॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|115
SK 1118
4|1|115
मातुरुत्‌ संख्यासम्भद्रपूर्वायाः  
SK 1118
सूत्रच्छेद:
मातुः - षष्ठ्येकवचनम् , उत् - प्रथमैकवचनम् , संख्यासम्भद्रपूर्वायाः - षष्ठ्येकवचनम्
अनुवृत्ति:
अण्  [4|1|112] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) संख्या-सम्-भद्र-पूर्वायाः मातुः उत् (आदेशः), अण् प्रत्ययः |
सूत्रार्थ:
यः मातृ-शब्दः संख्यावाचीशब्दात् / "सम्" शब्दात् / "भद्र" शब्दात् परः आगच्छति, तस्मात् "तस्य अपत्यम्" अस्मिन् अर्थे अण्-प्रत्ययः भवति, तथा "मातृ" शब्दस्य उकारादेशः अपि भवति ।
यदि मातृ-शब्दः संख्यावाचीशब्दात् / "सम्" शब्दात् / "भद्र" शब्दात् अनन्तरम् ("उत्तरपद"रूपेण) आगच्छति, तर्हि तादृशात् मातृ-शब्दात् अपत्यार्थे अण्-प्रत्ययः भवति, तथा मातृ-शब्दस्य उकारादेशः अपि भवति । अलोऽन्त्यस्य 1|1|52 इत्यनेन अयम् आदेशः ऋकारस्य स्थाने विधीयते, अतः उरण् रपरः 1|1|51 इत्यनेन अस्मात् उकारात् अनन्तरम् रेफः आगच्छति । उदाहरणानि एतानि -

1) षण्णाम् मातॄणाम् अपत्यम् =
षण्मातृ + अण्
→ षण्मातुर् + अण् [मातुरुत्‌ संख्यासम्भद्रपूर्वायाः 4|1|115 इति ऋकारस्य उकारादेशः । उरण् रपरः 1|1|51 इति सः रपरः]
→ षाण्मातुर् + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ षाण्मातुर

तथैव - द्वयोः मात्रोः अपत्यम् = द्विमातृ + अण् → द्वैमातुर ।

2) सम्मातुः अपत्यम् = सम्मातृ + अण् = साम्मातुर ।
3) भद्रमातुः अपत्यम् = भद्रमातृ + अण् = भाद्रमातुर ।

ज्ञातव्यम् -
1. वस्तुतः मातृ-शब्दात् अण्-प्रत्ययविधानम् तु प्राग्दीव्यतोऽण् 4|1|183 इत्यनेनैव भवितुम् अर्हति । वर्तमानसूत्रस्य प्रयोजनं तु "मातृ-शब्दस्य अण्-प्रत्यये परे उकारादेशः" - इत्येव अस्ति ।

2. यदि मातृ-शब्दः सङ्ख्या/सम्/भद्र - एतेभ्यः परः न आगच्छति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः ऋकारस्य उकारादेशः अपि न भवति । अण्-प्रत्ययविधानम् तु प्राग्दीव्यतोऽण् 4|1|183 इत्यनेनैव भवितुम् अर्हति - सुमातुः अपत्यम् पुमान् = सौमात्रः ।

3. वर्तमानसूत्रेण निर्दिष्टः मातृ-शब्दः "अम्बा" अस्मिन् अर्थे प्रयुज्यमानः ऋकारान्तस्त्रीलिङ्गशब्दः अस्ति । संस्कृते अन्यः अपि एकः मातृ-शब्दः उपयुज्यते - जुहोत्यादिगणस्य "मा" धातोः तृच्-प्रत्यये कृते अपि "मातृ" इति प्रातिपदिकं सिद्ध्यति - "यः मिमेति सः माता" । अस्य शब्दस्य रूपाणि तु कर्तृ-शब्दवत् भवन्ति । तस्य अत्र ग्रहणं न करणीयम् । अतः "मिमेति सः माता, तस्य अपत्यम्" इत्यस्मिन् अर्थे मातृ-शब्दात् औत्सर्गिकरूपेण अण्-प्रत्यये कृते "मात्र" इत्येव प्रातिपदिकं सिद्ध्यति । तत्र ऋकारस्य उकारादेशः न विधीयते ।
One-line meaning in English
To indicate the meaning of "his/her offspring", the words that contain either a संख्या , or "सम्" or "भद्र" as a पूर्वपद and "मातृ" as the उत्तरपद get the अण् प्रत्यय. Also, for such words, the उत्तरपद मातृ gets उकारादेश.
काशिकावृत्तिः
मतृशब्दात् सङ्ख्यापूर्वात् संपूर्वात् भद्रपूर्वाच् च अपत्ये अण् प्रत्ययो भवति, उकारश्च अन्तादेशः। द्वयोर् मात्रोरपत्यं द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः। उकारादेशार्थं वचनं, प्रत्ययः पुनरुत्सर्गेण एव सिद्धः। स्त्रीलिङ्गनिर्देशो ऽर्थापेक्षः, तेन धान्यमातुर् ग्रहणं न भवति। सङ्ख्यासंभद्रपूर्वायाः इति किम्? सौमात्रः।
`द्वैमातुरः`इति। प्राक् तद्धितार्थे विषये द्विकुः, पश्चात् तद्धितः। `साम्मातुरः` इति। पूर्वं प्रादिसमासः, पश्चात् तद्धितः।`भाद्रमातुरः` इति। पूर्वं विशेषणसमासः; ततस्तद्धितः।अथ प्रत्ययार्थ वचनं कस्मान्न भवति? इत्याह-- `प्रत्ययः पुनः` इत्यादि। उत्सर्गलक्षणेनैव `तस्यापत्यम्` 4|1|92 इत्यनेन। ननु च संख्यादिपूर्वत्वं मातृशब्दस्य विशेषणम्, तत्र मातृशब्दापेक्षया निर्देशः क्रियमाणः पुंल्लिङ्ग एव दृश्यते, तत्कथं `संख्यासम्भद्रपूर्वायाः` इति स्त्रीलिङ्गेन निर्देशः? इत्यत आह-- `स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः` इति। मातुः शब्दस्य योऽर्थस्तदपेक्षोऽयं निर्देशः, स चार्थः स्त्रीलिङ्गः। तेन स्त्रीलिङ्गेन निर्देशः कृतः। `तेन` इत्यादिनार्थापेक्षस्य फलं दर्शयति। अर्थापेक्षे हि स्त्रीलिङ्गनिर्देशे स्त्रीलिङ्गो यस्यार्थो मातृशब्दस्य , तस्यैव ग्रहणेन भवितव्यम्, तेन धानयमातुग्र्रहणं न भवति। न हि तस्य स्त्रीलिङ्गोऽर्थः, किं तर्हि? पुंल्लिङ्गः। धान्यं मिमीते यो भृतकः स धान्यमातेत्युच्यते।`सौमात्रः` इति। प्राक् प्रादिसमासः। तत औत्सर्गिकोऽण्॥
द्वैमातुर इति । तद्धितार्थ द्विगुः, पश्चातद्धितः । एकस्या औरसः सुतोऽपरस्याः कृत्रिम इति द्वैमातुरत्वम् । साम्मातुर इति । प्रादिसमासातद्धितः । भाद्रमातुर इति । विशेषणसमासादण् । तेनेत्यादिनाऽर्थापेक्ष्यस्य स्त्रीलिङ्गनिर्देशस्य फलं दर्शयति । धान्यमातुरिति । धान्यं यो मिमीते स धान्यमाता, याजकादित्वात्षष्ठीसमासः । धान्यमातरि यो मातृशब्दस्तस्य ग्रहणं न भवतीत्यर्थः, तेन सम्मिमीते तस्याप्तयं साम्मात्र इत्युत्वं न भवति, न्यायानुवादश्चायं स्त्रीलिङ्गनिर्देशः । सम्बन्धिशब्दस्य हि प्रसिद्धतरत्वातस्यैव ग्रहणं न्याय्यम् । सङ्ख्यासम्भद्रपूर्वाया इति किमिति । न तावत्केवलात्प्रसङ्गः, न हि मातुरपत्यमिति विशेषणं सम्भवति; अपत्ये मातृसम्बन्धस्याव्यभिचातत् । तेन तदन्तस्य ग्रहणात् सङ्ख्यादिपूर्वस्य तावत्सिद्धमिति प्रश्नः । अन्यपूर्वस्यापि स्यादित्युतरम् । सौमात्र इति । क्वचिदस्यानन्तरं ग्रन्थः---शुभ्रादिपाठाद्वैमात्रेय इति । तेन विपूर्वो मातृशब्दो न प्रत्युदाहर्तव्य इति भावः । वयं ब्रूमः---ठ्स्त्रीभ्यो ढक्ऽ इत्यत्र स्त्रीप्रत्ययविज्ञानादसत्यर्थग्रहणे इह न भवति । ऐडविडो दारदः (4।1।120 सूत्रे) इत्यस्यानन्तरमयं ग्रन्थः, इह तु लेखकैः प्रमादाल्लिखित इति ॥
सिद्धान्तकौमुदी
संख्यादिपूर्वस्य मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥
मातुरुत् संख्यासम्भद्रपूर्वायाः - मातुरुत् । द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । "तद्धितार्थ" इति समासः । अण् । ऋकारस्योकारः । रपरत्वम् । एवं षाण्मातुरः सांमातुर इति । समीचीना माता संमाता, संमातुरपत्यं सांमातुरः । अण् उत् । रपरत्वं । भाद्रमातुर इति । भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननुतस्यापत्य॑मित्येव सिद्धेऽण्विधिव्र्यर्थ एवेत्यताअह — आदेशार्थं वचनमिति । उदादेशस्य अण्सन्नियोगेन विध्यर्थमित्यर्थः । ननु धान्यं यो मिमीते तस्यापि मातुग्र्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह — स्त्रीलिङिगनिर्देशीऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोप्यसङ्ख्यासम्भद्रपूर्वाया॑ इति निर्दिश्यते । अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः ।सौमात्र इति । सुमातुरपत्यमित्यर्थेतस्यापत्य॑मित्यण् । सङ्ख्यासम्भद्रपूर्वत्वाऽभात्वात् नायमण्, उत्त्मपि तत्सन्नियोगशिष्टत्वान्नेति भावः । ननु द्वैमात्रेय इति कथम्, सङ्ख्यापूर्वकतया अण उत्त्वस्य च दुर्वारत्वादित्यत आह — शुभ्रादित्वादिति ।शुब्राआदिभ्यश्चे॑ति ढकि रूपमित्यर्थः ।
मातुरुत् संख्यासम्भद्रपूर्वायाः - द्रैमातुर इति ।तद्धितार्थ॑इत्यादिना समासः । अत्रद्वयोर्मात्रोरपत्य॑मिति विग्रहो, न तुद्विमात्रोरपत्य॑मिति ।दिक्संख्ये संज्ञाया॑मिति नियमेनाऽसंज्ञायां समासाऽसंभवात् । धान्यमातुर्नेति ।अभिव्यक्तपदार्थाः॑इत्यनेन जननीवाचिना एव ग्रहणे सिद्धेऽपि तस्य स्पष्टप्रतिपत्त्यर्थः स्त्रीलिङ्गनिर्देश इति भावः ।अभिव्यक्ते॑त्यस्याऽनित्यताया ज्ञापनार्थ इति त्वन्ये ।
लघुसिद्धान्तकौमुदी
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥
महाभाष्यम्
मातुरुत्संख्यासम्भद्रपूर्वायाः (1361) (स्त्रीलिंगनिर्देशसमर्थकभाष्यम्) किमर्थं स्त्रीलिङ्गेन निर्देशः क्रियते, न संख्यासंभद्रपूर्वस्येत्येवमुच्यते? स्त्रीलिङ्गो यो मातृशब्दस्तस्माद्यथा स्यात्। इह मा भूत् ‐ संमिमीते संमाता ‐ संमातुरपत्यं सांमात्र इति।।