॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|121
SK 1124
4|1|121
द्व्यचः  
SK 1124
सूत्रच्छेद:
द्‍व्यचः - पञ्चम्येकवचनम्
अनुवृत्ति:
स्त्रीभ्यः  [4|1|120] - पञ्चमीबहुवचनम् , ढक्  [4|1|120] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) द्व्यचः स्त्रीभ्यः ढक्
सूत्रार्थ:
यस्मिन् स्त्रीप्रत्ययान्तशब्दे द्वौ स्वरौ स्तः, तस्मात् "तस्य अपत्यम्" अस्मिन् अर्थे ढक्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्त्रीभ्यः इत्येव। द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् प्रत्ययो भवति। तन्नामिकाणो ऽपवादः। दत्ताया अपत्यं दात्तेयः। गौपेयः। द्व्यचः इति किम्? यामुनः।
`तन्नामिकाणोऽपवादः`इति। ये द्व्यचः स्त्रीप्रत्ययान्ता नदीमानुषीनामधेयभूतास्तेभ्यो विशेषविहितत्वात् तन्नामिकाण् भवति। ततस्तद्बाधनार्थं ढग्विधीयते॥
तन्नामिकाणोऽपवाद इति । अन्यत्र पूर्वेणैव सिद्धत्वात् ॥
सिद्धान्तकौमुदी
द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थः इत्यत्र तु तस्येदम् (कौमुदी-1500) इत्यण् ॥
द्व्यचः - द्व्यचः । ननुस्त्रीभ्यो ढ॑गित्येव सिद्धे किमर्थमिदमित्यत आह — तन्नामिकेति । दात्तेय इति । दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः । ननु पृथाया अपत्यं पार्थ इति कथम्, तन्नामिकाऽणं बाधित्वा "द्व्यचः" इति ढक्प्रसङ्गादित्यत आह — पार्थ इत्यत्रेति । शिवादित्वादपत्य एवाऽणित्यन्ये ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!