Page loading... Please wait.
4|1|110 - अश्वादिभ्यः फञ्
॥ तस्मै पाणिनये नमः ॥
4|1|110
SK 1113
अश्वादिभ्यः फञ्  
सूत्रच्छेदः
अश्व-आदिभ्यः (पञ्चमीबहुवचनम्) , फञ् (प्रथमैकवचनम्)
अनुवृत्तिः
अपत्यम्  4|1|92 (प्रथमैकवचनम्) , तस्य  4|1|92 (षष्ठ्येकवचनम्) , गोत्रे  4|1|98 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82 प्राग्दीव्यतोऽण्  4|1|83
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) अश्वादिभ्यः फञ्
सूत्रार्थः
गोत्रापत्यस्य निर्देशार्थम् अश्वादिगणस्य शब्देभ्यः फञ्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आङ्गिरस इति निवृत्तम्। अश्वादिभ्यः गोत्रापत्ये फञ् प्रत्ययो भवति। आश्वायनः। आश्मायनः। ये त्वत्र प्रत्ययान्ताः पठ्यन्ते तेभ्यः सामार्थ्याद् यूनि प्रत्ययो विज्ञायते। अश्व। अश्मन्। शङ्ख। बिद। पुट। रोहिण। खर्जूर। खर्जूल। पिञ्जूर। भडिल। भण्डिल। भडित। भण्डित। भण्डिक। प्रहृत। रामोद। क्षत्र। ग्रीवा। काश। गोलाङ्क्य। अर्क। स्वन। ध्वन। पाद। चक्र। कुल। पवित्र। गोमिन्। श्याम। धूम। धूम्र। वाग्मिन्। विश्वानर। कुट। वेश। शप आत्रेये। नत्त। तड। नड। ग्रीष्म। अर्ह। विशम्य। विशाला। गिरि। चपल। चुनम। दासक। वैल्य। धर्म। आनडुह्र। पुंसिजात। अर्जुन। शूद्रक। सुमनस्। दुर्मनस्। क्षान्त। प्राच्य। कित। काण। चुम्प। श्रविष्ठा। वीक्ष्य। पविन्दा। आत्रेय भारद्वाजे। कुत्स। आतव। कितव। शिव। खदिर। भारद्वाज आत्रेये।
`ये त्वत्र` इत्यादि। `एको गोत्रे` 4|1|93 इति वचनाद्गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो नोपपद्यते। तत्र सामथ्र्यादगोत्राधिकारेऽपि ये गोत्रप्रत्ययान्ताः पठन्ते तेभ्यः `गोत्राद्यून्यस्त्रियाम्` 4|1|94 इति यूनि प्रत्ययो विज्ञायते। `शप आत्रेये` इति। शपशब्दात् फञात्त्रेयश्चेद्भवति शापायन आत्त्रेयः, अन्यत्र शापिः। वैल्यशब्दो गोत्रप्रत्ययान्तः, तस्माद्यूनि भवति। विलिर्नाम राजर्षिः, तस्यापत्यं गोत्रम्, `वृद्धेत्कोसलाजादाञ् ञ्यङ्` 4|1|169 , वैल्यः, तस्यापत्यं वैल्यायनो युवा। आनडुह्रशब्दोऽपि गोत्रप्रत्ययान्तो गर्गादिषु, यञन्तत्वात्; तस्मादपि यून्येव फञ्-- आनडुह्रायनो युवा। स्त्रियां ढगेव भवति-- जाताया अपत्यं जातेयः। `आत्त्रेय भारद्वाजे`इति। आत्त्रेयशब्दात् फञ् भारद्वाजश्चेदपत्यार्थो भवति-- आत्त्रेयायणो भारद्वाजः, अन्यत्र आत्त्रेयिः। `भारद्वाज आत्त्रेये` इति। भारद्वाजशब्दात् फञ् आत्त्रेयेऽपत्यविशेषे-- भारद्वाजायन आत्त्रेयः, अन्यत्र -- ऋष्यण्॥
ये त्वत्र गोत्रप्रत्ययान्ताः पठ।ल्न्त इति । वैल्य, आनडुह्य, आत्त्रेय---इत्येते । तत्र बैल्यशब्द ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ इति ञ्यङ्न्तः, विलिर्नाम राजर्षैः, आनडुह्यशब्दो गर्गादियञन्तः, आत्त्रेयः ठितश्चानिञःऽ इति ढगन्तः । शय आत्त्रेये इति । शयशब्दात्फञ् भवति आत्त्रेयश्चेत्, शायायनः । आत्त्रेयादन्यत्र शायिः, अनृषित्वादिञ्, बाह्वादिर्वा । अन्ये त्वणमेव प्रत्युदाहरन्ति । पुंसि जात इति । पुंसीति प्रकृतिविशेषणम्, जातस्यापत्यं जातायनः । स्त्रियां तु जाताया अपत्यं जातेय इति ढगेव भवति, अन्यथा लिङ्गविशिष्टपरिभाषया फञेव स्यात् । आत्त्रेय भरद्वाजे इति । आत्त्रेयायनो भवति भारद्वाजश्चेत्, अन्यत्रात इञः ठ्ण्यक्षत्रियऽ इति लुक् । भारद्वाजात्त्रेये इति । अत्रिगोत्रजो यदा भारद्वाजगोत्रजेन पुत्रत्वेन स्वीक्रियते तदा प्रत्ययः । स ह्यत्त्रेयश्च भवति भारद्वाजस्य च गोत्रं भवति । भारद्वाजायन आत्त्रेयश्चेद्, भारद्वाजोऽन्यः, बिदाद्यञेव भवति ॥
सिद्धान्तकौमुदी
गोत्रे । आश्वायनः ॥ (गणसूत्रम् -) पुंसि जाते ॥ पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् ? जाताया अपत्यं जातेयः ॥
अश्वादिभ्यः फञ् - अआआदिभ्यः । गोत्रे इति । शेषपूरणमिदम् । "आङ्गिरसे" इति निवृत्तम् । आआआयन इति । अआस्य गोत्रापत्यमिति विग्रहः । इञपवादः फञ् । पुंसि जाते इति । गणसूत्रम् । प्रकृतिविशेषणमिति । पुंसि विद्यमानो यो जातशब्दस्तस्माद्गोत्रे फञित्यर्थः । जातेय इति । स्त्रीब्यो ढक् ।
अश्वादिभ्यः फञ् - अआआदिभ्यः । गोत्र इति । इह गणे बैल्य, अनाडुह्र, आत्रेय — -इति गोत्रप्रत्ययान्तारुआयः पठन्ते तेभ्यस्तु यून्येव ।एको गोत्रे॑,गोत्राद्यूनी॑ति वचनात्ष । तत्र बिलिर्नाम राजर्षिस्ततोवृद्धेत्कोसले॑ति ञ्यङ् । आनडुह्रशब्दो गर्गादिञन्तः ।आत्रेय॑शब्दो डगन्त इति ज्ञेयः । पुंसि जात इति । गणसूत्रमिदम् । जातशब्दे पुंसि विद्यमाने फञित्यर्थः । कस्मादित्याकाङ्क्षायामर्थाज्जातशब्दादिति लभ्यते । जाताया इति । लिङ्गविशिष्टपरि भाषया, एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा प्राप्तिः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.