॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|108
SK 1111
4|1|108
वतण्डाच्च  
SK 1111
सूत्रच्छेद:
वतण्डात् - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
आङ्गिरसे  [4|1|107] - सप्तम्येकवचनम् , गोत्रे  [4|1|98] - सप्तम्येकवचनम् , यञ्  [4|1|105] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) वतण्डात् आङ्गिरसे यञ्
सूत्रार्थ:
आङ्गिरसकुलवाची यः "वतण्ड"शब्दः, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आङ्गिरसे इत्येव। वतण्डशब्दादाङ्गिरसे ऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। वातण्ड्यः। आङ्गिरसे इति किम्? वातण्डः। किम् अर्थम् इदं यावता गर्गादिष्वयं पठ्यते? शिवादिषु अपि अयं पठ्यते। तत्र आङ्गिरसे शिवाद्यणो ऽपवादार्थं पुनर् वचनम्। अनाङ्गिरसे तु उभयत्र पाठसामर्थ्यात् प्रत्ययद्वयम् अपि भवति। वातण्ड्यः, वातण्डः।
किमर्थमिदम्? अनर्थकमिदमित्यर्थः। किं कारणमित्याह-- `यावता` इत्यादि। `शिवादिष्वपि` इत्यादिना प्रयोजनं दर्शयति। यदीदं नोच्येत, ततो गर्गादिपाठादाङ्गिरसे यथा यञ् भवति, तथा शिवादिषु पाठादणपि स्यात्। तस्मादाङ्गिरसे यञा शिवाद्यणो बाधनं यथा स्यादित्येवमर्थं पुनर्वचनम्। अथ गर्गादिपाठादेव सिद्धे, आङ्गिरसे नियमार्थमेतदिति कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्; प्रयोजनाभावे हि नियमार्थं भवति। इह चास्ति प्रयोजनम्, तच्च दर्शितमेव॥
किमर्थमिति । ठ्वतण्डाल्लुक् स्त्रियाम्ऽ इत्येव कस्मान्नोक्तम्, किमर्थो योगविभाग इति प्रश्नः । परिहरति---शिवादिष्वपीति । वतण्डो नाम ऋषिः, तत ऋषित्वादेवाणि सिद्धे शिवादिषु तस्य पाठो गोत्रे गर्गादियञा समावेशार्थः । तत्र यथाऽनाङ्गिरसे समावेशो भवति, एवमाङ्गिरसेऽपि स्यादिति तन्निवत्यर्थो योगविभाग इत्यर्थः ॥
सिद्धान्तकौमुदी
आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥
वतण्डाच्च - वतण्डाच्च । वतण्डस्य गर्गादौ शिवादौ च पाठाद्यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थमिदम् ।
वतण्डाच्च - वतण्डाच्च । यञणोः प्राप्तयोराङ्गिरस यञेवेति नियमार्थं सूत्रम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
वतण्डाच्च (1354) (यञ्ञोऽधिकरणम्) (सूत्रफलप्रदर्शकभाष्यम्) किमर्थमिदमुच्यते? न गर्गादिभ्यो यञ्ञ् (4।1।105) इत्येव सिद्धम्। लुक् स्त्रियाम् (109) इति वक्ष्यामीति।। (आक्षेपभाष्यम्) यदि पुनस्तत्रैवोच्येत।। (समाधानभाष्यम्) नैवं शक्यम्, आङि्गरसग्रहणं हि विच्छिद्येत।।