Page loading... Please wait.
4|1|103 - द्रोणपर्वतजीवन्तादन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
4|1|103
SK 1105
द्रोणपर्वतजीवन्तादन्यतरस्याम्  
सूत्रच्छेदः
द्रोण-पर्वत-जीवन्तात् (पञ्चम्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
अपत्यम्  4|1|92 (प्रथमैकवचनम्) , तस्य  4|1|92 (षष्ठ्येकवचनम्) , गोत्रे  4|1|98 (सप्तम्येकवचनम्) , फक्  4|1|99 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82 प्राग्दीव्यतोऽण्  4|1|83
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) द्रोण-पर्वत-जीवन्तात् फक् अन्यतरस्याम्
सूत्रार्थः
द्रोण, पर्वत, जीवन्त - एतेभ्यः शब्देभ्यः गोत्रापत्यस्य निर्देशार्थम् विकल्पेन फक् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गोत्रे इत्येव। द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये ऽन्यतरस्यां फक् प्रत्ययो भवति। इञो ऽपवादः। द्रौणायनः, द्रौणिः। पार्वतायनः, पार्वतिः। जैवन्तायनः, जैवन्तिः। कथम् अनन्तरः अश्वत्थामा द्रौणायनः इत्युच्यते। न एव अत्र महाभारतद्रोणो गृह्यते। किं तर्हि? अनादिः। तत इदं गोत्रे प्रत्ययविधानम्। इदानींतनात् तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति।
`कथम्` इत्यादि। यदि गोत्रापत्ये द्रोणादिभ्यः फग्भवति, तत्कथं द्रौणायनः, द्रोणतः प्रतीत्येवमादिषु प्रयोगेष्वनन्तरोऽआत्थामा इत्युच्यते? `नैवात्र` इति। नात्रेदानीन्तनो द्रोणस्तदनन्तरापत्ये फका द्रोणायन इति, किं तर्हि? `अनादिः`इति। श्रुतिसम्भवदर्शनार्थमिदमुक्तम्। येन हेतुनाआत्थामा द्रौणायन इत्युच्यते तमिदानीन्तनेत्यादिना दर्शयति। `इदानीन्तनात्तु`इत्यादि। अनादिद्रोणव्यवच्छेदपरमेतद्वेदितव्यम्। न हि तावद्भारतद्रोण इदानीन्तनो भवति; चिरातीतत्वात्। चिरातीतोऽप्यर्थो बुद्धौ परिभाव्यमानो वत्र्तमानतां प्रतिपद्यते, यथा-- अद्य कंसो हन्यताम्। इदानीन्तनाद् द्रोणादप्यआत्थाम्नि द्रोणायन इत्येवं गोत्रप्रत्ययेन यदभिधानं तदध्यारोपेण भवति। अविद्यमानस्यैव तत्रासञ्जनमध्यारोपः। कस्याध्यारोपः? गोत्रस्य। `श्रुतिसामान्यात्` इति। अध्यारोपे हेतुः। अनादेद्र्रोणस्याआत्थानम्नः पितुश्च द्रोण इति समाना श्रुतिः। अतः श्रुतिसामान्यादनादिद्रोणापत्यस्य यो धर्मो गोत्रत्वं तद्भावं भारतद्रोणापत्येऽआत्थाम्न्यपि श्रुतिसामन्याच्चलितबुद्धयः प्रतिपत्तार अध्यारोपयन्ति। तेनाध्यारोपेण द्रोणायन इति तत्राभिधां प्रवत्र्तत#ए॥
पूर्वमुक्तम्--गोत्राधिकारश्च शिवादिभ्योऽण् इति यावदिति, इहाप्युक्तम्---गोत्र इत्येवेति, तत्र नोदयति---कथमिति । नैवात्रेति । यस्य ग्रहणमूरीकृत्य भवानानन्तर्ये दोषमाह, स नैव गृह्यत इत्येवशब्दस्यार्थः । महाभारतेद्रोणोमहाभारतद्रोणः । अनादिरिति । इदानीमेव ह्युक्तम्---बाह्वादिप्रभृतिष्वित्यादि । नन्वेवं प्रयोगस्यात्यन्तमनुपपतिः ? इत्यत आह---इदानीं त्विति । अर्वाचीनादित्यर्थः, न पुनर्महाभारतद्रोणो वृत्तिकारेण समानकालः; अनादेरिदानीन्तनस्य च द्रोण इति श्रुतिः समाना । तत्रानादिद्रोणस्य ये वंश्या अश्वत्थाम्ना समानकालास्ते द्रोणायना इत्युच्यन्ते । तत्र यद् दृष्ट्ंअ गोत्रत्वं तदश्वत्थाम्न्यपि द्रोणशब्दावाच्यापत्यत्वात् स्खलितबुद्धयः प्रतिपतारोऽध्यारोपयन्ति । तेनाध्यारोपेणाअश्वत्थामनि तथा द्रौणायन इत्येतद् गोत्रप्रत्ययेनाभिधानं भवति ॥
सिद्धान्तकौमुदी
एभ्यो गोत्रे फग्वा । द्रौणायनः- द्रौणिः । पार्वतायनः- पार्वतिः । जैवन्तायनः- जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।
द्रोणपर्वतजीवन्तादन्यतरयाम् - द्रोणपर्वत । अनादिरिति । अस्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः,तदपेक्षया अन्य एवायमनादिद्रोण इत्यर्थः । अआत्थाम्नीति । द्रोणाचार्यस्यानन्तरापत्ये अआत्थाम्नि "द्रौणायन" इति प्रयोग इत्यर्थः । तदिदंबाह्वादिभ्यश्चे॑ति सूत्रे भाष्ये स्पष्टम् ।
द्रोणपर्वतजीवन्तादन्यतरयाम् - अनादिरिति । अआत्थाम्नः पिता यो महाभारते प्रसिद्धः, तदपेक्षयाऽन्य एवायं द्रोण इत्यर्थः । अआत्थाम्नीत्यादि । द्रोणाचार्यस्यानन्तरापत्ये अआत्थाम्निद्रौणायन॑इति प्रयोगो भाक्त इत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.