॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|105
SK 1107
4|1|105
गर्गादिभ्यो यञ्  
SK 1107
सूत्रच्छेद:
गर्गादिभ्यः - पञ्चमीबहुवचनम् , यञ् - प्रथमैकवचनम्
अनुवृत्ति:
गोत्रे  [4|1|98] - सप्तम्येकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) गर्गादिभ्यः यञ्
सूत्रार्थ:
गोत्रापत्यस्य निर्देशार्थम् गर्गादिगणस्य शब्देभ्यः यञ् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
गोत्रे इत्येव। गर्गादिभ्यो गोत्रापत्ये यञ् प्रत्ययो भवति। गार्ग्यः। वात्स्यः। मनुशब्दो ऽत्र पठ्यते। तत्र कथम् मानवी प्रजा? गोत्रे इत्युच्यते। अपत्यसामान्ये भविष्यति। कथम् अनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्यः इति? गोत्ररूपाध्यारोपेण भविष्यति। अनन्तरापत्यविवक्षायां तु ऋष्यणैव भवितव्यं जामदग्नः, पाराशरः इति। गर्ग। वत्स। वाजा ऽसे। संकृति। अज। व्याघ्रपात्। विदभृत्। प्राचीनयोग। अगस्ति। पुलस्ति। रेभ। अग्निवेश। शङ्ख। शठ। घूम। अवट। चमस। धनञ्जय। मनस। वृक्ष। विश्वावसु। जनमान। लोहित। शंसित। बभ्रु। मण्डु। मक्षु। अलिगु। शङ्कु। लिगु। गुलु। मन्तु। जिगीषु। मनु। तन्तु। मनायी। भूत। कथक। कष। तण्ड। वतण्ड। कपि। कत। कुरुकत। अनडुः। कण्व। शकल। गोकक्ष। अगस्त्य। कुण्डिन। यज्ञवल्क। उभय। जात। विरोहित। वृषगण। रहूगण। शण्डिल। वण। कचुलुक। मुद्गल। मुसल। पराशर। जतूकर्ण। मान्त्रित। संहित। अश्मरथ। शर्कराक्ष। पूतिमाष। स्थूण। अररक। पिङ्गल। कृष्ण। गोलुन्द। उलूक। तितिक्ष। भिषज्। भडित। भण्डित। दल्भ। चिकित। देवहू। इन्द्रहू। एकलू। पिप्पलू। वृदग्नि। जमदग्नि। सुलोभिन्। उकत्थ। कुटीगु।
`कथं मानवी प्रजा`इति। गर्गादिषु पाठाद्यञा भवितव्यम्, ततश्च मानवीति न सिध्यतीति। लोहितादिलक्षणे हि यञन्तात्तु ष्फे विहिते मानव्यायनीति भवितव्यमित्यभिप्रायः। गोत्रमित्युच्यते, गोत्रे हि यञ् प्रत्यय उच्यते, नापत्यसामान्ये। तेन तत्रौत्सर्गिकोऽण् मानवीति भविष्यति। `कथम्` इत्यादि। यदि गोत्रमित्युच्यते, ततो यथा गर्गशब्दादनन्तरापत्ये यञ् न भवति, तथा च जमदग्निपराशरशब्दाभ्यामपि न भवितव्यम्, तत्कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इत्यत्र यञ् भवति? `गोत्ररूपाध्यारोपेण भविष्यति` इति। यदानन्तरापत्ययोरपि गोत्ररूपयो रामव्यासयोर्विवक्षितत्वाद्गोत्ररूपाध्यारोपः क्रियते, तदा यञ् भवतीत्यदोषः। असतो न युक्ता विवक्षेत्येतच्च न सम्भावनीयम्; दृश्यते ह्रसतोऽपि विवक्षा, यथा-- विन्ध्यो वर्द्धितकः, समुद्रः कुण्डिकेति। यदा तह्र्रनन्तरापत्यविवक्षा भवति, तदा केन भवितव्यमित्याह-- `अन्तरापत्यविवक्षायां तु` इत्यादि। `वाजाऽसे`इति। वाजशब्दो यञमुत्पादयति। असे, असमास इत्यर्थः। वाज्यः असमास इति किम्? सौवाजिः॥
अपत्यसामान्ये भविष्यतीति । अन्ये तु---ठ्मनुतन्तुशब्दसमुदाय एकः, न तु द्वौ शब्दौ पठितौ इति वदन्ति, तथा च ब्राह्मणे---मानुतन्तव्यमुवाचेति प्रयोगः । कालवमनुतन्तुकुशिकानामिति च प्रवरे । कथं मानवीति । लोहितादिपाठान्नित्येन ष्फेण भाव्यमिति भावः । अनन्तरापत्यविवक्षायां त्विति । गोत्रस्यापीति बोद्धव्यम्, तथा च जामदग्नाः, वात्सा इति प्रवरे प्रयोगः । वाजाऽसे इति । वाजशब्दो यञमुत्पादयति, असेउअसमासे । समासे तु सौवाजिः, ठ्ग्रहणवता प्रातिपदिकेनऽ इत्यस्यानित्यत्वज्ञापनार्थः---ठसेऽ इति प्रतिषेधः ॥
सिद्धान्तकौमुदी
गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥
गर्गादिभ्यो यञ् - गर्गादिभ्यो यञ् । गाग्र्यो वात्स्य इति । गर्गस्य गोत्रपत्यमिति, वत्सस्य गोत्रापत्यमिति च विग्रहः ।रामो-जामदग्न्यः॑, "पाराशर्यो व्यास" इत्यादौ त्वनन्तरापत्ये गोत्रात्वारोपाद्यञित्याहुः ।
गर्गादिभ्यो यञ् - गर्गादिभ्यो । गर्ग, वत्स, व्याघ्रपाद, पुलिस्त, बभ्रु, मण्डु, वतण्ड, कपि, कत शकल, कण्व, अगस्ति, कुण्डिन, यज्ञवल्क, पराशर, जमदग्नि — इत्यादि । कथं तर्हिरामो जामदग्न्यः॑इति । अनन्तरापत्ये ह्रयम् । सत्यम् । अनन्तरेऽपि गोत्रत्वारोपाद्बोध्यः ।
लघुसिद्धान्तकौमुदी
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!