॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|127
SK 1132
4|1|127
कुलटाया वा  
SK 1132
सूत्रच्छेद:
कुलटायाः - षष्ठ्येकवचनम् , वा - अव्ययम्
अनुवृत्ति:
ढक्  [4|1|120] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम् , इनङ्  [4|1|126] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) कुलटायाः ढक् , इनङ् (आदेशः) वा
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे "कुलटा"शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते कुलटा-शब्दस्य विकल्पेन इनङ्-आदेशः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कुलान्यटति इति कुलता। पररूपं निपातनात्। कुलटायाः अपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वा इनङादेशो भवति। आदेशार्थं वचनं, प्रत्ययश्च पूर्वेण एव सिद्धः। कौलटिनेयः, कौलटेयः। या तु कुलान्यटन्ती शीलं भिनत्ति, ततः क्षुद्राभ्यो वा 4|1|131 इति परत्वाड् ढ्रका भवितव्यम्। कौलटेरः।
कुलन्यटतीति कुलटा। नन्वकः सवर्णे दीर्घत्वे कृते कुलाटेति भवितव्यमित्यत आह-- `पररूपम्` इत्यादि। `पूर्वेणैव` इति।`स्त्रीभ्यो ढक्` 4|1|120 इत्यननैव। व्यवहितेऽपि पूर्वव्यपदेशः प्रवत्र्तते, यथा-- मथुरायाः पाटलिपुत्रं पूर्वमिति।`कौलटेरः` इति। एयादेशे कृते वलि यलोपः॥
कुलान्यटतीति कुलटेति । मूलविभुजादिषु दर्शनात्कः प्रत्ययः । पचाद्यच् तु न लभ्यते, अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेनेत्यण्प्रसङ्गात् । या तु कुलान्यटन्ती शीलं भिनतीति । एकत्र कुले प्रविष्टा स्वैरिणी या कुलान्तरमटति सा दुः शीला कुलटेत्यर्थः । क्षुद्राभ्यो वेति परत्वादिति । क्षुद्राःउअङ्गहीनाः शीलहीनाश्च । या पुनर्भिक्षालिप्सया सुशीलापि कुलान्यटति, तस्या इह ग्रहणम् ॥
सिद्धान्तकौमुदी
इनङ्मात्रं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः - कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थं कुलान्यटति तस्याः क्षुद्राभ्यो वा (कौमुदी-1137) इति पक्षे ढ्रक् । कौलटेरः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
कुलटाया वा।शकन्धवादित्वात्पररूपपमत एव निपातनाद्वा। सती भिक्षुक्यवेति। अत्र=अनङ्विधौ। तथा चोक्तममरेण---`अथ बान्धकिनेयः स्याद्बन्धुलश्चाऽसतीसुतः। कौलटेरः कौलटीयो भिक्षुकी तु सती यदि। तदा कोलटीनेयोऽस्याः कौलटेयोऽपि चात्मजः`इति। केचित्तु क्षुद्राया अपि इनङा तृतीयं रूपं कौलटिनेय इतीच्छन्ति। पक्षे ढ्रगिति। ढगपि पक्षे भवत्येवेति भावः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!