Page loading... Please wait.
4|1|106 - मधुबभ्र्वोर्ब्राह्मणकौशिकयोः
॥ तस्मै पाणिनये नमः ॥
4|1|106
SK 1109
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः  
सूत्रच्छेदः
मधु-बभ्र्वोः (षष्ठीद्विवचनम्) , ब्राह्मण-कौशिकयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
अपत्यम्  4|1|92 (प्रथमैकवचनम्) , तस्य  4|1|92 (षष्ठ्येकवचनम्) , गोत्रे  4|1|98 (सप्तम्येकवचनम्) , यञ्  4|1|105 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82 प्राग्दीव्यतोऽण्  4|1|83
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) मधु-बभ्र्वोः ब्राह्मण-कौशिकयोः यञ्
सूत्रार्थः
गोत्रापत्यस्य निर्देशार्थम् मधु-शब्दात् ब्राह्मणस्य निर्देशं कर्तुम् तथा बभ्रु-शब्दात् कौशिकगोत्रोत्पन्नस्य निर्देशं कर्तुम् यञ्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मधुशब्दाद् बभ्रुशब्दाच् च गोत्रापत्ये यञ् प्रत्ययो भवति यथासङ्ख्यम् ब्राह्मणे कौशिके वाच्ये। माध्व्यो भवति बाह्मणः चेत्। माधव एव अन्यः। बाभ्रव्यो भवति कौशिकश्चेत्। बाभ्रव एव अन्यः। बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम्। गर्गादिषु पठो ऽप्यन्तर्गणकार्यार्थः, सर्वत्र लोहितादिकतन्तेभ्यः 4|1|18 इति। बाभ्रव्यायणी।
यदि तर्हि बभ्रुशब्दस्य गर्गादिपाठादेव सिद्धे कौशिके नियमार्थमिह ग्रहणम्, एवं सति नार्थो गर्गादिषु पाठेन, कौशिके विध्यर्थमेव ग्रहणमस्तु, नास्य? इत्यत आह-- `गर्गादिषु पाठोऽपि` इत्यादि। गर्गादिषु पाठोऽपि कत्र्तव्यः। `सर्वत्र लोहितर` 4|1|18 इत्यादिनान्तर्गणकार्य ष्फो यथा स्यात्। अथ गण ए कौशिकग्रहणं कस्मान्न कृतम्, कः पुनरेवं सति गुणो भवति, सुत्रे पुनर्बभ्रुग्रहणं न कत्र्तव्यं भवति? सत्यमेतत्; `अपाणिनीयत्वात्` गणस्य। नैवं चाकरणे पाणिनिरुपालम्भमर्हति। गणकारेणापि हि किं न कृतम्? वैचित्र्यार्थम्। विचित्रा हि गणस्य कृतिर्गणकारेण॥
गण एव बभ्रुकौशिक इति वक्तव्यम्, एवं हि द्विबेभ्रुग्रहणं न कर्तव्यं भवति ? तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः - मधुबभ्व्रोः । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे यञिति । मधुशब्दाद्वभ्रुशब्दाच्च गोत्रापत्ये यञ्स्याद्वाहृणे कौशिके च यथासङ्ख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिर्गर्गाद्यन्तर्गणै इति भावः । बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियञि बाभ्रव्यशब्दात्सर्वत्र लोहितादिकतन्तेभ्यः॑ इति ष्फः ।आयन्नादेशः, षित्त्वान्ङीषिति भावः ।
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः - गोत्रे यद्यञन्तमित्यादि । प्रवराध्यायप्रसिद्धगोत्रवाचिनौ केवलौ यञञौ न भवत इतिगोत्र ॑इत्यनेन तदन्तं विशेषितम् । तदवयवयोरिति । निर्दिश्यमानस्यादेशा भवन्ती॑ति भावः । प्रवराध्यायेति । एतच्चस्त्रीपुंसाभ्या॑मिति सूत्रेलौकिकष्य गोत्रस्य ग्रहण॑मिति भाष्यमुपादाय कैयटेनोक्तमिति भावः । लोहितादीति ।सर्वत्र लोहितादी॑त्यादिना ष्फः । ष्फेणोक्तेऽपि स्त्रीत्वे षित्त्वासामथ्र्यान्ङीषित्याशयेनाह — -बाभ्रव्यायणीति । गर्गादिगण एवबभ्रुः, कौशिक॑इति पाठम्, एवं हि द्विर्बभ्रुग्रहणं न कर्तव्यं भवतीति हरदत्तादयः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.