॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|120
SK 1123
4|1|120
स्त्रीभ्यो ढक्  
SK 1123
सूत्रच्छेद:
स्त्रीभ्यः - पञ्चमीबहुवचनम् , ढक् - प्रथमैकवचनम्
अनुवृत्ति:
तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) स्त्रीभ्यः ढक्
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे स्त्रीप्रत्ययान्तशब्दात् ढक्-प्रत्ययः विधीयते ।
षष्ठीसमर्थेभ्यः स्त्रीप्रत्ययान्तशब्देभ्यः अपत्यार्थम् ढक्-प्रत्ययः भवति ।
प्रत्ययाधिकारे आहत्य अष्ट स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन्, ऊङ्, ति । एतेषां सर्वेषाम् उदाहरणानि अधः दत्तानि सन्ति ।

अत्र आदौ एकः विशेषः स्मर्तव्यः - अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4|1|113 एतत् सूत्रम् वर्तमानसूत्रस्य अपवादत्वेन आगच्छति । अतः ये स्त्री-प्रत्ययान्तशब्दाः वृद्धसंज्ञकाः न सन्ति, तथा नद्याः मानुष्याः वा नामरूपेण प्रयुज्यन्ते, तेषाम् विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अधः दत्तेषु उदाहरणेषु प्रयुक्ताः अवृद्धाः स्त्री-प्रत्ययान्तशब्दाः नद्याः मानुष्याः नामरूपेण न प्रयुक्ताः सन्ति इति स्मर्तव्यम् ।

1. [टाप्-प्रत्ययान्तः] - विनतायाः अपत्यम् = विनता + ढक् → वैनतेय ।
2. [चाप्-प्रत्ययान्तः] - कौसल्यायाः अपत्यम् = कौसल्या + ढक् → कौसल्येय ।
3. [डाप्-प्रत्ययान्तः] - बहुराजायाः अपत्यम् = बहुराजा + ढक् → बाहुराजेय ।
4. [ङीप्-प्रत्ययान्तः] - प्रमात्र्याः अपत्यम् = प्रमात्री + ढक् → प्रामात्रेय ।
5. [ङीष्-प्रत्ययान्तः] - पावन्याः अपत्यम् = पावनी + ढक् → पावनेय ।
6. [ङीन्-प्रत्ययान्तः] - शार्ङ्गरव्याः अपत्यम् = शार्ङ्गरवी + ढक् → शार्ङ्गरवेय ।
7. [ऊङ्-प्रत्ययान्तः] - मद्रबाह्वाः अपत्यम् = मद्रबाहू + ढक् → माद्रबाहेय ।
8. [ति-प्रत्ययान्तः] - युवतेः अपत्यम् = युवति + ढक् → यौवतेय ।

प्रक्रियाः -
1. टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन् - एतेषां सर्वेषाम् विषये प्रक्रिया समाना एव अस्ति । यथा, विनतायाः अपत्यम् इत्यस्मिन् अर्थे "विनतायाः" इति षष्ठीसमर्थात् ढक्-प्रत्ययः भवति -
विनतायाः + ढक्
→ विनता + ढक् [सुपो धातुप्रातिपदिकयोः 2|4|71 इति ङस्-प्रत्ययस्य लुक्]
→ विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः]
→ वैनता + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ वैनत् + एय [यस्येति च 6|4|148 इति आकारलोपः]
→ वैनतेय


2. "ऊङ्" प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते -
मद्रबाहू + ढक्
→ मद्रबाहू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः । यचि भम् 1|4|18 इति अङ्गस्य भसंज्ञा]
→ माद्रबाहू + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ माद्रबाहू + एय [ओर्गुणः 6|4|146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः 6|4|147 इति अङ्गस्य अन्तिमवर्णस्य लोपः]
→ माद्रबाहेय


3. "ति" प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते -
युवतेः + ढक्
→ युवति + ढक् [सुपो धातुप्रातिपदिकयोः 2|4|71 इति ङस्-प्रत्ययस्य लुक्]
→ युवति + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः]
→ यौवति + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ यौवत् + एय [यस्येति च 6|4|148 इति आकारलोपः]
→ यौवतेय

ज्ञातव्यम् -
1. सर्वे स्त्रीप्रत्ययान्तशब्दाः प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापिग्रहणम् अनया परिभाषया प्रातिपदिकसंज्ञां प्राप्नुवन्ति । अतएव प्रातिपदिकाधिकारे पाठिताः तद्धितप्रत्ययाः तेभ्यः भवितुम् अर्हन्ति ।

2. अनेन सूत्रेण केवलं "स्त्रीप्रत्ययान्त"शब्दानां विषये एव ढक्-प्रत्ययः भवति, "स्त्रीलिङ्ग"शब्दानां न । अतः ये स्त्रीलिङ्गशब्दाः स्त्रीप्रत्ययान्ताः न सन्ति, तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - मातृ, दुहितृ, मति, भक्ति, गति, श्री - आदयः ।
उदाहरणानि एतानि -
अ). मातुः अपत्यम् = मातृ + अण् → मात्र ।
आ) भक्तेः अपत्यम् = भक्ति + ढक् → भाक्तेय । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, परन्तु इतश्चानिञः 4|1|122 इत्यनेन ढक्-प्रत्ययः एव विधीयते ।
इ) श्रियः अपत्यम् = श्री + अण् → श्रैयः । प्रक्रिया इयम् -
श्री + अण्
→ श् र् इयङ् + अण् [श्री-शब्दः धातुजः अस्ति, अतः अचि श्नुधातुभ्रुवाम् य्वोः इयङ्-उवङौ 6|4|77 इति इयङ्-आदेशः]
→ श्रैय् + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ श्रैय

3. शिवादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - ककुभा, जटिलिका , सपत्नी - आदयः) - तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन शिवादिभ्योऽण् 4|1|112 इत्यनेन अण्-प्रत्ययः एव विधीयते । तथा च, अयं अण्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4|1|113 अस्यापि अपवादरूपेण आगच्छति ।

4. बाह्वादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - वृषली, सुमित्रा, चुडा - आदयः) तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन बाह्वादिभ्यश्च 4|1|96 इत्यनेन इञ्-प्रत्ययः एव विधीयते । तथा च, अयं इञ्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4|1|113 अस्यापि अपवादरूपेण आगच्छति ।

5. शुभ्रादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - किशोरिका, अम्बिका - आदयः) तेषां विषये अपत्यार्थे शुभ्रादिभ्यः ढक् 4|1|123 इत्यनेन ढक्-प्रत्ययः विधीयते । अयं ढक्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4|1|113 अस्यापि अपवादरूपेण आगच्छति ।

अत्र वार्त्तिकद्वयं ज्ञातव्यम् -
1. वडवायाः वृषे वाच्ये - "वृषभ" अर्थे अभिधेये "वडवा" शब्दात् ढक्-प्रत्ययः भवति । इत्युक्ते, "वडवा + ढक् → वाडवेय" अयं शब्दः "वृषः" अस्मिन् अर्थे प्रयुज्यते ।
अस्य वार्त्तिकस्य विषये काशिकाकारः वदति - "अपत्ये प्राप्तः ततो ऽपकृष्य विधीयते। तेन अपत्ये वाडवः इति भवति" । इत्युक्ते, अपत्यार्थे "वडवा"शब्दात् अण् प्रत्ययः भवति । वडवायाः अपत्यं वाडवः ।
2. अण् क्रुञ्चा-कोकिलात् स्मृतः - "क्रुञ्चा" तथा "कोकिला" शब्दाभ्याम् अपत्यार्थे अण्-प्रत्ययः भवति । क्रुञ्चायाः अपत्यम् = क्रुञ्चा + अण् → क्रौञ्च । कोकिलायाः अपत्यम् = कोकिल + अण् → कौकिल ।
One-line meaning in English
To indicate the meaning of "his/her offspring", the स्त्रीप्रत्ययान्त words get the "ढक्" प्रत्यय.
काशिकावृत्तिः
स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते। स्त्रीभ्यो ऽपत्ये ढक् प्रत्ययो भवति। सौपर्णेयः। वैनतेयः। स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहणे इह न भवति, इडबिडो ऽपत्यम् ऐडविडः, दरदो ऽपत्यम् दारदः इति। वडवाया वृषे वाच्ये। वाडवेयो वृषः स्मृतः। अपत्ये प्राप्तः ततो ऽपकृष्य विधीयते। तेन अपत्ये वाडवः इति। अण् क्रुञ्चाकोकिलात् स्मृतः। क्रुञ्चाया अपत्यं क्रौञ्चः। कौकिलः।
`इह स्त्रीग्रहणेन टाबादिस्त्रीप्रत्ययान्ताः शब्दाः गृह्रन्ते` इति। अथ स्वरूपग्रहणं कस्मान्न भवति? बहुवचननिर्देशात्। स्वरूपग्रहणे हि तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यात्। स्त्र्यर्थमात्रस्य ग्रहणं कस्मान्न भवति? विमातृशब्दस्य स्त्र्यर्थस्य शुभ्रादिषु पाठात्। यद्यत्र स्त्र्यर्थमात्रस्य स्त्रीशब्दस्य ग्रहणं स्यात्, तस्य शुभ्रादिषु पाठोऽनर्थकः स्यात्, अनेनैव ढकः सिद्धत्वात्। `ऐडविडः दारदः` इति। इडविडोऽपत्यं वरदोऽपत्यमित्यणेव भवति। ढगिति वत्र्तमाने ढकः पुनग्र्रहणं नित्यार्थम्। `वडवाया वृष वाच्ये` इति। यस्तस्या गर्भे बीजं प्रक्षिपति स वृषो वाडवेय इत्युच्यते।`अण्क्रुञ्चाकोकिलात् स्मृतः` इति। वृष इति नापेक्ष्यते। अपत्ये विधिरेवायम्। ढकोऽपवादः॥
स्त्रीग्रहणेनेत्यादि । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । स्त्र्यर्थस्यापि ग्रहणं न भवति; विमातृशब्दस्यार्थस्य सुभ्रादिषु पाठात् । तस्य तु स्त्र्यर्थत्वं विधवाशब्दसाहचर्याद्विज्ञेयम् । किञ्च---स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते, स्वरितेन चाधिकारावगतिर्भवति, तेन टाबादिस्त्रीप्रत्ययान्तानामेव ग्रहणं युक्तम् । क्तिन्नादयस्तु व्यवधानान्न गृह्यन्ते । ऐडविडः, दारद इति । इडविट्शब्दात् ठ्जनपदशब्दात्क्षत्रियादञ्ऽ, दरच्छब्दाद् ठ्द्व्यञ्मगधऽ इत्यण्, तयोः स्त्रियाम् ठतश्चऽ इति लुक्, ततस्तदपत्येऽणेव भवति । वृष वाच्ये इति । वृषःउबीजाश्वः, तेन चार्थेन विशेषविहितेनापत्यलक्षणेऽर्थे ढका बाध्यते, तेनापत्येऽणेव भवति । वाडव इति । चतुष्पाल्लक्षणो ढञपि न भवति; अचतुष्पाद्वाचित्वात् । अण् क्रुञ्चेति । वृष इति नापेक्ष्यते, अपत्य एवायं विधिः । ढकोऽपवादः । क्रुञ्चा च कोकिला च समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् ॥
सिद्धान्तकौमुदी
स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥
स्त्रीभ्यो ढक् - स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चातुर्थिका गृह्रन्ते, न त्वन्येऽपि स्त्रीवाचका, व्याख्यानादित्याह — स्त्रीप्रत्ययान्तेभ्य इति । विनता नामगरुडमाता, तस्या अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् । दरत्कश्चित्क्षत्रियः, तस्यापत्यं स्त्री दरत् ।द्व्यञ्मगधे॑त्यण् ।अतश्चे॑ति तस्य लुक् । तस्या अपत्यं-दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वाऽभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः, सपत्न्या अपत्यं सापत्न इति कथं, ढक्प्रसङ्गादित्यत आह — बाह्वादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति प्रागेवोक्तम् ।
स्त्रीभ्यो ढक् - स्त्रीभ्यो ढक् । बहुवचननिर्देशान्न स्वरूपस्य ग्रहणं, नाप्यर्थस्य, ढगर्थतया शुभ्रादिषु विमातृशब्दपाठात् । किं तु स्त्र्यधिकारोक्तटाबादेग्र्रहणं, न तु विप्रकृतिक्तिन्नादेरित्याशयेनाह — -स्त्रीप्रत्ययान्तेभ्य इत्यादिना । तेनदरदोऽपत्यं दारदः॑इत्यत्र ढक् न भवति । स्त्र्यर्थग्रहणे तु स्यादेवाऽत्र ढक् । दरच्छब्दो हि जनपदक्षत्रियवाचीति ततोऽपत्यार्थेद्यञ्मगधे॑त्यणि तस्य स्त्रियाम् ।अतश्चे॑ति लुकि दरच्छब्दस्य स्त्र्यर्थवाचित्वात् ।ढक् चे॑ति वर्तमाने पुनरिह ढग्ग्रहणमण्संबद्धस्य ढको निवृत्त्यर्थम् । यद्यपिचानुकृष्टं नोत्तरत्रे॑ति परिभाषया अणिह न प्रवर्तते तथापि तस्या अनित्यत्वज्ञापनाय ढग्ग्रहणमित्याहुः ।तस्येदमिति । शिवादित्वादपत्य एवाऽणित्यन्ये ।
लघुसिद्धान्तकौमुदी
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥
महाभाष्यम्
स्त्रीभ्यो ढक् (1366) (ढगधिकरणम्) (स्त्रीशब्दार्थप्रत्यायकभाष्यम्) इदं सर्वेष्वेव स्त्रीग्रहणेषु विचार्यते ‐ स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणं वा स्यात्, स्त्रीशब्दग्रहणं वा, स्त्र्यर्थग्रहणं वा।। किं चातः? यदि स्त्रीशब्दग्रहणमर्थग्रहणं वा ‐ इडबिड् ‐ ऐडबिडः। पृथ् ‐ पार्थः। उशिक् ‐ औशिज। दरद् ‐ दारदः। अत्रापि प्राप्नोति। अथ प्रत्ययग्रहणम् ‐ लैखाभ्रेयः, वैमात्रेयः, इति न सिध्यति।। अस्तु प्रत्ययग्रहणम्। कथं लैखाभ्रेयः, वैमात्रेय इति? शुभ्रादिषु पाठः करिष्यते।। (अर्थविशेषे प्रत्ययबोधकभाष्यवार्तिकम्) वडवाया वृषे वाच्ये। वडवाया वृषे वाच्ये ढग् वक्तव्यः ‐ वडवाया वृषो वाडवेयः।। (ढक्बाधकप्रत्ययबोधकभाष्यवार्तिकम्) अण् क्रुञ्ञ्चाकोकिलात्स्मृतः। क्रौञ्ञ्चः, कौकिल इति।। (ढक्बाधकप्रत्ययबोधकभाष्यवार्तिकम्) आरक् पुंसि ततोऽन्यत्र। ततोऽन्यत्र आरक्पुंसि वक्तव्यः। मूषिकाया अपत्यं पुमान् मौषिकारः, मृग्याः पुमान्मार्गारः।। (ढ्रकि पुमर्थविधायकभाष्यवार्तिकम्) गोधाया ढ्रक्विधौ स्मृतः।। गोधायाः पुमान् गौधेरः।।