॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|104
SK 1106
4|1|104
अनृष्यानन्तर्ये बिदादिभ्योऽञ्  
SK 1106
सूत्रच्छेद:
अनृषि (लुप्तपञ्चम्यन्तनिर्देशः) आनन्तर्ये - सप्तम्येकवचनम् , बिदादिभ्यः - पञ्चम्येकवचनम् , अञ् - प्रथमैकवचनम्
अनुवृत्ति:
गोत्रे  [4|1|98] - सप्तम्येकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) बिदादिभ्यः अञ्, "तस्य अनन्तरे अपत्यम्" (इति) अनृषि अञ्
सूत्रार्थ:
गोत्रापत्यस्य निर्देशार्थम् बिदादिगणस्य शब्देभ्यः अञ्-प्रत्ययः भवति । परन्तु बिदादिगणे विद्यमानाः ये शब्दाः ऋषिवाचकाः न सन्ति, तेषां विषये अनन्तरापत्ये एव अञ् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
गोत्रे इत्येव। बिदादिभ्यो गोत्रापत्ये अञ् प्रत्ययो भवति। बैदः। और्वः। ये पुनरत्र अनृषिशब्दाः पुत्रादयस्तेभ्यो ऽनन्तरापत्ये एव भवति। पौत्रः। दौहित्रः। अनृष्यानन्तर्यस्य अयम् अर्थः, अनृषिभ्यो ऽनन्तरे भवति इति। यद्ययम् अर्थः, ऋष्यपत्ये नैरन्तर्यप्रतिषेधो न कृतः स्यात्? तत्र इदं न सिध्यति, इन्द्रभूः सप्तमः काश्यपानाम्। अनन्तरापत्यरूपेण एव ऋष्यणाभिधानं भविष्यति। अवश्यं च एतदेवं विज्ञेयम्। ऋष्यपत्ये नैरन्तर्यविषये प्रतिषेधे विज्ञायमाने कौशिको विश्वामित्रः इति दुष्यति। गोत्रे इत्येव, बैदिः। ननु च ऋष्यणा भवितव्यम्? बाह्वादिः आकृतिगणः, तेन इञेव भवति। बिद। उर्व। कश्यप। कुशिक। भरद्वाज। उपमन्यु। किलालप। किदर्भ। विश्वानर ऋष्टिषेण। ऋतभाग। हर्यश्व। प्रियक। आपस्तम्ब। कूचवार। शरद्वत्। शुनक। धेनु। गोपवन। शिग्रु। बिन्दु। भाजन। अश्वावतान। श्यामाक। श्यमाक। श्यापर्ण। हरित। किन्दास। वह्रस्क। अर्कलूष। वध्योष। विष्णुवृद्ध। प्रतिबोध। रथान्तर। रथीतर। गविष्ठिर। निषाद। मठर। मृद। पुनर्भू। पुत्र। दुहितृ। ननान्दृ। परस्त्री परशुं च।
`ये पुनरत्रानृषिशब्दाः` इत्यादि। ननु च सूत्रे आनन्तर्यशब्दो भावप्रत्ययान्त उपात्तः,तत्रैवं विवरितव्यम्-- ये पुनरत्रानृषिशब्दाः पुत्त्रादयस्तेभ्योऽपत्यानन्तर्य एव भवति? नैतदस्ति; न ह्रयं भावे ष्यञ् विहितः, किं तर्हि? स्वार्थ एव, चातुर्वण्र्यवत्; अन्यथापत्यस्य धर्म आनन्तर्ये प्रत्ययः धर्म आनन्तर्ये प्रत्ययः स्यात्, नापत्ये, तत्रेष्यते च। कथं पुनर्गोत्राधिकारे सत्यनुषिभ्योऽनन्तरापत्य एव प्रत्ययो लभ्यते? अत्र गोत्रग्रहणं निवत्र्तते। ऋषिशब्देभ्योऽनन्तरापत्य एव स्वदित्यत आह-- `अनृष्यानन्तर्य इत्यस्यायम्` इत्यादि। `यद्ययमर्थः` इत्यादि। अस्मिन् ह्रर्थे सत्यनृष्यानन्तर्य इत्येतद्विष्यर्थ भवति; अनृषेरनन्तरापत्ये प्रत्ययविधानात्। ततश्च ऋष्यपत्य आनन्तर्येप्रतिषेधो न कृतः स्यादित्याह-- `ऋषिशब्दोऽत्रऋषिजातावृषित्वे वत्र्तते। `अपत्येषु नैरन्तर्यम्` इति। `सप्तमी` 2|1|39 इति योगविभागात्समासः। पश्चादृषेरपत्यनैरन्तर्यमिति षष्ठीसमासः। तदायमर्थो भवति-- ऋषित्वस्यापत्येषु नैरन्तर्यविषयेऽञः प्रतिषेधो न कृतः स्यात्। अथ वा-- ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्यं तद्विषये प्रतिषेधोऽञः प्रत्ययस्य न कृतऋ स्यादित्यर्थः। ततर् को दोषः? इत्याह-- `तत्रेदम्` इत्यादि। सप्त काश्यपा ऋषयोऽपत्यापत्यवत्सम्बन्धेन परसप्रं सम्बद्धाः, येषां मित्त्रहूर्नाम काश्यपः सप्तमः, तेषामुषित्वस्यापत्येषु नैरन्तर्यम्। तत्र ऋष्यपत्यानां वा नैरन्तर्ये विषयेऽञः प्रतिषेध इष्यते,काश्यपानामित्येतद्रूपं यथा स्यात्। अञि सति तस्य बहुषु लोपाभावात् काश्यपानामिति प्राप्नोति। स च प्रतिषएधोऽस्मिन्नर्थे सति न प्राप्नोति, ततश्च काश्यपानामिति न सिध्यति। तस्मात् `अनृष्यानन्तर्ये` इत्यस्य ऋष्यपत्यनैरन्तर्येण न भवतीत्येषोऽर्थो विज्ञायत इत्यभिप्रायः। `अनन्तरापत्यरूपेणैव` इति। न चात्र गोत्रापत्यं विवक्षितम्। किं तर्हि? किं तर्हि? अनन्तरापत्यम्। अतोऽनन्तरापत्यरूपेणैव ऋष्यणा ऋष्यन्धकादिषु 4|1|114 विहितेन काश्यपानामित्यभिधानं भविष्यति। एतदेव द्रढयितुमाह-- `अवश्यञ्च` इत्यादि। ऋष्यपत्यं नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः। ऋषित्वस्यापत्येषु ऋष्यपत्यानां वा यन्नैररन्तर्य तद्विषये प्रतिषेधे विज्ञायमान इत्यर्थः। `कौशिको विआआमित्र इति दुष्यति` इति। किं कारणम्? विआआमित्रस्तपस्तेपे-- नानृषिः स्यामिति, तत्रभवानृषिः सम्पन्नः,स पुनस्तपक्षेपे --नानृषेः पुत्त्रः स्यामिति, तत्रभवान् गाधिरपि ऋषिः सम्पन्नः; स पुनस्तपस्तेपे-- नानृषेः पौत्रः स्यामिति; तत्रभवान् कुशिकोऽपि ऋषिः सम्पन्नः। तदेतद्भवति-- ऋषित्वस्यापत्येषु नैरन्तर्यम्ृष्यपत्यानां वानन्तर्यम्। ततश्च ऋष्यपत्यनैरन्तर्ये न भवतीत्येवं विज्ञायमाने कौशिको विआआमित्र इति न सिध्यति।`परस्त्री परशुञ्च` इति।परस्त्रीशब्दः प्रत्ययमुत्पादयति परेशुभावञ्चापद्यते। परस्त्रिया अपत्यं पारशवः॥
गोत्र इत्येवेति । एतेन येऽत्र ऋषिशब्दा बिदौर्वप्रभृतयस्तेभ्यो गोत्र एवान्यथा स्यादिति गोत्र इत्येतदिहानुवर्तनीयमिति दर्शयति---ये पुनरित्यादि । कथं पुनर्गोत्राधिकारे सत्ययमर्थो लभ्यते ? इत्यत्राह---अनृष्यानन्तर्य इत्यस्यायमर्थ इति । ठनृषिऽ इति पञ्चम्या लुका निर्देशः, ठानन्तर्येऽ इति स्वार्थेष्यञ् । एवं च पौत्रा इत्यादावनन्तरस्यैवाभिधानम्, न गोत्रस्य, नापत्यसामान्यस्य च । यद्ययमर्थ इति । अस्मिन् ह्यर्थेऽनृषिभ्योऽनन्तरापत्ये विध्यर्थमिदं भवति, ततश्च ऋष्यपत्यनैरन्तर्ये, ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्ये, ऋषिरूपाण्यपत्यानि निरन्तराणि यत्र तस्मिन्विषये प्रतिषेधो न कृतः स्यात्, तत्र को दोषः ? इत्यत्राह---तत्रेदमिति । कश्यप ऋषिस्तस्यापत्यमप्यृषिः, एवम् ठ्सप्त नैरन्तर्येण ऋषयस्तेषां सप्तम इन्द्रहूर्नाम तत्र काश्यपानाम्ऽ इति प्रयोगो नोपपद्यते; अञि सति ठ्यञञोश्चऽ इति लुक्प्रसङ्गात् । तस्माद् ठनृष्यानन्तर्येऽ इत्यस्य ऋषीणामानन्तर्येऽव्यवधाने प्रत्ययो न भवतीत्ययमर्थो व्याख्येय इति भावः । प्रयोगं तावदुपपादयति---अनन्तरापत्यरूपेणेति । अपत्यसामान्यरूपेणेत्यर्थः । न पुनरृष्यणनन्तरापत्ये विधीयते । तत्र यथा ठभून्नृपःऽ इत्यादौ वस्तुतो भूतविशेषेऽपि सामान्यविवक्षया लुग् भवति, तद्वदिहापि वस्तुतो गोत्रेऽपि तद्रूपतिरस्कारेणापत्यसामान्यरूपविवक्षया ऋष्यण्भवतीत्यर्थः । किं पुनः कारणमियं क्लिष्टकल्पनाऽऽश्रीयते ? इत्याह---अवश्य चैतदेवं विज्ञेयमिति । ऋषीणामपत्यानां नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः । कौशिको विश्वामित्र इति दुष्यतीति । कि कारनम् ? विश्वामित्रस्तपस्तेपे---नानृषिः स्यामपि तु ऋषिरेवस्यामिति, तत्र भवानृषिः सम्पन्नः; स पुनस्तपस्तेपे---नानृषेः पुत्रः स्यामिति, तत्र भावन् गाधिरप्यृषिः सम्पन्नः; स पुनस्तपस्तेपे---नानृषेः पौत्रः स्यामिति, तत्र भवान्कुशिकोऽपि ऋषिः सम्पन्नः । तदेतदृष्यानन्तर्यं सम्भवति । परस्त्री परशुं चेति । द्वितीयानिर्देशादापद्यते इति शेषः । परस्त्रीशब्दः प्रत्ययमुत्पादयति, परशुं चादेशमापद्यते, परस्त्रिया अपत्यं पारशवः, ब्राह्मणस्य शूद्रायामूढायामुत्पन्नः, सा च जातितः वरस्त्री भवति । यस्तु परभार्यायामुत्पन्नः पारस्त्रैणेयः स भवति कल्याण्यादिः, अनुशतिकादिश्च । पारशव इत्यत्र पूर्वोतरपदसम्प्रमोहादनुशतिकादिकार्याभावः ॥
सिद्धान्तकौमुदी
एभ्योऽञ् गोत्रे, ये त्वत्रानृषयः पुत्रादयस्तेभ्योऽनन्तरे । सूत्रे स्वार्थे ष्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः । दौहित्रः ॥
अनृष्यानन्तर्ये बिदादिभ्योऽञ् - अनृष्यानन्तर्ये ।अनृषी॑ति लुप्तपञ्चमीकम् । बिदादिभ्योऽञिति द्विरावर्तते । तथा चअनृष्यानन्तर्ये विदादिभ्योऽ॑ञिति कृत्स्नमेकं वाक्यं ।बिदादिभ्योऽ॑ञिति वाक्यान्तरं । तत्र द्वितीयं वाक्यं व्याचष्टे — एभ्योऽञ्गोत्रे इति । गोत्रे विवक्षिते विदादिभ्योऽञ्स्यादित्यर्थः ।अथ प्रथमं वाक्यं कृत्सनसूत्रं व्याचष्टे — ये त्विति । अनृषिभ्यो विदादिभ्योऽनन्तरापत्येऽञ्स्यादित्यक्षरार्थः । विदादौ हि ऋषयोऽनृषयश्च पठिताः । तत्र येऽनृषयस्तेभ्योऽनन्तरापत्येऽञिति फलितमिति भावः । नन्वानन्तर्ये इति श्रवणादनन्तर इति कथमित्यत आह — सूत्रे स्वार्थे ष्यञिति ।अनन्तरशब्दा॑दिति शेषः । चतुर्वर्णादित्वादिति भावः । बिदस्य गोत्रापत्यं बैद इति । बिदस्य ऋषित्वात्ततो गोत्र एवाऽञिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । नन्वनन्तरापत्येऽञभावे इञपवाद ऋष्यणेवोचित इति कथमनन्तरो वैदिरित्यत आह — बाह्वादेरिति । बिदादिगणस्थादनृषेरनन्तरात्येऽञमुदाहरति — पौत्रो दौहित्र इति । पुत्रस्यानन्तरापत्यमिति, दुहितुरनन्तरापत्यमिति च विग्रहः । यथायथमणिञोपरपवादेऽञ् ।
अनृष्यानन्तर्ये बिदादिभ्योऽञ् - अनृष्या ।अनृषी॑ति पञ्चम्याः सौत्रो लुक् । अनृषिभ्य इत्यर्थः । सूत्रे इति । आनन्तर्य [इत्यत्र] इत्यर्थः । स्वार्थ इति । चातुर्वण्र्यादेराकृतिगणत्वादिति भावः । बैदिरित्यत्र ऋष्यणमाशङ्क्याह — -बाह्वादेरिति । बिद, उर्व, कश्यप,, कुशिक, भरद्वाज, उपमन्यु, विआआनर,परस्त्री परशुं च॑ इत्यादि ।
लघुसिद्धान्तकौमुदी
एभ्योऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥
महाभाष्यम्
अनृष्यानन्तर्ये बिदादिभ्योऽञ्ञ् (1350) (अञ्ञोऽधिकरणम्) (आक्षेपभाष्यम्) अनृष्यानन्तर्य इत्युच्यते तत्रेदं न सिध्यति ‐ कौशिको विश्वामित्र इति। किं कारणम्? विश्वामित्रस्तपस्तेपे नानृषिः स्यामिति। तत्रभवानृषिः संपन्नः। स पुनस्तपस्तेपे नानृषेः पुत्रः स्यामिति। तत्रभवान् गाधिरपि ऋषिः संपन्नः। स पुनस्तपस्तेपे नानृषेः पौत्रः स्यामिति। तत्रभवान् कुशिकोऽपि ऋषिः संपन्नः। तदेतदृष्यानन्तर्यं भवति। तत्रानृष्यानन्तर्य इति प्रतिषेधः प्राप्नोति।। (एकदेशिसमाधानभाष्यम्) नैष दोषः। नैवं विज्ञायते ‐ ऋष्यानन्तर्ये न भवतीति। कथं तर्हि? ऋषावनन्तरे नेति।। (प्रत्याक्षेपभाष्यम्) यद्येवम् ‐ (5282 प्रत्याक्षेपवार्तिकम्।। 1 ।।) - अनृष्यानन्तर्यवचनमनर्थकं संज्ञागोत्राधिकारात् - (भाष्यम्) अनृष्यानन्तर्यवचनमनर्थम्। किं कारणम्? संज्ञागोत्राधिकारात्। संज्ञागोत्र इति वर्तते, कः प्रसङ्गो यदनन्तरे स्यात्। नैव प्राप्नोति, नार्थः प्रतिषेधेन।। (सिद्धान्तभाष्यम्) एवं तर्हि सिद्धे सति यदनृष्टानन्तर्य इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो बिदादिषु येऽनृषयः पठ्यन्ते तेषामनन्तरेऽपि वृत्तिर्भवतीति। किमेतस्य ज्ञापने प्रयोजनम्। नानान्द्रः, पौत्रः, दौहित्र इत्येतत् सिद्धम्भवति।।