूत्रच्छेद:
चटकायाः - पञ्चम्येकवचनम् , ऐरक् - प्रथमैकवचनम्
अनुवृत्ति:
तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) चटकायाः ऐरक्
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे "चटका"शब्दात् ऐरक् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
चटकायाः अपत्ये ऐरक् प्रत्ययो भवति। चाटकैरः। चटकाच् च इति वक्तव्यम्। चटकस्य अपत्यं चाटकैरः। स्त्रियाम् अपत्ये लुग् वक्तव्यः। चटकाया अपत्यं स्त्री चटका।
`चटकाया अपत्यं स्त्री चटका` इति। `लुक् तद्धितलुकि` 1|2|49 इति लुकि कृते पुनष्टाप् कत्र्तव्यः। पुंल्लिङ्गादपि स्त्रियामिष्यत एव लुक्। एवम् `चटकादैरक्` इत्येतत् सूत्रमासीत्, इदानीं प्रमादाच्च `चटकायाः` इति पाठः॥
स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गान्न प्रसज्यत इत्याह---चटकाच्चेति वक्तव्यमिति । एवं च पुंल्लिङ्गनिर्देश एव कर्तव्यः, लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि भविष्यति, तथा तु न कृतमित्येव । स्त्रियामपत्ये लुग्वक्तव्य इति । चटकाया अपत्यमिति । चटकस्यापीति द्रष्टव्यम् । चटकेति । ठ्लुक्तद्धितलुकिऽ इति टापो लुकि कृते पुनरजादिलक्षणष्टाप् कर्तव्यः ॥
सिद्धान्तकौमुदी
चटकस्येति वाच्यम् (वार्तिकम्) ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ॥ ।स्त्रियामपत्ये लुग्वक्तव्यः (वार्तिकम्) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥
चटकाया ऐरक् - चटकायाः । चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्त्रीलिङ्गनिर्देशात्पुंलिङ्गान्न स्यादित्यत आह — चटकादिति । सूत्रे "चटकाया" इत्यपनीयचटका॑दिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह — लिङ्गेति । स्त्रिया अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायटाश्चेत्यर्थः । ननु चटकेति कथं, जातित्वान्ङीष्प्रसङ्गादित्यत आह — अजादित्वादिति ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
चटकाया ऐरक् (1374) (ऐरगधिकरणम्) (5290 सूत्रे स्त्रीलिंगनिर्देशस्याविवक्षितत्वबोधकवार्तिकम्।। 1 ।।) - चटकायाः पुँल्लिङ्गनिर्देशः - (भाष्यम्) चटकायाः पुँल्लिङ्गेन निर्देशः कर्तव्यः। इहापि यथा स्यात्-चटकस्यापत्यं चाटकैरः। यदि पुँल्लिङ्गेन निर्देशः क्रियते, चटकाया अपत्यं चाटकैर इति न सिध्यति। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येवं भविष्यति।। (5291 वार्तिकम्।। 2 ।।) - स्त्रियामपत्ये लुग्वक्तव्यः - (भाष्यम्) चटकाया आपत्यं चटका।।